पादाग्रस्थितया मुहुः स्तनभरेणाऽनीतया नम्रतां
शम्भोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने ।
ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया
विश्लिष्यन् कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥१॥
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताऽऽभिमुख्य पुनः ।
दृष्ट्वाऽग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण श्लिष्टा शिवायास्तु वः ॥२॥
क्रोधेद्वैर्दृष्टिपातैस्त्रिभिरुपशमिता वह्नयोऽमी त्रयोऽपि
त्रासातां ऋत्विजोऽधश्चपलगणहृतोश्णीषपट्टाः पतन्ति ।
दक्षः स्तौत्यस्य पत्नी विलपति करुणं विद्रुतं चापि देवैः
शंसन्नित्याहत्तहासो मखमथनविधौ पातु देव्यै शिवो वः ॥३॥
जितमुडुपतिना नमः सुरेभ्यो द्विजवृषभा भवन्तु ।
भक्तु च पृथिवी समृद्धसस्या प्रतपतु चन्द्रवपुर्नरेन्द्रचन्द्र ॥४॥
सूत्रधारः —— अलमतिविस्तरेण । अद्याहं वसन्तोत्सवे सबहुमानमाहूय
नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः।
यथा ——‘अस्म्त्सवामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालंकृता रत्नावली नाम नाटिका कृता । सा चास्माभिः श्रोत्रपरंपरया श्रृता । न तु प्रयोगतो दृष्टा । तत् तस्यैव राज्ञः सकलजनहृदयाह्नादिनो बहुमानादस्मासु चानुग्रहबुद्ध्य़ा यथावत्प्रयोगेण त्वया नाटयितव्या इति । तद् यावदिदानीं नेपथ्यरचनां कृत्वा यथाभिलषितं संपादयामि । अये , आवर्जितानि च मया सकलसामाजिकानां मनांसीति मे निश्चयः । यतः
श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपही वाञ्छितफलप्राप्तेः पदं किं पुनर् -
मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥५॥
तद यावद गृहं गत्वा गृहिणीमाहूय संगीतकमनुतिष्ठामि । ( परिक्रम्य नेपथ्याभिमुखमवलोक्य च ) इदमस्मदीयं गृहम । यावत प्रविशामि । ( प्रविश्य ) ३ आर्ये , इतस्तावत ।
( प्रविश्य )
नटी -आर्यपुत्र , इयमस्मि । आज्ञापयत्वार्यः को नियोगोऽनुष्ठीयता मिति । [ अज्जउत्त , इअम्मि । आणवेदु अज्जो को णिओओ अणुचिट्ठीअदुत्ति । ]
सूत्रधारः -आर्ये , रत्नावलीदर्शनसमुत्सुकोऽयं राजलोकं । तद गृह्यतां नेपथ्यम ।
नटी -( सोद्वेगम ) आर्यपुत्र , निश्चिन्त इदानीमसि त्वम । तत किमित न नृत्यसि । मम मन्दभाग्यायाः पुनरेकैव दुहिता । साऽपि त्वया कस्मिश्चिंद्देशान्तरे दत्ता । कथमेवं दूरदेशस्थितेन जामात्रा सहास्याः पाणिग्रहणं भविष्यतीत्यनया चिन्तयाऽऽत्मापि न मे प्रतिभाति । किं पुनर्नर्तितव्यम । [ अज्जउत्त , णिच्चिन्तो दाणिं सिं तुमम । ता कीस ण णच्चसि । मह मन्दभाआए उण एक्का ज्जेव्व दुहिदा । सा वि तुए कहिंचि देसन्तरे दिण्णा । कहं एव्वं दूरदेसठ्ठिदेण जामतुणा सह से पाणिग्गहणं भविस्सदि त्ति इमाए चिन्ताए अप्पा वि ण मे पढिअदि । किं उण णच्चिदव्वम । ]
सूत्रधारः -आर्ये , दूरस्थेनेत्यलमुद्वेगेन । पश्य
द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात ।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥६॥
( नेपथ्ये ) साधू । भरतपुत्र , साधु । एवमेतत् । कः संदेहः । (‘ द्विपात् -’ ( १।६ ) इत्यादि पठति । )
सूत्रधारः —— (आकर्ण्य सहर्षम । ) आर्ये , नन्वयं मम यावीयान ! भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव । तदेहि आवामपि नेपथ्यग्रहणाय सज्जीभवावः । (इति निष्क्रान्तौ )
इति प्रस्तावना
( ततः प्रविशति यथानिर्दिष्टो यौगन्धरायणः )
यौगन्धरायणः —— एवमेतत् । कः संदेहः । (‘द्विपास् -’ (१।६ ) इति पुनः पठित्वा ) अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वदुहितुः समुद्रे प्रहवणभङ्गनिमग्नायाः फलकासादनम् ।
क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यगाच्छता तदवस्थायाः संभावनम् । रत्नमालाचिन्हायाः प्रत्यभिज्ञानादिहानयनं च ।
( सहर्षम ) सर्वथा स्पृशन्ति नः स्वामिनमभ्युदयाः ।
( विचिन्त्य ) मयाऽपि चैनां देवीहस्ते सगौरवं निक्षिपता युक्तमेवानुष्ठितम् ।
श्रुतं च मया बाभ्रव्योऽपि कञ्चुकी सिंहलेश्वरामात्येन वसुभूतिना सह कथं कथमपि समुद्रादुत्तीयं कोसलोचिछत्तये गतवता रुमण्वता मिलित इति ।
तदेवं निष्पन्नप्राय मपि प्रभुप्रयोजनं मे धृतिमावहतीति कष्टोऽयं खलु भूत्यभावः । कृतः ।
प्रारम्भेऽस्मिन् स्वामिनो बुद्धिहेती दैवेनेत्यं दत्तहस्तावलम्बे ।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तुः ॥७॥
( नेपथ्य कलकलः )
यौगन्धरायणः —— (आकर्ण्य ) अये , यथाऽयमभिहन्यमानमृदुमृदङ्गानगतसंगीतमणुरः पुरः पौराणां समुच्चरति चर्चरीध्वनिः तथा तर्कयामि मदनमहमहीयांस पुरजनप्रमोदमवलोकयितुं प्रासादाभिमुखं प्रस्थितो देव इति । य एष ——
विश्रान्तविग्रहकथो रतिमाञ् जनस्य
चित्ते वसन् प्रियवसन्तक एव साक्षात् ।
पर्युत्सुको निजमहोत्सवदर्शनाय
वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥८॥
( ऊर्ध्वमवलोक्य ) अये , कथमधिरूढ एव देवः प्रासादम् । तद्यावद् गृहं गत्वा कार्यशेषं चिन्तयामि । ( इति निष्क्रान्तः )
( ततः प्रविशत्यासनस्थो गृहीतवसन्तोत्सववेषो राजा विदूषकश्च )
राजा —— (सहर्षमवलोक्य ) सखे वसन्तक ।
विदूषकः —— आज्ञापयतु भवान् । (आणवेदु भवं । )
राजा निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः
सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः ।
प्रद्योतस्य सुता वसन्तसमयस्त्वं चेति नाम्ना धृतिं
कामः काममुपैत्वयं मम पुनर्मन्ये महानुत्सवः ॥९॥
विदूषक —— (सहर्षम् ) भो वयस्य , एवं न्व्दिम् । अहं पुनर्जानामि न भवतो न कामदेवस्य ममैवैकस्य ब्राह्मणबटुकस्यायं मदनमहोत्सवो येन प्रियवयस्नैवं मन्त्र्यते । (विलोक्य ) तत् किं पुनरनेन । प्रेक्षस्व तावदेतस्य मधुमत्तकामिनीजनस्वयंग्राहगृहीतशृङ्गकजलप्रहारनृत्यन्नागरजनजनितकौतूहलस्य समन्ततः सृवृत्तमर्दलोद्दामचर्चरीशब्दमुखरथ्यामुखशोभिनः प्रकीर्णपटवासपुञ्जपिञ्जरीकृतदिशामुखस्य श्रियं मदनमहोत्सवस्य । (भो वअस्स , एव्वं णेदं । अहं उण जाणामि ण भवदो ण कामदेवस्स मम ज्जेव्व एकस्स ब्राह्मणबडुअस्स अअं मअणमहूस्सवो जेण पिअवअस्सेण एव्वं मान्तीअदि । ता किं उण इमिणा । पेक्ख दाव इमस्स महुमत्तकामिणीजणसअंगाहगहिदसिंगकजलप्पहारणच्चंतणाअरजणजणिदकोदूहलस्स समंतदो सुव्वत्तमद्दजलुद्दामचच्चरीसद्दमुहररत्थामुहसोहिणो
पईण्णपडवासपुंजपिंजरिज्जंददसिसामुहस्ससिरिअं मअणमहूस्सवस्स । )
राजा —— (सहर्षं समन्तादवलोक्य । ) अहो , परां कोटिमधिरोहति प्रमोदः पौराणाम् । तथा हि ।
कीर्णैः पिष्टातकौघेः कृतदिवसमुखैः कुङकुमक्षोदगौरं -
र्हेमालंकारभाभिर्भरनमितशिरःशैखरैः कैङ्किरातैः ।
एषा वेषाभिललक्ष्यस्वविभवविजिताशेषवित्तेशकोशा
कौशाम्बो शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥१०॥
अपि च ।
धारायन्त्रविमुक्तसंततपयः पूरस्नुते सर्वतः
सद्यः सान्द्रविमर्दकर्दमकृतक्रीडे क्षणं प्राङ्गणे ।
उद्दामप्रमदाकपोलनिपत्सिन्दूररागारुणैः
सैन्दूरीक्रियते जनेन चरणन्यासैः पुरः कुट्टिमम् ॥११॥
विदूषकः —— (विलोक्य ) एतदपि सुविदग्धजनजलभरितशृङ्गकजलप्रहारमुक्तसीत्कारमनोहर वारविलासिनीजनविलसितमालोकयतु प्रियवयस्यः ।
( एवं पि सुविअद्धजणजलभरिदसिंगकजलप्पहारमुक्कसिक्कारमणोहरं वारविलासिणीजणविलासिदं आलोएदु पिअवअस्सो । )
राजा —— (विलोक्य । ) वयस्य , सम्यग्दृष्टं भवता । कुतः
अस्मिन् प्रीर्णपटवासकृतान्धकारे
दृष्टो मनाङ मणिविभूषणरश्मिजालैः ।
पातालमुद्यतफणाकृतिशृङ्गकोऽयं
मामद्य संस्मरयतीव भुजंगलोकः ॥१२॥
विदूषकः —— (विलोक्य ) भो वयस्य , पेक्षस्व प्रेक्षस्व । एषा खलु मदनिका मदनवशविसंष्ठुलं वसन्ताभिनयं नृत्यन्ती चूतलतिकया सहेतएवाऽगच्छतीत्यवलोकयतु प्रियवयस्यः । (भो वअस्स , पेक्ख पेक्ख । एसा खु मअणिआ ) ३
मअणवसविसंठुलं वसंताभिणअं णच्चंती चूदलदिआए सह इदो जेव्व आअच्छदि त्ति अवलोएददु पिअवअस्सो । )
( ततः प्रविशतो मदनलीलां नाट्यन्त्यौ द्विपदीखण्डं गायन्त्यौ चेट्य़ौ ) ६
मदनिका —— (गायति )
कुसुमायुधप्रियदूतको मुकुलीकृतबहुचूतकः ।
शिथिलितमानग्रहणको वाति दक्षिणपवनकः
( कुसुमाउहपिअदूअओ मउलीकिदबहुचूदओ ।
सिढिलिअमाणग्गहणओ वाअदि दहिणपवणओ ॥१३॥
विकसितबकुलाशोकक उत्कण्ठितप्रियमेलकः ।
प्रतिपालनासमर्थकस्ताम्यति युवतिसार्थकः
( विअसिअबउलासोअओ उक्कंठिअपिअमेलओ ।
पडिवालणअसमत्थओ तम्मई जुवईसत्थओ ॥१४॥ )
अथवा
इह प्रथमं मधुमासो जनस्य हृदयानि करोति मृदुलानि ।
पश्चाद् विध्यति कामो लब्धप्रसरैः कुसुमबाणैः
( इह पढमं महुमासो जणस्स हिअआइं कुणइ मिउलाइं ।
पञ्छा विद्धइ कामो लद्धप्पसरेहिं कुसुमबाणेहिं ॥१५॥
राजा —— (निर्णर्ण्य ) अहो , मधुरोऽयमासां निर्भरः क्रीडारसः । तथा हि
स्त्रस्तः स्त्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः
क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ ।
व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्या पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥१६॥
विदूषकः —— भो वयस्य , अहमप्येतयोर्मध्ये नृत्यन् मदनमहोत्सवं मानयिष्यामि । भो वअस्स , अ हंवि एदाणं मज्झे णच्चंतो मअणमहूस्सवं माणइस्सं ॥
राजा —— (सस्मितम् ) वयस्य , एवं क्रियाताम् ।
विदूषकः —— यद्भवानाज्ञापयति । (उत्थाय चेट्योर्मध्ये नृत्यति । ) भवति मदनिके , भवति चूतलतिके , मामप्येतच्चर्चरिकं शिक्षापयथ । (जं भवं आणवेदि । भोदि मअणिए , भोदि चूदलदिए , मंपिएदं चच्चरिअंसिक्खावेध । )
उभे —— हताश , न खलु एषा चर्चरी । द्विपदीखण्डं खलु एतत् । (हदास , ण हु एसा चच्चरी , द्विपदीखण्डं खु एदं । )
विदूषकः —— (सहर्षम् ) किमेतेन खण्डेन मोदकाः क्रियन्ते । (किं एदिणा खंडेण मोअआ करिअन्ति । )
मदनिका —— (विहस्य ) नहि नहि । पठ्यते खल्वेतत् (णहि णहि । पट्टीअदि खु एदं । )
विदूषकः —— (सविषादम् ) यदि पठ्यते तदलमेतेन । वरं प्रियवयस्यस्यैव साकाशं गमिष्यामि (जइ पट्टीअदि ता अल एदिणा । वरं पिअवअस्सस्स जेव्व सआसं गमिस्सम् । )
उभे —— (हस्ते गृहीत्वा ) एहि क्रीडामः । वसन्तक , कुत्र गच्छसि । (एहि कीलिम्ह । वसंतअ , कहिं गच्छसि । ) (इति बहुविधं वसन्तकमाकर्षतः । विदूषकश्च बलाद् गच्छति । )
विदूषकः —— (राजानमुपसृत्य ) वयस्य , नर्तितोऽस्मि । नहि नहि क्रीडित्वा पलायितोऽस्मि । (वअस्स , णच्चिदोम्हि । णहि णहि , कीलिअ पलाइदोम्हि । )
राजा —— साधु कृतम् ।
चूतलतिका —— हञ्जे मदनिके , चिरं खल्वावाभ्यां क्रीडितम् । तदेहि निवेदयावस्तावद् भट्टिन्याः संदेश महाराजस्य । (हज्जे मअणिए , चिरं खु अम्हेहिं कललिदम् । ता एहि उणिवेदेम्ह दाव भट्टिवीए संदेसं महाराअस्स । )
मदनिका —— एहि त्वरावः । (एहि , त्वरम्ह । )
उभे —— (उपसृत्य ) जयतु जयतु भर्ता । भर्तः , देवी आज्ञापयति । (इत्यर्धोत्के लज्जा नाट्यन्त्यौ ) नहि नहि , विज्ञापयति । (जेदु जेदु भट्टा । भट्टा , देवी आणवेदि । णहि णहि , विण्णवेदि । )
राजा —— (सहर्ष विहस्य सादरम् ) नन्वाज्ञापयतीत्येव रमणीयम् । विशेषतोऽद्य मदनमहोत्सवे । तत् कथय किमाज्ञापयति देवी ।
विदूषक —— आ —— दास्याः पुत्रि । किं देवी आज्ञापयति । (आः दासीय धीए । किं देवी आणवेदि । )
चेट्यौ —— एवं देवी विज्ञापयति । अद्य खलु मया मकरन्दोद्यानं गत्वा रक्ताशोकपादपतलसंस्थापितस्य भगवतः कुसुमायुधस्य पूजा निर्वर्तयितव्या । तत्र आर्यपुत्रेण संनिहितेन भवितव्यम् । (एव्वं देवी विष्णवेदि । अज्ज खु मए मअरंदुज्जाणं गदुअ रत्तासोअपाअवतलसंट्ठाविदस्स भअवदो कुसुमाउहस्स पूआ णिव्वत्तइदव्वा । तहिं उज्जउत्तेण संणिहिदेण होदव्वम् । )
राजा —— (सानन्दम् । ) वयस्य , ननु वक्तव्यमुत्सवादुत्सवान्तरमापतितम् ।
विदूषकः —— भो वयस्य , तदुतिष्ठ तत्रैव गच्छावः । येन तत्र गतस्य ब्राह्मणबालकस्य मम स्वस्तिवायनं किमपि भविष्यतीति । (भो वअस्स , ता उट्ठेहि तहि ज्जेव्व गच्छम्ह । जेण तहिं गदस्स बम्हणबालअस्स मे सोत्थिवाअणं किंपि
भविस्सदिदि । )
राजा —— मदनिके , गम्यतां दैव्यै निवेदयितुम् अयमहमागत एव मकरन्दोद्यानमिति ।
चेट्यौ —— यद् भर्ताऽऽज्ञापयति । (जं भट्टा आणवेदि । ) (इति निष्क्रान्ते )
राजा —— वयस्य , आदेशय मकरन्दोद्यानस्य मार्गम् ।
विदूषकः —— एतु एतु भर्ता । (एदु एदु भट्टा ) (इति परिक्रामतः )
विदूषकः —— (अग्रतोऽवलोक्य ) एतत्तन्मकरन्दोद्यानं तदेहि प्रविशावः ।
( एदं मअरंदुज्जाण ता एहि पविसम्ह । ) ( इति प्रविशतः )
विदूषकः —— (अवलोक्य सविस्मयम् ) भो वयस्य , प्रेक्षस्व प्रेक्षस्व । तावदेतत् खलु मलयमारुतान्दोलितमुकुलायमानसहकारमञ्जरीरेणुपटलप्रतिबद्धपटवितानं मत्तमधुकरमुक्तझङ्कारमिलितकोकिलालापसंगीतसुखावहं तवागमनदर्शितादरमिव मकरन्दोद्यानं लक्ष्यते । तत्पश्यतु भवान् ।
( भो वअस्स , पेक्ख पेक्ख । दाव एदं खु मलअमारुदान्दोलिदमउलन्तसहआरमञ्जरीरेणुपडलपडिबद्धपडविआणं मत्तमहुअरमुक्कझंकारमिलिदकोइलालावसंगीदसुहावहं तुहागमणदंसिआअरं विअ मअरंदुज्जाणं लक्खी - अदि । ता पेक्खदु भवं । ) ५७ .
राजा —— (समन्तादवलोक्य ) अहो मकरन्दोद्यानस्य रम्यता । इह हि
उद्यद्विद्रुमकान्तिभिः किसलयैस्ताम्रां त्विषं बिभ्रतो
भृङ्गालीविरुतैः कलैरविशदव्याहारलीलाभृतः ।
धूर्णन्तो मलयानिलाहतिचलैः शाखासम्हैर्मुहुर् -
भ्रान्तिं प्राप्य मधुप्रसङ्गमधुना मत्ता इवामी द्रुमाः ॥१७॥
अपि च
मूले गणडूषसेकासव इव बकुलैर्वास्यते पुष्पवृष्ट्या
मध्वाताम्रे तरुण्या मुखशशिनि चिराच् चम्पकान्यद्य भान्ति ।
आकर्ण्याशोकपादाहतिषु च रसितं निर्भरं नूपुराणां
झङकारस्यानुगीतैरनुकरणमिवाऽरभ्यते भृङ्गसार्थैः ॥१८॥
विदूषकः —— (श्रुत्वा ) भो वयस्य , नैते मधुकरा नूपुरशब्दमनुहरन्तः ।
नूपुरशब्द एवैष देव्याः परिजनस्य । (भो वअस्स , ण एदे मअहुअरा णेउरसद्दं अणु -३ हरंदो । णेउरसद्दो जेव्व एसो देवीए परिअणस्स । )
राजा —— वयस्य , सम्यगुपलक्षितं भवता ।
( ततः प्रविशति उज्ज्वलवेषा वासवदत्ता , काञ्चनमाला , पूजोपकरणहस्ता सागरिका , विभवतश्च परिवारः । )
वासवदत्ता —— हञ्जे काञ्चनमाले , आदेशय मकरन्दोद्यानस्य मार्गम् । (हञ्जे कंचणमाले , आदेसेहि मअरंदुज्जाणस्स मग्गम् । )
काञ्चनमाला —— एतु एतु भट्टिनी । (एदु एदु भट्टिणी । )
वासवदत्ता —— (परिक्रम्य ) हञ्जे काञ्चनमाले , अथ कियद्दूरे स रक्ताशोकपादपो यत्र मया भगवता कुसुमायुधस्य पूजा निर्वर्तायितव्या । (हञ्जेकंचणमाले , अध केतित्तअदूरे सो रत्तासोअपाअवो जहिं मए भअवदो कुसुमाउहस्स पूआ
णिव्वत्तइदव्वा । )
काञ्चनमाला —— भट्टिनी , आसन्न एव । किं न प्रेक्षते भट्टिनी । एयं खलु सा निरन्तरोद्भिन्नकुसुमशोभिनी भट्टिन्या परिगृहीता माधवीलता । एषाऽपरा नवमालिकालता यस्या अकालकुसुमसमुद्गमश्रद्धालुना भर्त्राऽनुदिनमायास्त आत्मा । तदेनामतिक्रम्य दृश्यत एव स रक्ताशोकपादपो यत्र देवी पूजां निर्वर्तयिष्यति ।
( भट्टिणि , आसण्णो ज्जेव्व । किं ण पेक्खदि भट्टिणी । इयं क्खु सा निरन्तरुब्भिण्ण कुसुमसोहिणी भट्टिणीए पडिग्गहीदा माहवीलदा । एस्सा ) अवरा णोमालिआदा जाए अआलकुसुमसम्मुग्गमसद्धालुणा भट्टिणा , अणुदिणं आआसीअदि
अप्पा । ता एदं अदिक्कमिअं दीसदि ज्जेव सो रत्तासो अपाअवो जहिं देवी पूआं णिव्वट्टइस्सदि । )
वासवदत्ता —— तदेहि तत्रैव लघु गच्छामः । (ता एहि तहि ज्जेव्वलहुं गच्छम्ह । )
काञ्चनमाला —— एतु एतु भट्टिनी । (एदु एदु भट्टिणी ) (सर्वाः परिक्रामन्ति । )
वासवदत्ता —— अयं स रक्ताशोकपादपो यत्राहं पूजां निर्वर्तयिष्ये तत्पूजानिमित्तान्युपकरणानि मे उपनय । (अअं सो रत्तासोअपाअवो जहिं अह पूआं णिव्वत्तइस्सं । ता पूआणिमित्ताइं उवअरणाइं मे उवणेहि । )
सागरिका —— (उपसृत्य ) भट्टिनी , एतत् सर्व सज्जम् । (भट्टिणी , एदं सव्वं सज्जम् । )
वासवदत्ता —— (निरूप्य आत्मगतम् ) अहो प्रमादः परिजनस्य यस्सैव दर्शनपथात् प्रयत्नेन रक्ष्यते तस्यैव दृष्टिगोचरे पतिता भवेत् । भवतु । एवं तावदं भणिष्यामि
( प्रकाशम् ) हञ्जे सागरिके , कस्मात् त्वमद्य मदनमहोत्सवपराधीने परिजने सारिकामुज्झित्वेहाऽगता । तत् तत्रैव लघु गच्छ । एतदिप सर्व पूजोपकरणं काञ्चनमालाया हस्ते समर्पय । ( अहो पमादो परिअणस्स । जस्स ज्जेव दंसणपघादो पअत्तेण रक्खीअदि तस्स ज्जेव दिट्ठिगोअरे पडिदा भवे । भोदु । एवं दाव भणिस्सं । हञ्जे साअरिए , कीस तुमं अज्ज मअणमहूस्सवपराहीणे परिअणे सारिअं उज्झिअ इहागदा । ता तहिं ज्जेव्व लहु गच्छ । एदं वि सव्वं पूओवअरणं कंचणमालाए हत्थे समप्पेहि । )
सागरिका —— यद्भट्टिन्याज्ञापयति (इति कतिचित् पदानि गत्वा आत्मगतम् । ) सारिका मया पुनः सुसङ्गताया हस्ते समर्पिता । एतदप्यस्ति मे प्रेक्षितुं कौतूहलम् । किं यथा तातस्यान्तःपुरे भगवाननङ्गोऽर्च्यते । अत्रापि तथैव किमन्यथेति । तदलक्षिता भूत्वा प्रक्षिष्ये । (परिक्रम्यावलोक्य च । ) तद्यावदिह पूजासमयो भवति तावदहमपि भगवन्तमनङ्गमेव पूजयितुं कुसुमान्यवचेष्यामि । (इति कुसुमावचयं नाट्यति । ) (जं भट्टिणी आणवेदि । सारिआ मए उण सुसंगदाए हत्थे समप्पिंदा । एदं वि अत्थि मे पेक्खिदुं कोदूहलं । किं जहा तादस्स अन्तेउरे भअवं अणंगो अच्चिअदि । इह वि तह ज्जेव्व किं अण्णहेति । ता अलक्खिआ भविअ पेक्खिस्सम् । ता जाव इह पूआसमओ होदि ताव अहं पि भअवन्तं अणंगं ज्जेव्व पूअइदुं कुसुमाइं अवचिणिस्सं । )
वासवदत्ता —— काञ्चनमाले , प्रतिष्ठापयाशोकमूले भगवन्तं प्रद्युम्नम् । (कंचणमाले , पडिठ्ठावेहि असोअमूले भअवंतं पज्जुण्णम् । )
काञ्चनमाला —— यद्भट्टिन्याज्ञापयति । (इति तथा करोति ) (जं भट्टिणी आणवेदि )
विदूषकः —— भो वयस्य , यथा विश्रान्तो नूपुरशब्दस्तथा तर्कयाम्यागता देव्यशोकमूलमिति । (भो वअस्स , जधा बीसंतो णेउरसद्दो तहा तक्केमि आअदा देवी असोअमूलं त्ति । )
राजा —— वयस्य , सम्यगवधारितम् । पश्येयं देवीं । या किलैषा
कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम् ।
आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥१९॥
तदेहि उपसपर्विः (उपसृत्य ) प्रिये वासवदत्ते ।
वासवदत्ता —— (विलोक्य ) कथमार्यपुत्रः । जयतुः जयतु आर्यपुत्रः । एतदासनम् । अत्रोपविशत्वार्यपुत्रः (कधं अज्जउत्तो । जअदु जअदु अज्जउत्तो । एदं आसणं । एत्थं उवविसदु अज्जउत्तो । ) (राजा नाट्येनोपविशति )
काञ्चनमाला —— भट्टिनि , स्वहस्तदत्तैः कुसुमकुङकुमचन्दनवासोभिः शोभितं रक्ताशोकपादपं गत्वाऽर्च्यतां भगवान् प्रद्युम्नः । (भट्टिणि , सहत्थदिण्णेहिं कुसुमकुंकुमचंदणवासेहि सोहिदं रत्तासोअपाअवं गदुअ अच्चीअदु भअवं पज्जुण्णो । )
वासवदत्ता —— उपनयन मे पूजोपकरणानि । (उवणेहि मे पूओवअरणाइं । ) (काञ्चनमाला उपनयति । वासवदत्ता तथा करोति । )
प्रत्यग्रमज्जनविशेषविविक्तकान्तिः
कौस्तुम्भरागरुचिरस्फुरदंशुकान्ता ।
विभ्राजसे मकरकेतनमर्चयन्ती
बालप्रवालविटपिप्रभवा लतेव ॥२०॥
स्पृष्टस्त्वयैव दयिते स्मरपूजाव्यापृतेन हस्तेन ।
उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यतेऽशोकः ॥२१॥
अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम् ।
यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥२२॥
काञ्चनमाला —— भट्टिनि , अर्चितो भगवान् प्रद्युम्नः । तत् कुरु भर्तुरुचितं पूजासत्कारम् । (भट्टिणि , अच्चिदो भअवं पज्जुण्णो । ता करेहि भत्तणो उइदं पूआसक्कारम् । )
वासवदत्ता —— तेन हि उपनय मे कुसुमानि विलेपनं च । (तेण हि उणवेहि मे कुसुमाइं विलेवणं च । )
काञ्चनमाला —— भट्टिनि , एतत् सर्व सज्जम् । (भट्टिणि , एदं सव्वं सज्जम् । ) (वासवदत्ता नाट्येन राजानं पूजयति )
सागरिका —— (गृहीतकुसुमा ) हा धिक् हा धिक् । कथं कुसुमलोभोत्क्षिप्तहृदययाऽतिचिरमेव मया कृतम् । तदनेन सिन्धुवारविटपेनापवारितशरीरा भूत्वा प्रेक्षे । (विलोक्य ) कथं प्रत्यक्ष एवापूर्वः कुसुमायुधः । अस्माकं तातस्यान्तःपुरे चित्रगतोऽर्च्यते । तदहमप्येभिः कुसुमैरिह स्थितैव भगवन्त कुसुमायुधं पूजयिष्ये । (इति कुसुमानि प्रक्षिपति ) । नमस्ते भगवन् कुसुमायुध , शुभदर्शनो मे भविष्यसि । दृष्ट यद् द्रष्टव्यम् । अमोघदर्शनो मे भविष्यसि । (इति प्रणमति ) आश्चर्यमाश्चर्यम् । दृष्टोऽपि पुनःप्रेक्षितव्यः । तद् यावन् न कोऽपि मां प्रेक्षते तावदेव गमिष्यामि (इति कतिचित् पदानि गच्छति । ) (हद्धी हद्धी । कहं कुसुमलोहोक्खित्तहिअआए अदिचिरं जजेव्व मए किदं । ता इमिणा सिंदुवारविडवेण ओवारिअसरीरा भविअ पेत्खामि । कधं पच्चक्खो ज्जेव्व अपूव्वो कुसुमाउहो । अम्हाणं तादस्स अन्तेउरे चित्तगदो अच्चीअदि । ता अहं पि इमेहि कुसुमेहि इह ठ्ठिदा ज्जेव्वभ अवन्तं कुसुमाउहं पूअइस्सं । णमो दे भअवं कुसुमाउहं , सुभदंसणेमि भविस्ससि । दिट्ठ जं दिट्ठव्वं । अमोघदंसणो मे भविस्ससि । अच्चरिअं अच्चरिअं । दिट्ठोवि पुणो पेक्खिदव्वो । ता जाव ण कोविमं पेक्खदि दावज्जेव्व गमस्सिं । )
काञ्चनमाला —— आर्य वसनतक , एहि सांप्रतं त्वमपि स्वस्तिवायनं प्रतीच्छ । (अज्ज वसंतअ , एहि संपदं तुम पि सोत्थिवाअणं पडिच्छेहि )
( विदूषक उपसर्पति )
वासवदत्ता —— (विलेपनकुसुमाभरणदानपूर्वकम् । ) आर्य , स्वस्तिवायनं प्रतीच्छ । (अज्ज , सोत्थिवाअणं पडिच्छ । ) (इत्यर्पयति )
विदूषकः —— (सहर्ष गृहीत्वा ) स्वस्ति भवत्यै । (सोत्थि भोदिए । )
( नेपथ्ये वैतालिकः पठति )
अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवावास्थानीं
समये समं नृपजनः सायंतने संपतन् ।
सम्प्रत्येष सरोरुहद्युतिमषुः पादांस्तवाऽसेवितुं
प्रीत्युक्तर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥२३॥
राजा —— कथमुत्सवापहृतचेतोभिरस्समाभिः सन्ध्यातिक्रमोऽपि नोपलक्षितः । देवि , पश्य ।
उदयतटान्तरितमियं प्र ची सूचवति दिङ निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥२४॥
देवि , तदुत्तिष्ठावः । आवासभ्यन्तरमेव प्रविशावः ।
( सर्वे उत्थाय परिक्रमन्ति । )
सागरिका —— कथं प्रस्थिता देवी । भवतु । त्वरितं गमिष्यामि । (राजानं सस्पृहं दृष्ट्वा निःश्वस्य । ) हा धिक् । मन्दभागिन्या मया प्रेक्षितुमपि चिरं न पारितोऽयं जनः ।
( कधं पत्थिदा देवी । भोदु । तुरीअं गमिस्सं हद्धी मन्दभाइणीए मए पेक्खिदु वि चिरं ण पारिदो अअं जणो । )
( इति राजानं पश्यन्ती निष्कान्ता )
राजा —— (परिक्रामन् )
देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा
पश्याब्जानि विनिर्जितानि सहसा गच्छान्ति विच्छायताम् ।
श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गाना
लीयन्ते मुकुलान्तरेषु शनकैः संजातलज्जा इव ॥२५॥
( इति निष्क्रान्ताः सर्वे )
इति मदनमहोत्सवो नाम प्रथमोऽङ्कः ।