रत्नावली - तृतीयोऽङक्

‘ रत्नावली’ नाटकात हर्षाने प्राकृत भाषांपैकी शौरसेनीचा मुख्यत्वेंकरून उपयोग केला आहे.


( ततः प्रविशति मदनिका)

मदनिका —— ( आकाशे ) कौशाम्बिके , अपि दृष्टा त्वया भर्तुः सकाशे काञ्नमाला न वेति । ( कर्णं दत्त्वा आकर्ण्य ) किं भणसि —— कोऽपिकालस्तयाऽऽगत्य गतया इति । तत् कुत्रेदानीं प्रेक्षिष्ये । ( अग्रतोऽवलोक्य )

काञ्चनमालेत एवाऽगच्छति । तद् यावदेनामुपसर्पामि । ( कौसंबिए , अवि द्ट्ठिा तुए भट्टिणो सआसे कंचणमाला णवेत्ति । किं भणासि —— को वि कालो ताए आअच्छिअ गदाए त्ति । ता कहिं दाणि पेक्खिस्सं । कहं एसा खु कंचणमाला इदो ज्जेव्व आअच्छदि । ता जाव ण उवसप्पामि । )

( ततः प्रविशति काञ्चनमाला)

काञ्चनमाला —— ( सोत्प्रासम् ) साधु रे वसन्तक , साधु । अतिशयितस्त्वयाऽमात्यौगन्धरायणोऽप्यनया सन्धिविग्रहचिन्तया । ( साहू रे वसंतअ , साहू । अदिसइदो तुए अमच्चजोअंधराअणो वि इमाए संधिविग्गहचिंतए । )

मदनिका —— ( सस्मितमुपसृत्य ) हला काञ्चनमाले किमद्य वसन्तकेन कृतं येन स एव श्लाघ्यते । ( हला कंचणमाले , किं अज्ज वसंतएण किदं जेण सो एव्वं सलाहीअदि । )

काञ्चनमाला —— हला मदनिके , किं तवैतेन पृष्टेन प्रयोजनम् । त्वमिदं रहस्यं रक्षितुं न पारयसि । ( हला मअणिए , किं तव एदिणा पुच्छिदेण पओअणं । तुमं इम रहस्स रक्विखदुं ण पारोसि । )

मदनिका —— शपे देव्याशचरणैर्यदि कस्यापि पुरतः प्रकाशयामि । ( सवामि देवीए चरणेंहि जइ कस्स वि पुरदो पओसेमि । )

काञ्चनमाला —— तद् यावच्छृणु । अद्य खलु मया राजकुलात् प्रति - निवर्तमानया चित्रशालिकाद्वारे वसन्तकस्य सुसंगतया सममालापः श्रुतः । ( ता जाव सुणु । अज्ज खु मए राअकुलादो पडिणिवत्तमाणाए चित्तसालिआदुवारें वसंतअस्स सुसंगदाए समं आलावो सुदो । )

मदनिका —— ( सकौतुकम् ) सखि , कीदृशः । ( सहि , कीदिसो । )

काञ्चनमाला —— यथा —— सुसंगते , न हि सागरिकां वर्जयित्वा प्रियवयस्यान्त् किमप्यस्वस्थतायाः कारणम् । तदत्र प्रतीकारं चिन्तय ।

( जहः—— सुसंगदे, णहि साअरिअं वज्जिअ पिअवअस्ससस्स अण्णं किं पि अस्सत्थदाए कालणं । ता एत्थ पडिआरं चिंतेहि । )

मदनिका —— ततः सुसंगतया किं भणितम् । ( तदो सुसंगदाए किं भणिदं । )

काञ्चनमाला —— ततस्तयैवं भणितम् । अद्य खलु देव्या चित्रफलकवृत्तान्तशङ्कितया सागरिकां मम हस्ते समर्पयन्त्या यन् नेपथ्यं मे प्रसादीकृतं ततस्तस्मिन्नेव विरचितभत्रीवेषां सागरिकां गृहीत्वाऽहमपि काञ्चनमालावेषधारिणी भूत्वा प्रदोषकाले इहाऽगमिष्यामि । त्वमपीलाऽस्थितः प्रतिपालयिष्यासि । ततो माधवीलतामण्डपे तया सह भुर्तः समागमो भविष्यति । ( तदो ताए एव्वं भणिदं —— अज्ज खु देवीए चित्तफलअवृत्तंतसंकिदाए साअरिअं मम हत्थे समप्पअंतीए जं णेवत्थं मे पसादीकिदं तदो तस्सि जेव्व विरइदभट्टिणीवेस साअरिअं गेण्हिअ अहं पि कंचणमालावेसधारिणी भविअ पदोसकाले इह आगमिस्स । तुमं पि इह आट्ठिदो पदिवालइस्ससि तदो माहवीलदामंडवे ताए सह भट्टिणी समागमो भविस्सादि । )

मदनिका —— सुसंगते , हत्ताऽसि खलु त्वं यैव पीरजनवत्सलां देवीं वञ्चयसि । ( सुसंगदे , हदासि खु तुमं जा एव्वं परिअणवच्छलां देवीं वंचेसि । )

काञ्चनमाला —— हला मदनिके , इदानी त्वं क्व प्रस्थिता । ( हला मअणिए , दाणिं तुम कहि पत्थिदा । )

मदनिका —— अस्वस्थशरीरस्य भर्तुः कुशलवृत्तांन्तं ज्ञातुं गता त्वं चिरयसीत्युत्ताम्यन्त्या देव्या तव सकाशं ज्ञातुं प्रेषिताऽस्मि । ( अस्सत्थसरीरस्स भट्टिणो कुसलवृत्तंत जाणिदुं गदा तुमं चिरअसीत्तिउत्तम्मंतीए देवीए तुह सआसं जाणिदुं

पेसिदम्हि । )

काञ्चनमाला —— अतिऋजुका सा देवी यैव प्रत्याय्यते । ( परिक्रम्यावलोक्य च ) एष खलु भर्ताऽस्वस्थतामिषेणाऽमनो मदनावस्थां प्रच्छादयन् दन्ततोरणवलभ्या उपर्युपविष्टस्तिष्ठति । तदेहि । एतद् वृत्तान्त भट्टिन्यै निवेदयावः ।

( अदिउजुआ सा देवी जा एव्वं पतिआअदि । एसो खु भट्टा अस्सत्थदामिसेण अत्तणो मअणावत्थं पच्छदअंतो दंततोरणवलहीए उवरि उवविट्ठो । ताएहि । एदं वुत्तंत भट्टिणीए णिवेदेम्ह ।)

इति प्रवेशकः

( ततः प्रविशति मदनावस्थां नाटयन्नुपविष्टो राजा ।)

राजा —— ( निःश्वस्य )

संतापो हृदयो स्मरानलकृतः संप्रत्ययं सह्यतां

नास्त्येवोशमोऽस्य तां प्रति पुनः किं त्वं मुधा ताम्यसि ।

यन् मढेन मया तदा कथमपि प्राप्तो गृहीत्वा चिरं

विन्यस्तस्त्वयि सान्द्रचन्दनरसस्पर्शो न तस्याः करः ॥१॥

अहो , महदाश्चर्यम् ।

मनश्चलं प्रकृत्यैव दुर्लक्ष्य च तथापि मे ।

कामेनैतत् कथं विद्धं समं सर्वेः शिलीमुखैः ॥२॥

( ऊर्ध्वमवलोक्य) भोः कुसुमधन्वन् ।

बाणाः पञ्च मनोभवस्य नियतास्तेषामसंख्यो जनः

प्रायोऽस्मद्विध एव लक्ष्य इति यल् लोके प्रसिद्धिं गतम् ।

दृष्टं तत् त्वयि विप्रतीपमधुना यस्मादसंख्यैरयं

विद्धः कामिजनः शरैरशरणो नीतस्त्वया पञ्चताम् ॥३॥

( विचिन्त्य) न तथाऽहमेवविधावस्थमात्मानमनुचिन्तयामि यथान्तर्गूढकोपसंभाराया देव्या लोचनगोचरगतां तामेव तपस्विनी सागरिकाम् । तथाहिः

ह्रिया सर्वस्याधो नयति विदिताऽस्मीति वदनं

द्वयोर्दृष्ट्वाऽऽलापं कलयति कथामात्मविषयाम् ।

सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं

प्रिया प्रायेणाऽस्ते हृदयनिहितातङ्कविधुरा ॥४॥

प्रषितश्च मया तद्वार्तान्वेषणाय वसनतकः । तत् कथं चिरयति ।

( ततः प्रविशति हृष्टो वसन्तकः)

विदूषकः - ( सपरितोषम् ) ही ही भोः । कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य हृदयाभिलाष आसीद् यादृशो मत्सकाशदद्य प्रियवचनं श्रुत्वा भविष्यतीति तर्कयामि । तद् यावद् गत्वा प्रियवयस्यस्य निवेदयिष्ये । ( परिक्रम्यावलोक्य च ) कथमेष प्रियवयस्यो यथेमामेव दिशमवलोकयंस्तिष्ठति तथा तर्कयामि मामेव प्रतिपालयति । तद् यावदेनमुपसर्पामि । ( इत्युपसृत्य ) जयतु जयतु प्रियवयस्यः । भो वयस्य , दिष्ट्या वर्धसे त्वं समीहितकार्यसिद्ध्य़ा । ( ही ही भोः कोसंबीरज्जलाहेणावि ण तादिसो पिअवअस्सस्स हिअअभिलासो आसी जादिसो मम सआसादो अज्ज पिअवअणं सुणिअ हविस्सदित्ति तक्केमि । ता जाव गदुअ पिअवअस्सस्स णिवेदइस्सं । कधं एसो पिअवअस्सो जधा इमं ज्जेव्व दिसं अवलोअंतो चिट्ठदि तहा तक्केमि म ज्जेव्व पडिमालेदि । ता ता जाव णं उवसप्पामि । जअदु जअदु पिअवअस्सो । भो वअस्स , दिठ्टिआ वड्ढसे तुमं समीहिदकज्जसिद्धीए । )

राजा —— ( सहर्षम् ) वयस्य , अपि कुशलं प्रियायाः सागरिकायाः ।

विदूषकः —— ( सहर्षम् ) अचिरेण स्वयमेव प्रेक्ष्य ज्ञास्यसि । ( अइरेण सअं एव्व पेक्खिअ जाणिस्ससि । )

राजा —— ( सपरितोषम् ) वयस्य , दर्शनमपि भविष्यति प्रियायाः ।

विदूषकः —— ( साहंकारम् ) भोः , किमति न भविष्यति यस्य त उपहसितबृहस्पतिबुद्धिविभवोऽयममात्यः । ( भोः ; किं त्ति ण भविस्सदि जस्स दे उवहसिदविहप्पदिबुद्धिविहवो अअं अमच्चो । )

राजा —— ( विहस्य ) न खलु चित्रम् । किं न संभाव्यते त्वयि । तत् कथय । विस्तरतः श्रोतुमिच्छामि ।

विदूषक —— ( कर्णे ) एवमेवम् । ( एव्वमेव । )

राजा —— ( सपरितोषम् । ) वयस्य , इदं ते पारितोषिकम् ।

( इति हस्तादवतार्य कटकं ददाति)

विदूषकः —— ( कटकं परिधायाऽमानं निर्वर्ण्य ) भवत्वेवं तावत् । इमं शुद्धसौवर्णकटमण्डितहस्तमात्मनो ब्राह्मण्यै गत्वा दर्शयिष्यामि । ( भोदु एव्वं दाव । इमं सुद्धसोवण्णकडअमंडिअहत्थं अत्तणो बम्हणीए गदुअ दंसइस्सं )

राजा —— ( हस्ते गृहीत्वा निवारयन् ) सखे , पश्चाद् दर्शयिष्यसि । ज्ञायतां तावदधुना किमवशिष्टमह्र इति ।

विदूषकः —— ( आवलोक्य ) भोः ; प्रेक्षस्व प्रेक्षस्व । एष खलु गुर्वनुरागोत्क्षिप्तहृदयः वारुणीवधूदत्तसंकेत इवास्तगिरिशिखरकाननमनुसरति भगवान् सहस्ररश्मिः । ( भो , पेक्ख पेक्ख । एसो खु गुरुअणुराआहेक्खित्तहिअओ वारुणीवहूदिण्णसंकेदो

विअ अत्थगिरिसिहरकाणणं अणुसरदि भअवं सहस्सरस्सी । )

राजा —— ( विलोक्य सहर्षम ) सखे , सम्यगुपलक्षितम् । पर्यवसितमहः । तथाहि

अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घ विलङ्घ्य़

प्रातः प्राप्तुं रथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः ।

संध्याकृष्टाविशष्टस्वकरपरिकरस्पष्टहेमारपङिक्तर —

व्याकृष्यावस्थितोऽस्ताक्षितिभृति नयतीवैष दिक्चक्रमर्कः ॥५॥

अपि च

यातोऽस्मि पद्मवदने , समये ममैष

सुप्ता मयैव भवती प्रतिबोधनीया ।

प्रत्यायनामयमितीव सरोरुहिण्याः

सूर्योऽस्तमस्तकनिविष्टकरः करोति ॥६॥

तदुत्तिष्ठि । तत्रैव माधवीलतामण्डपे गत्वा प्रियतमासंकेतावसरं प्रतिपालयावः ।

विदूषकः —— शोभनं भणिततम । ( इत्युत्तिष्ठति । विलोक्य ) भो वयस्य , प्रेक्षस्व । एष खलु बहलीकृताविरलवनराजिसंनिवेशो गृहीतघनपङ्कपीवर वनवराहमहिषकृष्णच्छविरपसरति पूर्वदिशां प्रच्छादयंस्तिमिरसंघातः ।

( सोभणं भणिदं । भो वअस्स्, पेक्ख । ऐसो खु वहलीकिदविरलवणराइसण्णिवेसो गहीदघणपंकपीवरवणवराहमहिसकिसिणच्छवी ओसरदि पुव्वदिसं पच्छादअंतो तिमिरसंघाओ ।)

राजा — ( सहर्षं समन्ताद् विलोक्य । ) वयस्य , सम्यगुपलक्षितम् । तथहिः

पुरः पूर्वामेव स्थगयति ततोऽन्यामपि दिशं

क्रमात् क्रामन्नद्रिद्रुमपुर विभागांस्तिरयति ।

उपेतः पीनत्वं तदनु च जनस्येक्षणपथं

तमः संघातोऽयं हरति हरकण्ठद्युतिहरः ॥७॥

तदादेशय मार्गम् ।

विदूषकः —— एतु एतु प्रियवयस्यः । ( एदु एदु पिअवअस्सो । ) ( इति परिक्रामतः । ) ( निरूप्य ) भो वयस्य , एतत् खलु समासन्नं बहलपादपतया पिण्डीकृतान्धकारमिव मकरन्दोद्यानम् । तत् कथमत्र मार्गो लक्ष्यते । भो वअस्स , एदं खु समासण्णं बहलपादवदाए पिंडीकदंधआरं विअ मअरंदुज्जणम् ।ता कहं एत्थ मग्गो लक्खीअदि ।

राजा —— ( गन्धमाघ्राय ) वयस्य , गच्छाग्रतः । ननु सुपरिज्ञात एवात्र मार्गः। तथहि ः

पालीयं चम्पकानां नियतमयमसौ सुन्दरः सिन्दुवारः

सान्द्रा वीथी तथेयं बकुलविटपिनां पाटला पङक्तिरेषा ।

आघ्रायाऽप्राय गन्धं विविधमधिगतैः पादपैरेवमस्मिन्

व्यक्ति पन्थाः प्रयाति द्विगुणतरतमोनिहूनुतोऽप्येष चिन्ह्रैः ॥८॥

( इति परिक्रामतः)

विदूषकः —— भोः ; एतत् खलु निपन्मत्तमधुकरबकुलकुसुमामोदवासितदिङमुखं मसृणमरकतमणिशिलाकुट्टिमसुखायमानचरणसंचारसूचितं तमेव माधवीलतामण्डपं संप्राप्तौ स्वः । तदिहैव तिष्ठतु भवान् यावदहं देवीवेषधारिणीं सागरिकां गृहीत्वास लघ्वागच्छामि । भोः ; एदं खु णिपडंतमत्तमहुअरबउलकुसुमामोदेवासिददिसामहं मसिणमरगअमणिसिलाकुट्टिमसुहअंत चरणसंचारसूइदं तं जेव्वं माहवीलदामंडवं संपत्तम्ह । ता इह जेव्व चिट्ठदु भव जावं अहं देवीवेसधारिणी साअरिअं गेण्हिअं लहुं आअच्छामि ।

राजाः —— वयस्य , तेन हि त्वर्यताम् ।

विदूषकः —— वयस्य मा उत्ताम्य । एष अगतोऽस्मि । वअस्स , मा उत्तम । एसो आअदोम्हि ।

राजा —— तावदहमप्यस्यां मरकतशिलावेदिकायामुपविश्य प्रियायाः संकेतसमयं प्रतिपालयामि । ( उपविश्य सचिन्तम् ) अहो कोऽपि कामिजनस्य स्वगृहिणीसम गमपरिभाविनोऽभिनवजनं प्रति पक्षपातः । तथाहि ः

