वैवस्वताख्यमनुपुत्रनभागजात -
नाभागनामकनरेन्द्रसुतोऽम्बरीषः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे
त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥१॥
त्वत्प्रीतये सकलमेव वितन्वतोऽस्य
भक्त्यैव देव न चिरादभृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं
चक्रं भवान् प्रविततार सहस्रधारम् ॥२॥
स द्वादशीव्रतमथो भवदर्चनार्थं
वर्षं दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं समुनसा महतीं वितन्वन्
पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥३॥
तन्नाथ पारणदिने भवदर्चनान्ते
दुर्वाससास्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्र्च स नृपेण परार्तिशीलो
मन्दं जगाम यमुनां नियमान् विधास्यन् ॥४॥
राज्ञाऽथ पारणमुहूर्तसमाप्तिखेदाद्
वारैव मुनिस्तदथ दिव्यदृशा विजानन्
क्षिप्यन्कु्रधोद्धृतजटो विततान कृत्याम् ॥५॥
कृत्यां च मातसिधरां भुवनं दहन्ती -
मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥६॥
धावन्नशेषभुवनेषु भिया स पश्यन्
विश्र्वत्र चक्रमपि ते गतवान् विरिञ्चम् ।
कः कालचक्रमतिलङ्घयतीत्यपास्तः
शर्वं ययौ स च भवन्तमवन्दतैव ॥७॥
भूयो भवन्निलयमेत्य मुनिं नमन्तं
प्रोचे भवानहमृषे ननु भक्तदासः ।
ज्ञानं तपश्र्च विनयान्वितमेव मान्यं
याह्याम्बरीषपदमेव भजेति भूमन् ॥८॥
तावत्समेत्य मुनिना स गृहीतपादो
राजापसृत्य भवदस्त्रमसावतौषीत् ।
चक्रे गते मुनिरदादखिलाशिषोऽस्मै
त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥९॥
राजा प्रतीक्ष्य मुनिमेकसमामनाश्र्वान्
सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्
सायुज्यमाप च स मां पवनेश पायाः ॥१०॥
॥ इति अम्बरीषोपाख्यानं त्रयस्त्रिंशत्तमदशकं समाप्तम् ॥