नाट्यशास्त्रम् - अथ अष्टमोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

ऋषयः ऊचुः ।
भावानां च रसाआं च समुत्थानं यथाक्रमम् । त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥१॥
नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः । कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥२॥
सर्वमेतद्यथातत्त्वं कथयस्व महामुने । यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥३॥
तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति ॥४॥
अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् ॥५॥
यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह । अभिनय इति कस्मात् । अत्रोच्यते अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति । अत्र श्लोकौ । अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये । यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥६॥
विभावयति यस्माच्च नानार्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥७॥
चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः । अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥८॥
आङ्गिको वाअचिकश्चैव ह्याहार्यः सात्त्विकस्तथा । ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥९॥
सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया । अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥१०॥
त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा । तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥११॥
शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः ॥१२॥
तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥१३॥
अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥१४॥
आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् । अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥१५॥
मुखजेऽभिनये विप्रा !नानाभावरसाश्रये । शिरसः प्रथमं कर्म गदतो मे निबोधत ॥१६॥
आकम्पितं कम्पितं च धूतं विधुतमेव च । परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥१७॥
निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् । लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥१८॥
शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् । द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥१९॥
ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् । बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥२०॥
संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा । निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥२१॥
रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने । प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥२२॥
शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते । द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः॥२३॥
अनीप्सिते विषादे च विस्मये प्रत्ययं तथा । पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥२४॥
शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥२५॥
पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् । आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् ॥२६॥
साधने विस्मये हर्षे स्मिते चामर्षिते तथा । विचारे विहृते चैव लीलायां परिवाहितम् ॥२७॥
गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे । आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥२८॥
यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । सन्देशावाहनालापसंज्ञादिषु नदिष्यते ॥२९॥
किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥३०॥
उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः । निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् ॥३१॥
गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥३२॥
परावृत्तानुकरणात् परावृत्तमिहोच्यते । तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥३३॥
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥३४॥
अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् । लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥३५॥
सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् । मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥३६॥
ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । मंगल्याध्ययनध्यानस्वभावजयकर्मसु ॥३७॥
एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः । ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥३८॥
त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥३९॥
कान्ता भयानका हास्या करुणा चाद्भुता तथा । रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥४०॥
स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥४१॥
शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥४२॥
कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥४३॥
आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥४४॥
अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥
हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥४६॥
प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥४७॥
क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका । हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥४८॥
पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥४९॥
या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका । सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते॥५०
क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका । भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥५१॥
दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥५२॥
निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका । संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥५३॥
नासाग्रसक्ता निमिषा तथाधोभागचारिणी । आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥५४॥
रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता । अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥५५॥
व्याकोशमध्या मधुरा स्थितताराभिलाषिणी । सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥५६॥
चला हसितगर्भा च विशत्तारानिमेषिणी । किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥५७॥
अवस्रस्तोत्तरपुटा किञ्चित्सरंब्धतारका । मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥५८॥
रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका । कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥५९॥
संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसंभवा ॥६०॥
विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥६१॥
संकोचितपुटाध्यामा दृष्टिर्मीलिततारका । पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥६२॥
भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता । समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥६३॥
स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः । संचारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥६४॥
समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥६५॥
प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः । मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥६६॥
श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना । सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥६७॥
किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया । त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥६८॥
म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी । क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता॥६९॥
किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टिरिष्यते॥७०॥
विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥७१॥
स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता । सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते॥७२॥
आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥७३॥
मन्दायमानतारा या पुटैः प्रचलितैस्तथा । सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥७४॥
लम्बिताकुञ्चितपुटा शनैस्तिर्यङ् निरीक्षिणी । निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥७५॥
मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥७६॥
वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका । अधोगतविचारा च दृष्टिरेषा वितर्किता॥७७॥
अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः । स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥७८॥
अनवस्थिततारा च विभ्रान्ताकुलदर्शना । विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥७९॥
पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥८०॥
आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥८१॥
विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी । अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥८२॥
त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका । सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥८३॥
आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥८४॥
किञ्चिदाकु ~चितपुटा ह्यनवस्थिततारका । तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥८५॥
सनिमेषानिमेषा च किञ्चिद् दर्शिततारका । अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥८६॥
इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया । रसजा सहजाश्चासां विनियोगं निबोधत ॥८७॥
रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥८८॥
शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता । निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥८९॥
श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥९०॥
शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥९१॥
कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥९२॥
जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥९३॥
आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥९४॥
विलुप्ता चपलोन्माददुःखार्तिमरणादिषु । आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥९५॥
विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता । त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति ॥९६॥
षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः । रसजानां तु दृष्टीनां भावजानां तथैअव च ॥९७॥
तारापुटभ्रुवां कर्म गदतो मे निबोधत । भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥९८॥
विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा । पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥९९॥
वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ॥१००॥
विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥१०१॥
अथैषां रसभावेषु विनियोगं निबोधत । भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥१०२॥
निष्क्रामणं संवलनं कर्तव्यं तु भयानके । हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥१०३॥
पातनं करुणे कार्यं निष्क्रामणमथाद्भुते । प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥१०४॥
स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् । एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥१०५॥
अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु । समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥१०६॥
प्रलोकितोल्लोकिते चाप्यवलोकितमेव च । समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् ॥१०७॥
पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् । रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥१०८॥
सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते । विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥१०९॥
ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः । इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥११०॥
ताराकृतोऽस्यानुगतं पुटकर्म निबोधत । उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥१११॥
विवर्तितं स स्फुरितं पिहितं सविताडितम् । विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥११२॥
समागमो निमेषः स्यादायामः प्रसृतं भवेत् । आकु ~चितं कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् ॥११३॥
विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा । स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् ॥११४॥
अथैषं रसभावेषु विनियोगं निबोधत । क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥११५॥
विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् । अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥११६॥
शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा । सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥११७॥
नेत्ररोगे च पिहितमभिघाते विताडितम् । इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥११८॥
कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥११९॥
कुञ्चितं रेचितं चैव सहजं चेति सप्तधा । भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा॥१२०॥
अनेनैव क्रमेणैव पातनं स्यादधोमुखम् । भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥१२१॥
चतुरं कि ~चिदुच्छ्वासान्मधुरायतया भ्रुवोः । एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥१२२॥
एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः । सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥१२३॥
अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् । कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥१२४॥
श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् । उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि ॥१२५॥
आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् । क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः ॥१२६॥
शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥१२७॥
स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥१२८॥
निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः॥१२९॥
इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत । नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥१३०॥
स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता । नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥१३१॥
विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता । विकूणिता संकुचिता समा स्वाभाविका स्मृता ॥१३२॥
नासिकालक्षणं ह्येतत् विनियोगं निबोधत । मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥१३३॥
निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः । विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥१३४॥
निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥१३५॥
इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥१३६॥
कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा । क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥१३७॥
षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते । क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥१३८॥
विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । स्यात् कुञ्चितं संकुञ्चितं समं प्राकृतमुच्यते ॥१३९॥
गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥१४०॥
पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे॥१४१॥
प्राकृतं शेषभावेषु गण्डकर्म भवेदिति । विवर्तनं कम्पनं च विसर्गो विनिगूहनम्॥१४२॥
सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु । विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥१४३॥
विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति ॥१४४॥
इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ १४५॥
कम्पनं वेपनं शीतभयरोषजवादिषु । स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥१४६॥
विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥१४७॥
इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥१४८॥
दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते । कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं मुहुः ॥१४९॥
छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः । लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ॥१५०॥
दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् । भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥१५१॥
जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् । छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥१५२॥
जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् । समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ १५३॥
इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया । विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥१५४॥
विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु । व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्॥१५५॥
अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥१५६॥
विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च । अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥१५७॥
विधुतं वारणे चैव नैवमित्येवमादिषु । निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥१५८॥
भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् । निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥१५९॥
विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु । स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥१६०॥
एव नामेति कार्यं च कोपवाक्ये विचक्षणैः । समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥१६१॥
तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् । अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥१६२॥
स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥१६३॥
मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः । प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥१६४॥
वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा । भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥१६५५॥
एवं भावरसार्थेषु मुखरागं प्रयोजयेत् । शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ॥१६६॥
मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः ॥१६७॥
द्विगुणां लभते शोभां रात्राविव निशाकरः । नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः ॥१६८॥
मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥१६९॥
तथा भावरसोपेतं मुखरागं प्रयोजयेत् । इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥१७०॥
अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः !। समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥१७१॥
वलिता च निवृत्ता च ग्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥१७२॥
नता नतास्यालङ्कारबन्धे कण्ठावलम्बने । उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥१७३॥
त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते । रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥१७४॥
कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे । अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥१७५॥
पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे । निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥१७६॥
इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा । ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥१७७॥
शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥१७९॥
इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP