चतुर्थः पटलः - रामचक्रम्
मन्त्रदोषादिनिर्णयः
अथ वक्ष्ये महादेव चक्रसारं सुदुर्लभम् ।
रामचक्रं महाविद्या सर्वमन्दिरमेव च ॥१२४॥
सर्वसिद्धिप्रदं मन्त्रं निजनामस्थमाश्रतेत् ।
तदैव सिद्धिमाप्नोति सत्यं सत्यं महेश्वर ॥१२५॥
तत्प्रकारं श्रृणु क्रोधभैरव प्रियवल्लभ ।
नवाङ्कान् प्रलिखेद् विद्वान् वामदक्षिणभागतः ॥१२६॥
तन्मध्ये क्रमशो दद्यात् तथा सप्तदशाङकान् ।
दक्षिणादिक्रमेणैवमुक्ताविद्याः समालिखेत् ॥१२७॥
अकारदिक्षकारान्तं सर्वस्मिन् मन्दिरे लिखेत् ।
बालादिदेवताः सर्वा भ्रामर्यन्ताश्च देवताः ॥१२८॥
अस्याकाशविधे गेहे सान्तनित्यं फलप्रदम् ।
पुनर्विलोममार्गेण आदिक्षान्तार्णामन्दिरे ॥१२९॥
रक्तदन्तादि श्रीविद्या मन्त्रान्तं विलिखेद् बुधः ।
क्षकाराद्यनुलोमेन अकारन्तं लिखेत् ततः ॥१३०॥
पुनस्तच्छेषविद्याश्च शेषगेहे लिखेत् सदा ।
कायशोधनमुख्यादि शैलवासिनि मन्त्रकम् ॥१३१॥
पञ्चविंशतिगेहस्थं गणयेत साधकस्ततः ।
गृहस्थमङ्कं वक्ष्यामि श्रृणु योगीशवल्लभ ॥१३२॥
बालागृहादिशेषान्तं मुनिहस्तविधौ गृहे ।
क्रमेण श्रूणु तत्सर्वं सावधानावधारय ॥१३३॥
दक्षिणावर्तयोगेन गणयेत् क्रमशो बुधः ।
वसुसप्तपञ्चमेषुवहिनवेदानलस्तथा ॥१३४॥
मुनिषष्ठाद्यवेदाश्च सप्तेषुमुनयस्तथा ।
पञ्चवेदेषुवसवो वेदषुवहनयस्तथा ॥१३५॥
वहिनवेदाश्च सम्र्पोक्त आकाशं तदनन्तरम् ।
आकाशानन्तरे गेहे अनलं परिकीर्तितम् ॥१३६॥
तत्पश्चात् सर्वगेहेषु सर्वाङ्क दक्षतः श्रृणु ।
वहिन वहिनवेदवहिन वेदवहनय एव च ॥१३७॥
श्रवणक्षिवेदबाण वेदेषु सप्तकस्तथा ।
षष्ठाष्टसप्तमाः प्रोक्ता वहन्यग्नीषु मुनिस्तथा ॥१३८॥
मुनीषु बाणवेदाश्च मुन्यग्निवहनयस्तथा ।
वहिनवेदबाणसत अष्टाङ्कवेदबाणकाः ॥१३९॥
पञ्चसप्तानलाग्निश्च वहनीषुबाणबाणकाः ।
बाणवेदकान्तवेदकान्तश्रुतिचतुर्थकाः ॥१४०॥
रामर्षिमुनिषष्ठाश्च सप्तेषु रामवेदकाः ।
वेदसप्ताष्टवसवो नवमाष्टमसप्तमाः ॥१४१॥
वहन्यग्निवेदबाणाश्च वस्वष्टानलवेदकाः ।
सप्ताष्टमाश्च सम्प्रोक्ता गृहाङ्का परिकीर्तिताः ॥१४२॥
येषां मनसि या विद्या सदा तिष्ठति भावने ।
तामाश्रित्य जपेद्विद्वान् तदा सिध्यति निश्चितम् ॥१४३॥
स्वनाम देवतानाम पूरयेत् षोडशाङ्ककैः ।
हरेन्निजगृहस्थेन चाङ्केन साधकोत्तमः ॥१४४॥
कृतशेषं बहुतरं शुभं देवस्य निश्चितम् ।
अल्पाङ्कसाधकस्यापि सौख्यमेव न संशयः ॥१४५॥
उक्तक्रमेण गणयेत् साधकः स्थिरमानसः ।
महाविद्यानायिकादियज्ञभूतादिसाधने ॥१४६॥
सम्प्रोक्तं चक्रसारञ्च सर्वतन्त्रेषु गोपितम् ।
ततश्चचक्राविचारेण सिद्धिमाप्नोति साधकः ॥१४७॥
N/A
References : N/A
Last Updated : April 08, 2011
TOP