प्रणयविशदां दृष्टिं वक्त्रे ददाति न शङकिता

घटयति घनं कण्ठाश्लेषे रसान् न पयोधरी ।

वदति बहुशो गच्छामीति प्रयत्नधृताऽप्यहो

रमयतितरां संकेतस्था तथाऽपि हि कामिनी ॥९॥

अये कथं चिरयति वसन्तकः तत् किं नु खलु विदितः स्यादयं वृत्तान्तो देव्या वासवदत्ता ।

( ततः प्रविशति वासवदत्ता काञ्चनमाला च ।)

वासवदत्ता —— हञ्जे काञ्चनमाले , सत्यमेव मम वेषधारिणी भृत्वा सागरिकाऽऽर्यपुत्रमभिसरिष्यति । ( हंजे कंचणमाले , सच्चं ज्जेवं मह वेसधारिणी भविअ साअरिआ अज्जउत्तं अहिसरिस्सादि । )

काञ्चनमाला —— कथमन्यथा भट्टिन्यै निवेद्यते । अथवा चित्रशालिकाद्वार उपविष्टी वसन्तक एव ते प्रत्ययमुत्पादयिष्यति । कधं अण्णधां भट्टिणीए णिवेदीअदि । अहवा चित्तसालिआदुवारे उवविट्टो वसंतओ ज्जेव्व दे पच्चअं उप्पादइस्सदि ।

वासवदत्ता —— ततस्तत्रैव गच्छावः । ( तदो तहिं एव्व गच्छम्ह । )

काञ्चनमाला —— एतु एतु भट्टिनी । ( एदु एदु भट्टिणी । )

( इति परिक्रातमः)

( ततः प्रविशति कृतावगुण्ठनो वसन्तक)

विदूषकः —— ( कर्णं दत्वा ) यथा चित्रशालिकाद्वारे पदशब्द श्रूयते तथा तर्कयाम्यागता सागरिकेति । जह चित्तसालिआदुवारे पदसद्दो सुणीअदि तह तक्केमि आअदा साअरिआत्ति ।

काञ्चनमाला —— भट्टिनि , इयं सा चित्रशालिका । तद् यावद् वसन्तकस्य संज्ञां करोमि । भट्टिणि , इयं सा चित्तसालिआ । ता जाव वसंतअस्स सण्णं करेमि ।

( इति छोटिकां ददाति ।)

विदूषकः —— ( सहर्षमुपसृत्य सस्मितम् ) सुसंगते , सदृशः खलु त्वया कृतः काञ्चनमालाया वेषः । अथ सागरिका कुत्रेदानीम् । सुसंगदे , सरिसो खु तुए किदो कंचनमालाए वेसो । अध साअरिआ कहि दाणिं ।

काञ्चनमाला —— ( अङ्गुल्या दर्शयन्ती ) नन्वेषा । णं एसा ।

विदूषकः —— ( दृष्ट्वा सविस्मयम् ) एषा स्फुटमेव वासवदत्ता । एसा फुडं ज्जेव्व वासवदत्ता ।

वासवदत्ता —— ( साशकङमात्मगतम् ) कथं प्रत्यभिज्ञाताऽस्म्यनेन । तद् गमिष्यामि । कहं पच्चभिण्णादम्हि एदेण । ता गमिस्सं । ( इति गन्तु मिच्छति । )

विदूषकः —— भवति सागरिके , इत आगच्छ । भोदि साअरिए , इदो आअच्छ ।

( वासवदत्ता विहस्य काञ्चनमालामवलोकयति)

काञ्चनमाला —— ( अपवार्याङगुल्या विदूषकं तर्जयन्ती ) हताश , स्मरिष्यसीदं वचनम् । हदास , सुमरिस्ससि एदं वअणं ।

विदूषकः —— त्वरतां त्वरतां सागरिका । एष खलु पूर्वादिशात उद्गच्छति भगवान् मृगलाञ्छनः । ( तुवरदु तुवरदु साअरिआ । एसो खु पुव्वदिसादो उग्गच्छिदि भअवं मिअलङ्छणो । )

वासवदत्ता —— ( संसंभ्रममपवार्य ) भगवन् मृगलाञ्छन , नमस्ते । मुहुर्त तावदपावरितशरीरो भव । येन प्रेक्षिष्येऽस्य भावानुबन्धम् । भअव मिअलंछण , णमो दे । मुहुत्तअं दाव ओवारिदसरोरो होहि । जेणे पेक्खामि से भावाणुबंध ।

( सर्वे परिक्रामन्ति)

राजा —— ( सोत्कण्ठमात्मगतम् । ) उपस्थितप्रियासमागमस्यापि किमिदमत्यर्थमुत्ताम्याति मे मनः । अथवा

तीव्रः स्मरसंतापो न तथाऽऽदौ बाधते यथाऽऽसन्ने ।

तपति प्रावृषि नितरामभ्यर्णजलागमो दिवसः ॥१०॥

विदूषकः —— ( आकर्ण्य ) भवति सागरिके , एष खलु प्रियवयस्यसत्वामेवोद्दिश्योत्कण्ठानिर्भरं मन्त्रयते । तत् तिष्ठ त्वम् । निवेदयाम्यस्मै तवाऽगमनम् । ( भोदि साअरिए , एसो खु पिअवअस्सो तुमं ज्जेव्व उद्दिसिअ उक्कंठाणिब्भरं मतेंदि । ता चिट्ठ तुमं । णिवेदेमि से तुहागमणं । )

( वासवदत्ता शिरःसंज्ञा ददाति)

