पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरनिव ॥१॥
पितुः सिसृक्षानिरतस्य शासनाद् भवत्तपस्याभिरता दशापि ते ।
पयोनिधिं पश्र्चिममेत्य तत्तटे सरोवरं संददृशुर्मनोहरम् ॥२॥
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद् भक्ततमस्त्व स्तवम् ॥३॥
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान् बभूव कालो ध्रुववन्न शीघ्रता ॥४॥
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।
पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥५॥
कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः प्रतेगन्द्रवाहनः ।
विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥६॥
प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वरानदाः ।
भवद्विचिन्तापि शिवाय देहिनां भवत्वसौ रुद्रनुतिश्र्च कामदा ॥७॥
अवाप्य कान्तां तनयां महीरुहां
तया रमध्वं दशलक्षवत्सरीम् ।
सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां
प्रयास्यथेति न्यगदो मुदैव तान् ॥८॥
ततश्र्च ते भूतलरोधिनः तरून् क्रुधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैश्र्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥९॥
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहि माम् ॥१०॥
॥ इति प्रचेतःकथानुवर्णनम् एकोनविंशतितमदशकं समाप्तम् ॥