हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता
हते शोकक्रोधग्लपितधृतिरेतस्य सहजः ।
हिरण्यप्रारम्भः कशिपुरमरारातिदसि
प्रतिज्ञामातेने तव किल वधार्थं मुररिपो ॥१॥
विधातारं घोरं स खलु तपसित्वा न चिरतः
पुरःसाक्षात्कुर्वन् सुरनरमृगाद्यैनिधनम् ।
वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥२॥
निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपो -
र्बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
भिया यातं मत्वा स खलु जितकाशी निववृते ॥३॥
ततोऽस्य प्रह्रादः समजनि सुतो गर्भवसतौ
मुनेर्वीणापाणेरधितगतभवद्भक्तिमहिमा ।
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥४॥
सुरारीणां हास्यं तव चरणदास्यं निजसुते
स दुष्ट्वा दुष्टात्मा गुरुभ्ज्ञिरशिशिक्षच्चिरमुम् ।
गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि -
त्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥५॥
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
गुरुभ्यो रोषित्वा सहजमतिरस्येत्यभिविदन्
वधोपायानस्मिन् व्यतनुत भवत्पादशरणे ॥६॥
स शूलैराविद्धः सुबहु मथितो दिग्गजगणै -
र्महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।
गिरीन्द्रावक्षिप्तौऽप्यहह परमात्मन्नयि विभो
त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥७॥
ततः शङ्काविष्ठः स पुनरतिदुष्टोऽस्य जनको
गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् ।
गुरोश्र्चासंनिघ्ये स पुनरनुगान् दैत्यतनयान्
भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥८॥
पिता़श़ृण्वन् बालप्रकरमखिलं त्वत्सुतिपरं
रुषान्धः प्राहैनं कुलहतक कस्ते बलमिति।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥९॥
अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति
प्रभिन्ते स्म स्तम्भं चलितकरवालों दितिसुतः ।
अतः पश्र्चाद्विष्णो नहि वदितुमीशोऽस्मि सहसा
कृपात्मन् विश्र्वात्मन् पवनपुरवासिन् मृडय माम् ॥१०॥
॥ इति प्रह्रादचरितवर्णनं चतुर्विंशतितमदशकं समाप्तम् ॥