सिन्धुतीरे सुखासीनं देवलं मुनिसत्तमम।
समेत्य मुनयः सर्वे इदे वचनमब्रुवन ॥१॥
भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानुपूर्वशः ॥२॥
कथं स्नानं कथं शौचं प्रायश्चितं कथं भवेत।
किमाचारा भवेयुस्ते तदाचक्ष्व सविस्तरम ॥३॥
देवल उवाच -
त्रिशंकु वर्जयेद्देशं सर्व द्वादशयोजनम।
उत्तरेण महानद्या दक्षिणेन तु कीकटम ॥४॥
प्रायश्चितं प्रवक्ष्यामि विस्तरेण महर्षयः ॥५॥
मृतसूते तु दासीनां पत्नीनां चानुलोमिनाम।
स्वामितुल्यं भवेच्छौचं मृते यौनिकम ॥६॥
अपेय येन संपीतमभक्ष्यं चापि भक्षितम।
म्लेच्छैर्नीतेन विप्रेण अगम्यागमनं कृतम ॥७॥
तस्य शुद्धिं प्रवक्ष्यामि यावदेकं तु वत्सरम।
चांद्रयणं तु विप्रस्य सपराकं प्रकीर्तितम ॥८॥
पराकमेकं क्षत्रस्य पादकृच्छ्रेण संयुतम।
पराकार्ध तु वैश्यस्य शूद्रस्य दिनपञ्चकम ॥९॥
नखलोमविहिनानां प्रायश्चित्तं प्रदापयेत।
चतुर्णामपि वर्णानामन्यथाऽशुद्धिरास्ति हि ॥१०॥
प्रायश्चित्तविहिनं तु यदा तेषां कलेवरम।
कर्तव्यस्तत्र संस्कारो मेखलादण्डवर्जितः ॥११॥
म्लेच्छैर्नीतेन शूद्रैर्वा हारिते दण्डमेखले।
संस्करप्रमुखं तस्य सर्व कार्य यथाविधि ॥१२॥
संस्कारान्ते च विप्राणां दानं धेनुश्च दक्षिणा।
दातव्यं शुद्धिमिच्छद्भिरश्वगोभूमिकाञ्चनम ॥१३॥
तदासौ तु कुटुंबानां पंक्ति प्राग्नोति नान्यथा।
स्वभार्यां च यथान्यार्य गच्छन्नेव विशुध्यति ॥१४॥
अथ संवत्सरादूर्ध्वं म्लेच्छैर्नीतो यदा भवेत।
प्रायश्चितं तु संचीण गंगास्नानेन शुध्यति ॥१५॥
सिंधुसौवीरसौराष्ट्रं तथा प्रत्यन्तवासिनः।
कलिंकौकणान्वंगान गत्वा संस्कारमर्हति ॥१६॥
बलाद्दासीकृता ये च म्लेच्छचांडालदस्युभिः।
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम ॥१७॥
उच्छिष्टमार्जनं चैव तथा तस्यैव भोजनम।
खरोष्ट्रविंवराहाणामामिषस्य च भक्षणम ॥१८॥
तत्स्रीणां च तथां संगं तामिश्च सह भोजनम।
मासेषिते द्विजातौ तु प्राजापत्यं विशोधनम ॥१९॥
चांद्रायणं त्वाहिताग्नेः पराकस्त्वथवा भवेत।
चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ॥२०॥
संवत्सरोषितः शूद्रो मासार्ध यावकं पिबेत।
मासमात्रौऽषितः शूद्रः कृच्छ्र्पादेन शुध्यति ॥२१॥
ऊर्ध्व संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजौत्तमैः।
संवत्सरैश्चंतुर्भिश्च तद्भवमधिगच्छति ॥२२॥
ह्रासो न विद्यते यस्य प्रायश्चित्तं तु कारयेत।
गुह्यकक्षशिरोभ्रूणां कर्तव्यं केशवापनम ॥२३॥
प्रायश्चित्तं समारभ्य प्रायश्चित्तं तु कारयेत।
स्नानं त्रिकालं कुर्वीत धौतवासा जितेन्द्रीयः ॥२४॥
कुशहस्तः सत्यवक्तादेवलेनह्युदाहृतम।
वत्सरं वत्सरार्धं वा मासं मासार्धमेव वा ॥२५॥
बलान्म्लेच्छैस्तु यो नीतस्तस्य शुद्धिस्तु कीदृशी।
संवत्सरोषिते शूद्रे शुद्धिश्चान्द्रायणेन तु ॥२६॥
पराकं वत्सरार्धे च पराकार्ध त्रिमासिक।
मासिके पादकृच्छ्रश्च नखलोमविवर्जितः ॥२७॥
पादोनं क्षत्रियस्योक्तमर्धं वैश्यस्य दापयेत।
प्रायश्चित्तं द्विजस्योक्तं पादं शूद्रस्य दापयेत ॥२८॥
प्रायश्चित्तावसाने तु दोग्ध्री गौर्दक्षिणा मता।
तथाऽसौ तु कुटुम्बान्ते ह्युपाविष्टो न दुष्यति ॥२९॥
अशीतिर्यस्य वर्षाणि वालोवाऽप्यूनषोडशः।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥३०॥
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च।
प्रायश्चित्त चरेदभ्राता पिता वाऽन्योऽपि वर्धिता ॥३१॥
स्वयं व्रतं चरेत्सर्वमन्यथा नैव शुध्यति।
तिलहोगं प्रकुर्वीत जपं कुर्यादतन्द्रितः ॥३२॥
संलापस्पर्शनिःश्वाससहयानासनाशनात।
याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम ॥३३॥
याजनं योनिसंबंध स्वाध्यायं सहभोजनम।
कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥३४॥
संवत्सरेण पतति पतितेन सहाऽऽचरन।
याजनासनयज्ञादि कुर्वाणः सार्वकामिकम ॥३५॥
अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम।
स्त्रीणां म्लेच्छैश्च नीतानां बलात्संवेशने क्वचित ॥३६॥
ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदांत्यजैः।
ब्राह्मण्याः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ॥३७॥
ब्राह्मणी भोजयेन्म्लेच्छमभक्ष्यं भक्ष्ययेद्यदि।
पराकेण ततः शुद्धिः पादेनोत्तरतोत्तरान ॥३८॥
न कृतं मैथुनं तामिरभक्ष्यं नैव भक्षितम।
शुद्धिस्तदा त्रिरात्रेण म्लेच्छान्नेनैव भक्षिते ॥३९॥
रजस्वला यदा स्पृष्टा म्लेच्छेनान्येन वा पुनः।
त्रिरात्रमुषिता स्नात्वा पञ्चगव्येन शुध्यति ॥४०॥
स्पृष्ट्वा रजस्वलाऽन्योयं ब्राह्मणी क्षत्रिया तथा।
त्रिरात्रेण विशुद्धिः स्याद्देबलस्य वचो यथा ॥४१॥
स्पृष्ट्वा रजस्वलाऽन्योयं ब्राह्मणी क्षत्रिया तथा।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥४२॥
ब्राह्मण्यनशनं कुर्यात्क्षत्रिया स्नानमाचरेत।
सचैलं वैश्यजातीनां नक्तं शूद्रे विनिर्दिशेत ॥४३॥
म्लेछान्नं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः।
वत्सरं वत्सरादूर्ध्व त्रिरात्रेण विशुध्यति ॥४४॥
म्लेच्छैर्हृतानां चौरैर्वा कान्तारेषु प्रवासिनाम।
भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा ॥४५॥
पुनः प्राप्य स्वकं देशं चातुर्वर्णस्य निष्कृतिः।
कृच्छ्रमेकं चरेद्वैश्यः शूद्रः पादेन शुध्यति ॥४६॥
गृहीता स्त्री बलादेव म्लेच्छैर्गुर्वीकृता यदि।
गुर्वी न शुद्धिमाप्नोति त्रिरात्रेणेतरा शुचिः ॥४७॥
योषा गर्भ विधत्ते या म्लेच्छात्कामादकामतः।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा वर्णेतरा च या ॥४८॥
अभक्ष्यभक्ष्यणं कुर्यात्तस्याः शुद्धिः कथं भवेत।
कृच्छ्रं सांतपनं शुद्धिर्घृतैर्योनेश्च पाचनम ॥४९॥
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते।
अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति ॥५०॥
विनिसृते ततः शल्ये रजसो वापि दर्शने।
तदा सा शुध्यते नारी विमलं कांचनं यथा ॥५१॥
स गर्भो दीयतेऽन्यस्मै स्वयं ग्राह्यो न कर्हिचित।
स्वजातौ वर्जयेद्यस्मात्संकरः स्यादतोऽन्यथा ॥५२॥
गृहीतो यो बलाम्छेच्छैः पञ्च षट सप्त वा समाः।
दशादि विंशति यावत्तस्य शुद्धिर्विधीयते ॥५३॥
प्राजापत्यद्वयं तस्य शुद्धिरेषा विधीयते।
अतः परं नास्ति शुद्धिः कृच्छ्रमेव सहोषिते ॥५४॥
म्लेच्छैः सहोषितो यस्तु पंचप्रभृति विंशतिः।
वर्षाणि शुद्धिरेषोक्ता तस्य चान्द्रायणद्वयम ॥५५॥
कक्षागुह्यशिरःश्मश्रुभ्रूलोमपरिकृन्तनम।
प्राहृत्य पाणिपादानां नखलोम ततः शुचिः ॥५६॥
यो दातुं न विजानाति प्रायश्चित्तं द्विजोत्तमः।
शुद्धिं ददाति चान्यस्मै तदशुद्धैः स भाजनम ॥५७॥
सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत।
कुर्यात्स्नानं सचैलं तु दिनमेकमभोजनम ॥५८॥
माता म्लेच्छत्वमागच्छेत्पितरो वा कथंचन।
असूतकं च नष्टस्य देवलस्य वचो यथा ॥५९॥
मातरं च परित्यज्य पितरं च तथा सुतः।
ततः पितामहं चैव शेषपिण्डं तु निर्वपेत ॥६०॥
स्त्रीणां चैव तु शूद्राणां पतितानां तथैव च।
पञ्चगव्यं न दातव्यं दातव्यं मंत्रवर्जितम ॥६१॥
वरुणो देवता मूत्रे गोमये हव्यावाहनः।
सोमः क्षीरे दघ्नि वायुर्घृते रविरुदाहृतः ॥६२॥
गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चैव गोमयम।
पयः काञ्चनवर्णाया नीलायाश्चपि गोर्दधि ॥६३॥
घृतं वै कृष्णवर्णाया विभक्तिर्वर्णगोचरा।
उदकं सर्ववर्ण स्यात्कस्य वर्णो न गृह्यते ॥६४॥
षण्मात्रिके तु गोमूत्रं गोमयं च कुशोदकम।
त्रिमात्रिकं घृतं क्षीरं दधि स्याद्दशमात्रिकम ॥६५॥
व्रते तु सर्ववर्णानां पञ्चगव्यं तु संख्यया।
प्रायश्चित्तं यथोक्तं तु दातव्यं ब्रह्मवादिभिः ॥६६॥
अन्यथा दापयेद्यस्तु प्रायश्चित्ती भवेद्द्विजः॥६७॥
कपिलायाश्वगोर्दुग्ध्वा धारोष्णं यः पयः पिबेत।
एष व्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत ॥६८॥
तिलाहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः।
’ विष्णो रराट ’ मंत्रेण प्रायश्चित्ती विशुध्यति ॥६९॥
बहुनाऽत्र किमुक्तेन तिलहोमो विधीयते।
तिलान्दत्त्वा तिलान्भुक्त्वा कुर्वीताघनिवारणम ॥७०॥
संपादयन्ति यद्विपाः स्नानं तीर्थफलं तपः।
संपादी क्रमते पापं तस्य संपद्यते फलम ॥७१॥
प्रायश्चित्तं समाख्यातं यथोक्तं देवलेन तु।
इतरेषामृषीणां च नान्यथा वाक्यमर्हथ ॥७२॥
सुवर्णदानं गोदानं भूमिदानं गवान्हिकम।
विप्रेभ्यः संप्रच्छेत प्रायश्चित्ती विशुध्यति ॥७३॥
पञ्चाहान्सहवासेन संभाषणसहाशनैः।
संप्राश्य पंञ्चागव्यं तु दान दत्वा विशुध्यति ॥७४॥
एकद्वित्रिचतुःसंख्यान्वत्सरान्संवसेद्यदि।
म्लेच्छवासं द्विजश्रेष्ठः क्रमते द्रव्ययोगतः ॥७५॥
एकाहेन तु गोमूत्रं द्वयहेनैव तु गोमयम।
त्रहात्क्षीरेण संयुक्तं चतुर्थे दधिमिश्रितम ॥७६॥
संवासं च प्रवक्ष्यामि देहशुद्धिं द्विजन्मनाम।
पंचाहं पंचगव्यं स्यात्पादकृच्छ्रं दशाहिके ॥७८॥
पराकं पंचदशभिर्विशेऽतिकृच्छ्रमेव च।
उदरं प्रविशेद्यस्य पंचगव्यं विधानतः ॥७९॥
म्लेच्छैर्नीतस्य विप्रस्य पंचगव्यं विशोधनम ॥८०॥
पंचगव्यं च गोक्षीरे दधि मूत्रं घृतं पयः।
यत्किंचिद्दुष्कृतं तस्य सर्व नश्यति देहिनः।
पंच सप्ताष्ट दश वा द्वादशाहोऽपि विंशतिः।
प्राश्यापरेऽहन्युपवसेत्कृच्छ्रं सांतपनं चरेत ॥८१॥
पृथक्सांतपनं द्रव्यैः षडहः सोपवासकः।
सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः ॥८२॥
पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः।
प्रत्येकं प्रत्यहं पीतैः पू ( प ) र्णकृच्छ्र उदाहृतः ॥८३॥
कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम।
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥८६॥
एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥८८॥
तिथिवृद्ध्या चरेत्पिण्डाञ्शुक्ले शिख्यण्डसंमितान।
एकैक ह्रासयेत्पिण्डान्कृच्छ्रचांद्रयाणं चरेत ॥८९॥
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम।
इति देवल ( ले ) नकृतं धर्मशास्त्रं प्रकीर्तितम ॥९०॥
समाप्तेयं देवलस्मृतिः