स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णो समाचूर्णय -
न्नाघूर्णज्जगदण्डकुण्डकुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
काम्पः कश्र्चन सम्पपात चलितोऽप्यम्भोजभूर्विष्टरात् ॥१॥
दैत्ये दिक्षु विसृष्टचक्षुषि महासंरम्भिणि स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥२॥
तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर -
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवल्गन्महा -
जिह्णानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डोमरम् ॥३॥
उत्सर्पद्वलिभङ्गभीषणहनुं ह्रस्वस्थवीयस्तर -
ग्रीवं पीवरदोश्शतोद्रतनखक्रूरांशुदूरोल्बणम् ।
व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्द्धावित -
स्पर्द्धालुप्रकरं नमामि भवतस्तन्नरासिंह वपुः ॥४॥
नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितोऽथ खङ्गफलकौ गृह्णन् विचित्रश्रमान्
व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥५॥
भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
द्वोरऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षो भूवि ।
निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बुबद्धोत्सवं
पायंपायमुदैरयो बहु जगत्संहारिसिंहारवान् ॥६॥
त्यक्त्वां तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमिविकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥७॥
तावन्मांसवसाकरालवपुषं घोरान्त्रमालाधरं
त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारम् ।
अभ्येतुं न शशाक कोऽपि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥८॥
भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्रादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
शान्तस्त्वं करमस्यं मूर्ध्रि समधाः स्तोत्रैरथोद्रायत -
स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥९॥
एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध -
श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
प्रह्रादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥१०॥
॥ इति नरसिंहावतारवर्णनं पञ्चविंशतितमदशकं समाप्तम् ॥