प्राचेतसस्तु भगवन्नपरो हि दक्ष -
स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
अविर्बभूविथ तदा लसदष्टाबाहु -
स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥१॥
तस्यात्मजास्त्वयुतमीश पुनः सहस्त्रं
श्रीनारदस्य वचसा तव मार्गमापुः ।
नैकत्र वासमृषये स मुमोच शापं
भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥२॥
षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
दौहित्रसूनुरथ तस्य स विश्र्वरूपः ।
त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
देव त्वदीयमहिमा खलु सर्वजैत्रः ॥३॥
प्राक्शूरसेनविषये किल चित्रकेतुः
पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् ।
लब्ध्वैकपुत्रमथ तत्र हते सपत्नी -
सङ्घेरमुह्यदवशस्तव माययासौ ॥४॥
तब दयालु नारद महर्षि अङ्गिरसा दयालुः
सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं
त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥५॥
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्धवा
तोषाय शेषवपुषो ननु ते तपस्यन् ।
विद्याधराधिपतितां स हि सप्तारात्रे
लब्ध्वाप्यकुण्ठमतिरन्वभजद्भवन्तम् ॥६॥
तस्मै मृणालधवलेन सहस्रशीर्ष्णा
रूपेण बुद्धनुतिसिद्धगणावृतेन ।
प्रादुर्भवन्नचिरतो नृतिभिः प्रसन्नो
दत्त्वात्मतत्त्वमनुगृह्य तिरोदधाथ ॥७॥
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं
वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सङ्गापयन् गुणगणं तव सुन्दरीभिः
सङ्गातिरेकरहितो ललितं चचार ॥८॥
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो
नूनं स रौप्यगिरिमाप्य महत्समाजे ।
निश्शङ्कमङ्ककृतवल्लभमङ्गजारि
तं शंकरं पहिरसन्नुमयाभिशेपे ॥९॥
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
भक्त्यात्मतत्त्वकथनैः समरे विचित्रं
शत्रोरपि भ्रममपास्य गतः पदं ते ॥१०॥
त्वत्सेवनेन दितिरिन्द्रवधोद्यतापि
तान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे ।
दुष्टाशयेऽपि शुभदैव भवन्निषेवा
तत्तादृशस्त्वमव मां पवनालयेश ॥११॥
॥ इति दक्षचरितं चित्रकेतूपाख्यानं वृत्रवधवर्णनं मरुतामुत्पत्तिकथनं च त्रयोविंशतितमदशकं समाप्तम् ॥