संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|गौतमीयधर्मशास्त्रेः|द्वितीयप्रश्ने| सप्तदशोऽध्यायः द्वितीयप्रश्ने दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः द्वितीयप्रश्ने - सप्तदशोऽध्यायः ‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत. Tags : dharmagautamगौतमधर्मसंस्कृत सप्तदशोऽध्यायः Translation - भाषांतर प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत ॥१॥ प्रतिगृह्वीयाच्च ॥२॥ एधोदकयवसमूलफलमध्वभयाभ्युद्यतशय्यास - नावसथयानपयोदधिधानाशफरीप्रियङ्गुस्त्र - ङ्मार्गशाकान्यप्रणोद्यानि सर्वेषाम् ॥३॥ पितृदेवगुरुभृत्यभरणेऽप्यन्यत् ॥४॥ वृत्तिश्चेन्नान्तरेण शूद्रात् ॥५॥ पशुपालक्षेत्रकर्षककुलसंगतकारयि - तृपरिचारका भोज्यान्नाः ॥६॥ वणिक्चाशिल्पी ॥७॥ नित्यमभोज्यम् ॥८॥ केशकीटावपन्नम् ॥९॥ रजस्वलाकृष्णशकुनिपदोपहतम् ॥१०॥ भ्रूणघ्नाऽवेक्षितम् ॥११॥ भावदुष्टम् ॥१२॥ गवोपघ्रातम् ॥१३॥ शुक्तं केवलमदधि ॥१४॥ पुनः सिद्धम् ॥१५॥ पर्युषितमशाकभक्षस्नेहमांसमधूनि ॥१६॥ उत्सृष्टपुंश्वल्यभिशस्तानपदेश्यदण्डिकतक्षककदर्यबन्धनिकचि - कित्सकमृगय्वनिषुचार्युच्छिष्टभोजिगणविद्विषाणानाम् ॥१७॥ अपङ्क्त्यानां प्राग्दुर्वालात् ॥१८॥ वृथान्नाचमनोत्थानव्यपेतानि ॥१९॥ समासमाभ्यां विषमसमे पूजातः ॥२०॥ अनर्चितं च ॥२१॥ गोश्च क्षीरमनिर्दशायाः सूतके ॥२२॥ अजामहिष्योश्च ॥२३॥ नित्यमाविकमपेयमौष्ट्रमैकशफं च ॥२४॥ स्यन्दिनीयमसूसंधिनीनां च ॥२५॥ विवत्सायाश्व॥२६॥ पञ्चनखाश्वाशल्यकशशश्वाविद्गोधाखडगकच्छपाः ॥२७॥ उभयतोदत्केश्यलोमैकशफकलविङकप्लवचक्रवाकहंसाः ॥२८॥ काककङकगृध्रश्येना जलजा रक्तपाद - तुण्डा ग्राम्यकुक्कुटसूकराः ॥२९॥ धेन्वनडुहौ च ॥३०॥ अपन्नदन्नवसन्नवृथामांसानि ॥३१॥ किसलयक्याकु (किम्पाकु )लशुननिर्यासाः ॥३२॥ लोहिता व्रश्वनाः ॥३३॥ निचुदारुबकबलाकाशुकमद्गुटिट्टिभ - मास्थालनक्तंचरा अभक्ष्याः ॥३४॥ भक्ष्याः प्रतुदविष्किरजालपादाः ॥३५॥ मत्स्याश्वाविकृताः ॥३६॥ वध्याश्व धर्मार्थे ॥३७॥ व्यालहतादृष्टदोषवाक्प्रशस्तानभ्युक्ष्योपयुञ्जीतोपयुञ्जीत ॥३८॥ इति श्रीहरदत्तविरचितायां गौतमसूत्रविवृतौ मिताक्षरायां सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP