प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः ।
त्वां दृष्टवानिष्टदमिष्टिमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥१॥
अभिष्टुतस्तत्र मुनीश्र्वरैस्त्वं राज्ञः स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्र्वमूर्ते ॥२॥
नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूर्ऋृषभाभिधानः ।
अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥३॥
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।
तपोवन प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥४॥
इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्व्यदधाः सुवर्षम् ॥५॥
जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि ।
अजीजनस्तत्र शतं तनूजानेषां क्षितीशो भरतोऽग्रजन्मा ॥६॥
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद् भूसुरभूयमीयुः ॥७॥
उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥८॥
परात्मभूतोऽपि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥९॥
शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृताङ्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥१०॥
॥ इति ऋषभयोगीश्र्वरचरितवर्णनं विंशतितमदशकं समाप्तम् ॥