विदूषकः —— ( राजानमुपसृत्य ) भो वयस्य , दिष्ट्या वर्धसे । एषा खलु मयाऽऽनीता सागरिका । ( भो वअस्स , दिट्ठिआ वड्ढसे । एसा खु मए आणीदा साअरिआ । )

राजा —— ( सहर्षं सहसोत्थाय ) वयस्य , क्वासौ क्वासौ ।

विदूषकः —— नन्वेषा । ( णं एसा । )

राजा —— ( उपसृत्य ) प्रिये सागरिके ,

शीतांशुर्मुखमुत्परले तव दृशौ पद्मानुकारौ करौ

रम्भागर्भनिभं तवोरुयुगलं बाहु मृणालोपमौ ।

इत्याह्लादकराखिलाङ्गि , रभसान् निःशड्कमालिङ्य़ मामडङ्गानि त्वमनङ्गतापविधुराण्येह्येहि निर्वापय ॥११॥

वासवदत्ता —— ( अपवार्य ) काञ्चनमाले , एवं स्वयं मन्त्रयत आर्यपुत्रः। पुनरपि मां कथमालापयिष्यतीत्यहो आश्चर्यम् । कंचणमाले , एव्वं सअं मंतेदि अज्जउत्तो । पुणो वि मं कहं आलविस्सदित्ति अहो अच्चरिअं ।

काञ्चनमाला —— ( अपवार्य ) भट्टिनि , एवं न्विदम् । किं पुनः साहसिकानां पुरुषाणां न संभाव्यते । भाट्टिणि , एव्वं णेदं । किं उण साहसिआणं पुरिसाणं ण संभावीअदि ।

विदूषकः —— भवति सागरिके , विश्रब्धा भूत्वा प्रियवयस्यमालापय । अद्यापि तावन् देव्या वासवदत्ताया दुष्टवचनैः कटुकिताः कर्णाः । सुखयतु मुदुमधुरवचनोपन्यासः । ( भोदि साअरिए , वीसद्धा भविअ पिअवअस्सं आलावेहि । अज्जवि दाव णिच्चरुट्टाए देवीए वासवदत्ताए दुट्टवअणेहि कडुइदा कण्णा । सुहावेदु मउमहुरवअणोवण्णोसो । )

वासवदत्ता —— ( अपवार्य सरोषस्मितम् ) हञ्जे काञ्चनमाले , अहमीदृशी कटुकवचना । आर्यवसन्तकः पुनः प्रियंवदः । ( हंजे कंचणमाले , अहंईदिसी कडुअवणा । अज्जवसंताओ उण पिअंवदो । )

काञ्चनमाला —— ( अपवार्याङगुल्या तर्जन्यती ) हताश , स्मरिष्यसीदं वचनम् । ( हदास , सुमरिस्ससि एदं वअणं । )

विदूषकः —— ( विलोक्य ) भो वयस्य , प्रेक्षस्व प्रेक्षस्व । एष खलु कृपितकामिनीकपोलसंनिभः पूर्वदिशं प्रकाशयन्नुदितो भगवान् मृगलाञ्छनः । भो वअस्स , पेक्ख पेक्ख । एसो खु कुविदकामिणीकवोलसण्णिहो पुव्वदिसं पआसअंतो उदिदो भअवं मिअलंछणो ।

राजा —— ( निरूप्य सस्पृहम् ) प्रिये , पश्य पश्य ।

आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः ।

प्रतिकर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥१२॥

ननु प्रिये , किं न दर्शितमनेनोद्गच्छता जडत्वम् । कुतः

किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं

वृद्धिं वा झषकेतनस्य कुरुते नाऽलोकमात्रेण किम् ।

वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जुम्भते

दर्पः स्यादमृतेन चेदिह तवाप्यस्त्येव बिम्बाधरे ॥१३॥

वासवदत्ता —— ( सरोषमवगुण्ठनपटमपीय ) आर्यपुत्र , सत्यमेवाहं सागरिका । त्वं पुनः सागरिकाक्षिप्तहृदयः सर्वमेव सागरिकामयं प्रेक्षसे ।

( अज्जउत्त, सच्चं एव्वं अहं साअरिआ । तुमं उण साअरिआक्खित्तहिअओ सव्वं एव्व साअरिआमअं पेक्खसि ।)

राजा —— ( दृष्ट्वा सवैलक्ष्यम् , अपवार्य ) हा धिक् कष्टम् । कथं देवी वासवदत्ता । वयस्य , किमेतत् ।

विदूषकः —— ( सविषादम् ) भो वयस्य , किमपरम् । अस्माकं जीवितसंशयो जात एषः । ( भो वअस्स , कि अवरं । अम्हाणं जीविदसंसओ जादो एसो । )

राजा —— ( उपविश्य उञ्जलिं बद्ध्वा ) प्रिये वासवदत्ते , प्रसीद प्रसीद ।

वासवदत्ता —— ( तदभिमुखमश्रूणि निपायन्ती ) आर्यपुत्र , मा एवं भण । अतिक्रान्तानीदानीमेतान्यक्षराणि । ( अज्जउत्त , मा एव्वं भण । अदिक्कदाइं दाणि एदाइं अक्खराइं । )

विदूषकः —— ( आत्मगतम् ) किमिदानीमत्र विरचयामि । भवतु । एवं तावत् । ( प्रकाशम् ) भवति , महानुभावा खलु त्वम् । तत् क्षम्यतां तावदेकोऽपराधः प्रियवयस्यस्य । ( किं दाणिं एत्थ विरअइस्सं । भोदु । एव्वं दाव । भोदि , महाणुभावा खु तुमं । ता क्खमीअदु दाव एक्को अवराहो पिअवअस्सस्स । )

वासवदत्ता —— आर्य वसन्तक , ननु प्रथमसंगमे विघ्नं कुर्वन्त्या मयैवैतस्यापराद्धम् । ( अज्ज वसंतअ , णं पढमसंगमे विग्धं करंतीए मए ज्जेव्व एदस्स अवरद्वं । )

राजा —— एवं प्रत्यक्षदृष्टव्यलीकः किं ब्रवीमि । तथापि विज्ञापयामि ।

आताभ्रतामपनयामि विवर्ण एष

लाक्षाकृतां चरणयोस्तव देवि , मूर्घ्ना ।

कोपोपरागजनितां तु मुखेन्दुबिम्बे

हर्तु क्षमो यदि परं करुणां मयि स्यात् ॥१४॥

( इति पादयोः पतति)

वासवदत्ता —— ( हस्तेन वारयन्ती ) आर्यपुत्र , उत्तिष्ठोत्तिष्ठ । निर्लज्जः खल्वेष जनो ये आर्यपुत्रस्येदृशं हृदयं ज्ञात्वा पुनरपि कुप्यति । तत् सुखं तिष्ठत्वार्यपुत्रः । अहं गमिष्यामि । ( अज्जउत्त , उट्ठेहि उट्ठेहि । णिल्लज्जो खु एसो जणो जो अज्जउत्तस्स ईदिस हिअअं जाणिअं पुणोवि कुप्पादि । ता सुहं चिट्ठदु उज्जउत्तो । अहं गमिस्सं । )

( इति गन्तुमिच्छति)

काञ्चनमाला —— भट्टिनि , कुरुष्व अस्मै प्रसादम् । एवं चरणपतितं महाराजमुज्झित्वा गताया देव्याः पश्चात्तापेन भवितव्यम् । भट्टिणि , करेहि से पसादं । एव्वं चरणपडिअं महाराअं उज्झिअं गदाए देवीए पच्चदावेण होदव्वं ।

वासवदत्ता —— अपेह्यपण्डिते , कुतोऽत्र पश्चात्तापस्य कारणम् । तदेहि गच्छावः । अवेहि अपंडिदे , कुदो एत्थ पच्चादावस्स कारणं । ता एहि गच्छम्ह । ( इति निष्क्रान्ते )

राजा —— देवि , प्रसीद प्रसीद । (‘ आताम्रतामपयनयामि ...’ इति पुनः पठति । )

विदूषकः —— भोः ; उत्तिष्ठ , । गता सा वासवदत्ता देवी । तत् कस्माद्त्रारण्यरुदितं करोषि । भोः ; उट्ठेहि । गदा सा वासवदत्ता देवी । ता कीस एत्थ अरण्णरुदिदं करोसि ।

राजा —— ( मुखमुन्नमय्य ) कथमकृत्वैव प्रसादं गता देवी ।

विदूषकः —— न कृतः कथं प्रसादो यदद्याप्यक्षतशरीरास्तिष्ठामः । ण किदो कहं पसादों जं अज्जवि अक्खदसरीरा चिट्ठम्ह ।

राजा —— धिङ् मूर्ख ! किमेवमुपहससि माम् । ननु त्वत्कृत एवायमा पतितोऽस्माकमनर्थक्रमः । यतः

समारूढा प्रीतिः प्रणयबहुमानादनुदिनं

व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।

प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ

प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ॥१५॥

विदूषकः —— भोः ; रुष्टा देवी तावन् न ज्ञायते किं करिष्यति । सागरिका पुनरद्य दुःखजीवना भविष्यतीति तर्कयामि । ( भोः रुट्ठा देवी ण जाणीअदि किं करिस्सदित्ति । साअरिआ उण अज्ज दुक्खजीवना हुविस्सदित्ति तक्केमि । )

राजा —— वयस्य , अहमप्येवं चिन्तयामि । हा प्रिय सागरिके !

( ततः प्रविशति वासवदत्तावेषधारिणी सागरिका)

सागरिका —— ( सोद्वेगम् ) दिष्ट्या अनेन विरचितदेवीवेषेणास्याः संगीतशालाया निष्क्रामन्ती न केनापि लक्षिताऽस्मि । तदिदानी किं करिष्यामि । दिट्ठिआ इमिणा विरइददेवीवेसण इमादो संगीदसालादो णिक्कमंती ण केणवि

लक्खिदम्हि । ता दाणिं एत्थ किं करिस्सं ( इति सास्त्रं चिन्तयति । )

विदूषकः —— भोः ; कि मूढ इव तिष्ठसि । चिन्तयापराधप्रतीकारम् । ( भोः ; किं मढो चिट्ठसि । चिन्तेसि अवराधपडिआरं । )

राजा —— वयस्य , तदेव चिन्तयामि । देवीप्रसादं मुक्त्वा नान्यमुपायं पश्यामि । तदेहि । तत्रैव गच्छावः । ( इति परिक्रामतः )

सागरिका —— ( विमूष्य ) वदमिदानी सवयमेवात्मानमुद्धध्योपरता भविष्यामि । येन न पुनर्ज्ञातसंकेतवृत्तान्तया देव्या परिभूताऽस्मि । तद् यावदहमशोकपादपे गत्वा यथासमीहितं करिष्ये । वरं दाणि सअं जेव्व अत्ताणअं उब्बंधिअ उवरदा भक्स्सिं । जेण ण उण जाणिदसंकेदवुत्तंतए देवीए परिभूदाम्हि । ता जाव अहं असोअपादवे गदुअ जधासमीहिदं करिस्सं । ( इति परिक्रामति )

विदूषकः —— ( आकर्ण्य ) तिष्ठ तावत् तिष्ठ ! ननु पदशब्दः श्रूयते । जानामि कदाऽपि गृहीतपश्चात्तापा पुनरपि देव्यागता भवेत् । चिट्ठ दाव चिट्ठ । णं पदसद्दो सुणीअदि । जाणामि कदावि गहिदपच्चादावा पुणोवि देवी आअदो भवे ।

राजा —— वयस्य , महानुभावा खलु देवी । कदाचिदेवमपि स्यात् । तत् त्वरितं निरूपय ।

विदूषकः —— यद् भवानाज्ञापयति । ( जं भवं आणवेदि । ) इति परिक्रामति

सागरिका —— ( उपसृत्य ) तद् यावदेतया माधवीलतया पाशं विरच्याशोकपादप आत्मानमुद्धध्य व्यापादयामि । ( इति लतापाशं रचयन्ती ) हा तात ! हा अम्ब ! एषेदानीमहमनाथाऽशरणा विपद्ये मन्दभागिनी । ( ता जाव इमाए माहवीलदाए पासं विरइअ असोअपादवे अप्पाणअं उब्बंधिअ वावादेमि । हा ताद ! हा अम्ब । एसा दाणिं अहं अणाधा असरणा विवज्जमि मंदभाइणी । )

( इति कण्ठे लतापाशमर्पयति)

विदूषकः —— ( विलोक्य ) का पुनरेषा । कथं पुनदेवी वासवदत्ता । ( ससंभ्रममुच्चैः ) भो वयस्य , परित्रायस्व परित्रायस्व । एषा खलु देवी वासवदत्ताऽऽमानमुद्धध्य व्यापादयति । का उण एसा । कहं उण देवी वासवदत्ता । भो वअस्स परित्ताहि परित्ताहि । एसा खु देवी वासवदत्ता अप्पाणअं उब्बबिअं वावदेति ।

राजा —— ( कण्ठात् पाशमपयन् ) अयि साहसकारिणि , किमिदमकार्य क्रियते ।

मम कण्ठगताः प्राणाः पाशे कण्ठस्थिते तव ।

अतः स्वार्थप्रयत्नोऽयं त्यज्यतां साहसं प्रिये ॥१६॥

सागरिका — ( राजानं दृष्ट्वा ) अयि , कथमेषं भर्ता । ( सहर्षमात्मगतम् ) यत् सत्यमेनं प्रेक्ष्य पुनरपि मे जीविताभिलाषः संवृत्तः । अथवा एनं प्रेक्ष्य कृतार्था भूत्वा सुखं जीवितं परित्यक्ष्यामि । ( प्रकाशम् ) मुञ्चतु भर्ता । पराधीनः खल्वर्य जनः । न पुनरीदृशमवसरं मर्तुं प्राप्यते । ( अयि , कधं एसो भट्टा । जं सच्चं एणं पेक्खिअ पुणोवि मे जीविदाहिलासो संवुत्तो । अहवा एणं पेक्खिअ कदत्था भविअ सुहं जीविदं परिच्चइस्सं । मुंचदु भट्टा । पराहीणो खु अअं जणो ण उण ईदिसं अवसरं मरिदुं पावेदि । ( इति पुनः कण्ठे पाशं दातुमिच्छति । )

राजा —— ( निरूप्य , सहर्षम् ) कथं प्रिया मे सागरिका । ( इति कण्ठात् पाशमाक्षिप्य )

अलमलमतिमात्रं साहसेनामुना ते

त्वरितमयि विमुञ्च त्वं लतापाशमेनम् ।

चलितमपि निरोद्धुं जीवितं जीवितेशे

क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥१७॥

( इति कण्ठे गृहीत्वा स्पर्शसुखमभिनीय विदूषकं प्रति सखे, इयमनभ्रा वृष्टिः ।)

विदूषकः —— भोः ; एवं न्विदम् । यद्यकालवातावली भूत्वा नाऽयाति देवी वासवदत्ता । भो , एव्वं णेदं । जई अआलवादावली भविअ ण आआदि देवी वासवदत्ता ।

( ततः प्रविशति वासवदत्ता कञ्चनमाला च)

वासवदत्ता —— : हञ्जे काञ्चनमाले , तं तथा चरणनिपतितमार्यपुत्रमवधीर्याऽगच्छन्त्या मयाऽतितिनिष्ठुरं कृतम् । तादिदानीं स्वयमेव गत्वाऽऽर्यपुत्रमनुनेष्यामि । ( हंजे कंचणमाले , तं तहा चरणणिवडिदं अज्जउतं अवधीरिअ आअच्छंतीए मए अदणिट्ठुरं किदं । ता दाणिं सअं ज्जेव्व गदुअ अज्जउत्तं अणुणइस्सं । )

काञ्चनमाला —— काऽन्या देवीं वर्जयित्वैव भणितुं जानाति । वरं सः एव देवो दुर्जनो भवतु न पुनर्देवी । तदेत्वेतु देवी । का अण्णा देवी वज्जिअ एव्वं भणिदुं जाणादि । वरं सो एव्व देवो दुज्जणो होदु ण उण देवी । ता एदु देवी ।

( इति परिक्रामतः)

राजा —— अयि मुग्धे , किमद्यापि मध्यस्थतया वयं विफलमनोरथाः क्रियामहे ।

काञ्चनमाला —— ( गर्णं दत्त्वा ) भट्टिनि , यथा यमीपे एष भर्ता मन्त्रयते तथा तर्कयामि त्वामेवानुनेतुमागच्छति । तदुपसर्पतु भट्टिनी । ( भट्टिणि , जह समीवे एसो भट्टा मंतेदि तह तक्वेमि तुमं ज्जेव्व अणुणेदुं आअच्छदि । ता उवसप्पदु भट्टिणी । )

वासवदत्ता —— ( सहर्षम् ) तदलक्षितैव पृष्ठतो गत्वा कण्ठे गृहीत्वा प्रसादयिष्ये । ( ता अलक्खिदा एव्व पुटठदो गदुअ कंठे गेण्हिअ पसादइस्सं । )

