मध्योद्भवे भुव इलावृतनाम्नि वर्षे
गौरीप्रधानवनिताजनमात्रभाजि ।
शर्वेण मन्त्रनुतिभिः समुपास्यमानं
सङ्कर्षणात्मकमधीश्र्वर संश्रये त्वाम् ॥१॥
भद्राश्र्वनामक इलाहवृतपूर्ववर्षे
भद्रश्रवोभिर्ऋषिभिः परिणूयमानम् ।
कल्पान्तगूढनिगमोद्धरणप्रवीणं
ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥२॥
ध्यायामि दक्षिणगते हरिवर्षवर्षे
प्रह्रदमुख्यपुरुषैः परिषेव्यमाणम् ।
उत्तुङ्गशानतधवलाकृतिमेकशुद्ध -
ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥३॥
वर्षे प्रतीचि ललितात्मनि केतुमाले
लीलाविशेषललितस्मितशोभनाङ्गम् ।
लक्ष्म्या प्रजापतिसुतैश्र्च निषेव्यमाणं
तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥४॥
रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे
तद्वर्षनाथमनुवर्यसपर्यमाणम् ।
भक्तैकवत्सलममत्सरहृत्सु भान्तं
मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥५॥
वर्षं हिरण्यमयसमाह्णयमौत्तराह -
मासीनमद्रिधृतिकर्मठछकामठङ्गम् ।
संसेवते पितृगणप्रवरोऽर्यमा यं
तं त्वां भजामि भगवन् परिचिन्मयात्मन् ॥६॥
किं चोत्तरेषु कुरुषु प्रियया धरण्या
संसेवितो महितमतन्त्रनुतिप्रभेदैः ।
दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा
त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ॥७॥
याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
संसेवितो हनुमता दृढभक्तिभाजा ।
रामात्मकः परिलसन् परिपाहि विष्णो ॥८॥
श्रीनारदेन सह भारतखण्डमुख्यै -
स्त्वं सांख्ययोगनुतिभिः समुपास्यमानः ।
आकल्पकालमिह साधुजनाभिरक्षी
नारायणो नरसखः परिपाहि भूमन् ॥९॥
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं
द्वीपे भजन्ति कुशनामनिवह्निरूपम् ।
क्रौञ्चैऽम्बुरूपमथ वायुमयं च शाके
त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥१०॥
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्र्च
पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः ।
त्वं शिंशुमारवपुषा महतामुपास्यः
संध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥११॥
पातालमूलभूवि शेषतनुं भवन्तं
लोलैककुण्डलविराजिसहस्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजागाङ्गनाभि -
र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥१२॥
॥ इति जम्बूद्वीपादिषु भगवनदुपासनाप्रकारवर्णनम् एकविंशतितमदशकं समाप्तम् ॥