अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्र्चरन् कान्तया ।
दृष्टो भक्ततमेन हैहृयमहीपालेन तस्मै वरा -
नष्टैश्र्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥१॥
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
संजातो जमदग्नितो भृगकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥२॥
लब्धाम्नायगणश्र्चतुर्दशवया गन्धर्वराजे मना -
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसौदरैः सममिमां छित्त्वाथ शान्तात् पितु -
स्तेषां जीवनयोगमापिथं वरं माता च तेऽदाद्वरान् ॥३॥
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥४॥
आखेटोपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै -
स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः ।
गां क्रेतुं सचिव न्ययुङक्त कुधिया तेनापि रुन्धन्मुनि -
प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥५॥
शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं
बिभ्रद् ध्यातमहोदरोपनिहितं चापं कुठारं शरान् ।
आरुढः सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥६॥
पुत्राणामयुतेन सप्तदशभिश्र्चाक्षौहिणीभिर्महा -
सेनानीभिरनेकामित्रनिवहैर्व्याजृम्भितायोधनः ।
सद्यस्त्वक्तकुठारबाणाविदलन्निश्शेषसैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टतनयस्त्वामापतद्धैहयः ॥७॥
लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह -
श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रेत्वय्यथ वैष्णवैऽपि विफले बुद्धवा हरिं त्वां मुदा
ध्यायन्तं छितसर्वदोषमवधीः सोऽगात् परं त पदम् ॥८॥
भूयोऽमर्षितहैहयात्मजगणैस्ताते हते रेणुका -
माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञा वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
दिक्चक्रे षु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥९॥
तातोज्ज्ीवनकृन्नृपालककुलं त्रिस्सप्तकुत्वो जयन्
सर्ंप्याथ समन्तपञ्चकमहारक्तह्रदौघे पितृन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् शाल्वेन युध्यन् पुनः
कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात कुमारैर्भवान् ॥१०॥
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां
गोकर्णाविधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासधृतानलास्त्रचकितं सिन्धुं स्त्रुवक्षेपणा -
दुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥११॥
॥ इति परशुरामावतारवर्णनं षट्त्रिंशत्तमदशकं समाप्तम् ॥