विदूषकः —— भवति सागरिके , विश्वस्ता भूत्वा प्रियवयस्यामालापय । ( भोदि साअरिए , वीसत्था भविअ पिअवअस्सं आलवेहि । )

वासवदत्ता —— ( आकर्ण्य सविषादम् ) काञ्चनमाले , सागरिकाऽप्यत्र तिष्ठति । तच्छुणुवः । ज्ञात्वा पश्चादुपसर्पिष्यामि । ( कांचणमाले , साअरिआ वि एत्थ चिटठ्दि । ता सुणम्ह । जाणिअ पच्छा उवसप्पिस्सं । ) इति तथा करोति

सागरिका —— भर्तः , किमेतेनालीकदाक्षिण्येन । जीवितादप्याधिकवल्लभाया देव्याः पुनरप्यात्मानमपराधिनं करोषि । ( भट्टा , किं एदिणा लीअअअदाक्खिण्णेण । जीविदादोवि अधिअवल्लहाए देवीए पुणोवि अत्ताणअं अवराहिणं कि करोसि । )

राजा —— अयि , मिथ्यावादिनी खल्वसि । कुतः

श्वासोत्क्मिपनि कम्पितं कुचयुगे मौने प्रियं भाषितं वक्त्रेऽस्याः

कुटिलीकृतंभ्रुणि तथा यातं मया पादयोः ।

इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः परं

प्रेमाबन्धविवर्धिताधिकरसा प्रीतिस्तु या सा त्वयि ॥१८॥

वासवदत्ता —— ( उपसृत्य सरोषम् ) आर्यपुत्र , युक्तमेतत् । सदृशमेतत् । ( अज्जउत्त , जुत्तं । सरिसं एदं )

राजा —— ( दृष्ट्वा सवैलक्ष्यम् ) देवि , न खल्वकारणे मामुपालब्धुमर्हसि । त्वामेव मत्वा वेषासादृश्याद वयमिहागताः । तत् क्षम्यताम् । ( इति पादयोः पतति )

वासवदत्ता —— ( सरोषम् ) आर्यपुत्र उत्तिष्ठोत्तिष्ठ । किमद्याप्याभिजात्यया सेवया दुःखमनुभाव्यते । ( अज्जउत्त , उठ्ठेहि उठ्ठेहि । किं अज्जवि आभिजादीए सेवाए दुक्खं अणुभवीअदि । )

राजा —— ( स्वगतम् ) किमेतदपि श्रुतं देव्या । तत् सर्वथा देवीप्रसादनोपायं प्रति निराशीभूताः स्मः । ( इत्यधोमुखस्तिष्ठति )

विदूषकः —— भवति , त्वं किलाऽत्मानमुद्बध्य विपद्यस इति वेषसादृश्यमोहितेन मया प्रियवयस्योऽत्राऽनीतः । यदि मम वचनं न प्रत्याययसि तत् प्रेक्षस्वेमं लतापाशम् ।

भोदि , तुमं किल अत्ताणअं उब्बंधिअ वावादेसित्ति वेससारिस्समोहिदेण मए पिअवअस्सो एत्थ आणीदो । जई मम वअणं ण पत्तिआअसि ता पेक्ख इमं लदापासं ।

( इति लतापाशं दर्शयति)

वासवदत्ता —— ( सकोपम् ) हञ्जे काञ्चनमाले , एतेनैव लतापाशेन बद्ध्वा गृहाणैनं ब्राह्मणम् । एतां च दृष्टकन्यकामग्रतः कुरु । हंजे कंचणमाले , एदेण एव्व लदापासेण

बंधिअ गेण्ह एणं बम्हणं । एदं अ दुट्ठकण्णआं अग्गदो करेहि ।

काञ्चनमाला —— यद् भट्टिन्याज्ञापयति । ( लतापाशेन वसन्तकं गले बद्ध्वा ताडयति ) हताश , अनुभव तावदात्मनोऽविनयस्य फलम् । देव्या दृष्टवचनैः कटुकितौ

कर्णाविति स्मर तद् वचनम् । सागरिके , त्वमप्यग्रतो भव । जं भट्टिणी आण्णवेदि । हदास , अणुभव दाव अत्तणो अविणअस्स फलं । देवीए दुठ्ठवअणेहिं कडुइदाकण्णा त्ति वअणं । साअरिए , तुमं पि अग्गदो होहि ।

सागरिका —— ( स्वागतम् ) अकृतपुण्यया मया मर्तुमप्यात्मन इच्छया न परितम् । () अकिदपुण्णाए मए मरिदुं वि अत्तणो इच्छाए ण पारिदं ।

विदूषकः —— ( सविषादम् ) भो वयस्य , स्मर मामनाथं देव्या बन्धनाद् विवर्जितुम् । भो वअस्स , सुमरेहि मं अणाधं देवीए बन्धनादो विवज्जिदुं ।

इति राजानामालोकयति

( वासवदत्ता राजानमालोकयन्तीं सागरिकां वसन्तक च गृहीत्वा काञ्चनमाला सह निष्क्रान्ता)

राजा —— ( सखेदम् ) कष्टं , भोः कष्टम् ।

किं देव्याः कृतदीर्घरोषमुषितस्निग्धस्मितं तन् मुखं

त्रस्तां सागरिकां सुसंभूतरुषा संतर्ज्यमानां तथा ।

बद्ध्वा नीत मितो वसन्तकमहं किं चिन्तयामीत्यहो

सर्वाकारकृतव्यथः क्षणमपि प्राप्नोमि नो निर्वुतिम् ॥१९॥

तत् किमिदानीमिह स्थितेन प्रयोजनम् । देवीमेव प्रसादियुमभ्यन्तरं प्रविशामि । ( इति निष्क्रान्ताः सर्वे )

इति संकेतो नाम तृतीयोऽङ्कः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP