नाट्यशास्त्रम् - अथ सप्तमोऽध्यायः


भरत मुनींनी नाट्य शास्त्राची निर्मिती प्रत्यक्ष ब्रह्मदेवाच्या सांगण्यावरून केली असा समज आहे .

भावानिदानीं व्याख्यास्यामः । अत्राह भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते वागङ्गसत्त्वोपेतानान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् । श्लोकाश्चात्र विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥१॥
वागङ्गमुखरागेण सत्त्वेनाभिनयेन च । कवेरन्तर्गतं भावं भावयन्भाव उच्यते ॥२॥
नानाभिनयसम्बद्धान्भावयन्ति रसानिमान् । यस्मातस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥३॥
अथ विभाव इति कस्मात् । उच्यते । विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञातमित्यनर्थान्तरम् । अत्र श्लोकः बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥४॥
अथानुभाव इति कस्मात् । उच्यते अनुभाव्यतेऽनेन वागङ्गसत्त्वकृतोऽभिनय इति । अत्र श्लोकः वागङ्गाभिनयेनेह यतस्त्वर्थोऽनुभाव्यते । शाखाङ्गोपाङ्गसंयुक्तस्त्वनुभावस्ततः स्मृतः ॥५ ॥
एवं ते विभावानुभावसंयुक्ता भावा इति व्याख्याताः । अतो ह्येषां भावानां सिद्धिर्भवति । तस्मादेषां भावानां विभावानुभावसंयुक्तानां लक्षणनिदर्शनान्यभिव्याख्यास्यामः । तत्र विभावानुभावौ लोकप्रसिद्धौ । लोकस्वभावानुगतत्वाच्च तयोर्लक्षणं नोच्यतेऽतिप्रसङ्गनिवृत्यर्थम् ।  भवति चात्र श्लोकः लोकस्वभावसंसिद्धा लोकयात्रानुगामिनः । अनुभावा विभावाश्च ज्ञेयास्त्वभिनये बुधैः ॥६॥
तत्राष्टौ भावाः स्थायिनः । त्रयस्त्रिंशद्व्यभिचारिणः । अष्टौ सात्विका इति भेदाः । एवमेते काव्यरसाभिव्यक्तिहेतव एकोनपञ्चाशद्भावाः प्रत्यवगन्तव्याः । एभ्यश्च सामान्यगुणयोगेन रसा निष्पद्यन्ते । अत्र श्लोकः योऽर्थो हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्कं काष्ठमिवाग्निना ॥७॥
अत्राह यदि काव्यार्थसंश्रितैर्विभावानुभावव्यञ्जितैरेकोनपञ्चाशद्भावैः सामान्यगुणयोगेनाभिनिष्पद्यन्ते रसास्तत्कथं स्थायिन एव भावा रसत्वमाप्नुअवन्ति । उच्यते यथा हि समानलक्षणास्तुल्यपाणिपादोदरशरीराः समानाङ्गप्रत्यङ्गा अपि पुरुषाः कुलशीलविद्याकर्मशिल्पविचक्षणत्वादराज त्वमाप्नुवन्ति तत्रैव चान्येऽल्पबुद्धयस्तेषामेवानुचरा भवन्ति तथा विभावानुभावव्यभिचारिणः स्थायिभावानुपाश्रिता भवन्ति । बह्वाश्रयत्वास्वामिभूताः स्थायिनो भावाः । तद्वत्स्थानीयपुरुषगुणभूता अन्ये भावास्तान्गुणतया श्रयन्ते । स्थायिभावा रसत्वमाप्नुवन्ति । परिजनभूता व्यभिचारिणो भावाः । अत्राह को दृष्टान्त इति । यथा नरेन्द्रो बहुजनपरिवारोऽपि स एव नाम लभते नान्यः सुमहानपि पुरुषः तथा विभावानुभावव्यभिचारिपरिवृतः स्थायी भावो रसनाम लभते । भवति चात्र श्लोकः यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । एवं हि सर्वभावानां भावः स्थायि महानिह ॥८॥
लक्षणं खलु पूर्वमभिहितमेषां रससंज्ञकानाम् । इदानीं भावसामान्यलक्षणमभिधास्यामः । तत्र स्थायिभावान्वक्ष्यामः रतिर्नाम प्रमोदात्मिका ऋतुमाल्यानुलेपनाभरणभोजनवरभवनानुभवना प्रातिकूल्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्स्मितवदनमधुरकथन भ्रूक्षेपकटाक्षादिभिरनुभावैः । अत्र श्लोकः इष्टार्थविषयप्राप्त्या रतिरित्युपजायते । सौम्यत्वादभिनेया सा वाङ्माधुर्याङ्गचेष्टितैः ॥९॥
हासो नाम परचेष्टानुकरणकुहकासम्बद्धप्रलापपौरोभाग्यमौर्ख्यादिभिर्विभावैः समुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः । भवति चात्र श्लोकः परचेष्टानुकरणाद्धासः समुपजायते ।  स्मितहासातिहसितैरभिनेयः स पण्डितैः ॥१०॥
शोको नाम इष्टजनवियोगविभवनाशवधबन्धदुःखानुभनवनादिभिर्विभावैः समुत्पद्यते। तस्यास्रपातपरिदेवितविलपितवैवर्ण्यस्वरभेदस्रस्तगात्रताभूमि पतनसस्वनरुदिताक्रन्दितदीर्घनिःश्वसितजडतोन्मादमोहमरणादिभिरनुभा वैरभिनयः प्रयोक्तव्यः । रुदितमत्र त्रिविधम् आनन्दजमार्तिजमीर्ष्यासमुद्भवं चेति । भवन्ति चात्रार्याः आनन्देऽप्यार्तिकृतं त्रिविधं रुदितं सदा बुधैर्ज्ञेयम् । तस्य त्वभिनययोगान्विभावगतितः प्रवक्ष्यामि ॥  हर्षोत्फुल्लकपोलं सानुस्मरणादपाङ्गविसृतास्रम् । रोमाञ्चगात्रमनिभृतमानन्दसमुद्भवं भवति ॥११॥
पर्याप्तविमुक्तास्रं सस्वनमस्वस्थगात्रगतिचेष्टम् । भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति ॥१२॥
प्रस्फुरितौष्ठकपोलं सशिरःकम्पं तथा सनिःश्वासम् । भ्रुकुटीकटाक्षकुटिलं स्त्रीणामीर्ष्याकृतं भवति ॥१३॥
स्त्रीनीचप्रकृतिष्वेष शोको व्यसनसम्भवः । धैर्येणोत्तममध्यानां नीचानां रुदितेन च ॥१४॥
क्रोधो नाम आधर्षणाक्रुष्टकलहविवादप्रतिकूलादिभिर्विभावैः समुत्पद्यते । अस्य विकृष्टनासापुटोद्वृत्तनयनसंदष्ठोष्ठपुट गण्डस्फुरणादिभिरनुभावैरभिनयः प्रयोक्तव्यः । रिपुजो गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः॥१५॥
अत्रार्या भवन्ति भृकुटीकुटिलोत्कटमुखः सन्दष्ठोष्ठः स्पृशन्करेण करम् । क्रुद्धः स्वभुजाप्रेक्षी शत्रौ निर्यन्त्रणं रुष्येत् ॥१६॥
किञ्चिदवाङ्ग्मुखदृष्टिः सास्रस्वेदापमार्जनपरश्च । अव्यक्तोल्बणचेष्टो गुरौ विनययन्त्रितो रुष्येत् ॥१७॥
अल्पप्रतरविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सभ्रुकुटिस्फुरितोष्ठः प्रणयोपगतां प्रिया रुष्येत् ॥१८॥
अथ परिजने तु रोषस्तर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरतारहितः ॥१९॥
कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥२०॥
उत्साहो नाम उत्तमप्रकृतिः। स चाविषादशक्तिधैर्यशौर्यादिभिर्विभावै रुत्पद्यते। तस्य धैर्यत्यागवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकः असम्मोहादिभिर्व्यक्तो व्यवसायनयात्मकः । उत्साहस्त्वभिनेयः स्यादप्रमादोत्थितादिभिः ॥२१॥
भयं नाम स्त्रीनीचप्रकृतिकम् । गुरुराजापराधश्वापदशून्यागाराटवीपर्वतगहनगजाहिदर्शननिर्भर्त्सन कान्तारदुर्दिननिशान्धकरोलूकनक्तञ्चरारावश्रवणादिभिर्विभावैः समुत्पद्यते । तस्य प्रकम्पितकरचरणहृदयकम्पनस्तम्भमुखशोषजिह्वापरिलेहन स्वेदवेपथुत्राससपरित्राणान्वेषणधावनोत्कृष्टादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्र श्लोकाः गुरुराजापराधेन रौद्राणां चापि दर्शनात् । श्रवणादपि घोराणां भयं मोहेन जायते ॥२२॥
गात्रकम्पनवित्रासैर्वक्त्रशोषणसम्भ्रमैः विस्फारितैक्षणैः कार्यमभिनेयक्रियागुणैः ॥२३॥
सत्त्ववित्रासनोद्भूतं भयमुत्पद्यते नृणाम् । स्रस्ताङ्गाक्षिनिमेषैस्तदभिनेयं तु नर्तकैः ॥२४॥
अत्रार्या भवति करचरणहृदयकम्पैर्मुखशोषणवदनलेहनस्तम्भैः । सम्भ्रान्तवदनवेपथुसंत्रासकृतैरभिनयोऽस्य ॥२५॥
जुगुप्सा नाम स्त्रीनीचप्रकृतिका । सा चाहृद्यदर्शनश्रवणादिभिर्विभावैः समुत्पद्यते । तस्याः सर्वाङ्गसङ्कोचनिष्ठीवनमुखविकूणनहृल्लेखादि भिरनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः नासाप्रच्छादनेनेह गात्रसङ्कोचनेन च । उद्वेजनैः सहृल्लेखैर्जुगुप्सामभिनिर्दिशेत् ॥२६॥
विस्मयो नाम मायेन्द्रजालमानुषकर्मातिशयचित्रपुस्तशिल्पविद्यातिशयादिभिर्विभावैः समुत्पद्यते । तस्य नयनविस्तारानिमेषप्रेक्षितभ्रूक्षेपरोमहर्षणशिरःकम्पसाधुवादादिभि रनुभावैरभिनयः प्रयोक्तव्यः । भवति चात्र श्लोकः कर्मातिशयनिर्वृत्तो विस्मयो हर्षसम्भवः । सिद्धिस्थाने त्वसौ साध्यः प्रहर्षपुलकादिभिः ॥२७॥
एवमेते स्थायिनो भावा रससंज्ञाः प्रत्यवगन्तव्याः । व्यभिचारिण इदानीं व्याख्यास्यामः । अत्राह व्यभिचारिण इति कस्मात् । उच्यते वि अभि इत्येतावुपसर्गौ । चर इति गत्यर्थो धातुः । विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः । वागङ्गसत्त्वोपेताः प्रयोगे रसान्नयन्तीति व्यभिचारिणः । अत्राह कथं नयन्तीति । उच्यते लोकसिद्धान्त एषः यथा सूर्य इदं दिनं नक्षत्रं वा नयतीति । न च तेन बाहुभ्यां स्कन्धेन वा नीयते । किं तु लोकप्रसिद्धमेतत् । यथेदं सूर्यो नक्षत्रं दिन वा नयतीति । एवमेते व्यभिचारिण इत्यवगन्तव्याः । तानिह सङ्ग्रहाभिहितांस्त्र यस्त्रिंशद्व्यभिचारिणो भावान् वर्णयिष्यामः । तत्र निर्वेदो नाम दारिद्र्यव्याध्यवमानाधिक्षेपाक्रुष्टक्रोधताडनेष्टजन वियोगतत्त्वज्ञानादिभिर्विभावैः समुत्पद्यते स्त्रीनीचकुसत्त्वानाम् । रुदितनिःश्वसितोच्छ्वसितसम्प्रधारणादिभिरनुभावैस्तमभिनयेत् । अत्र श्लोकः दारिद्र्येष्टवियोगाद्यैः निर्वेदो नाम जायते । सम्प्रधारणनिःश्वासैस्तस्य त्वभिनयो भवेत् ॥२८॥
अत्रानुवंश्ये आर्ये भवतः इष्टजनविप्रयोगाद्दारिद्र्याद्व्याधितस्तथा दुःखात् । ऋद्धिं परस्य दृष्ट्वा निर्वेदो नाम सम्भवति ॥२९॥
बाष्पपरिप्लुतनयनः पुनश्च निःश्वासनदीनमुखनेत्रः । योगीव ध्यानपरो भवति हि निर्वेदवान्पुरुषः ॥३०॥
ग्लानिर्नाम वान्तविरिक्तव्याधितपोनियमोपवासमनस्तापातिशयमदन सेवनातिव्यायामाध्वगमनक्षुत्पिपासानिद्राच्छेदादिभिर्विभावैः समुत्पद्यते । तस्याः क्षामवाक्यनयनकपोलोदरमन्दपदोत्क्षेपणवेपना नुत्साहतनुगात्रवैवर्ण्यस्वरभेदाभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः वान्तविरिक्तव्याधिषु तपसा जरसा च जायते ग्लानिः । कार्श्येन साभिनेया मन्दभ्रमणेन कम्पेन ॥३१॥
गदितैः क्षामक्षामैर्नेत्रविकारैश्च दीनसञ्चारैः । श्लथभावेनाङ्गानां मुहुर्मुहुर्निर्दिशेद् ग्लानिम् ॥३२॥
शङ्का नाम सन्देहात्मिका स्त्रीनीचप्रभवा । चौर्याभिग्रहण नृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते । तस्या मुहुर्मुहुरवलोकनावकुण्ठनमुखशोषणजिह्वालेहनमुखवैवर्ण्य स्वरभेदवेपथुशुष्कोष्ठकण्ठायाससाधर्म्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । चौर्यादिजनिता शङ्का प्रायः कार्या भयानके । प्रियव्यलीकजनिता तथा शृङ्गारिणी मता ॥३३॥
अत्राकारसंवरणमपि केचिदिच्छन्ति । तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् । अत्रार्ये भवतः द्विविधा शङ्का कार्याह्यात्मसमुत्था च परसमुत्था च । या तत्रात्मसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः ॥३४॥
किञ्चित्प्रवेपिताङ्गस्त्वधोमुखो वीक्षते च पार्श्वानि । गुरुसज्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः ॥३५॥
असूया नाम नानापराधद्वेषपरैश्वर्यसौभाग्यमेधाविद्यालीलादिभिर्विभावैः समुत्पद्यते । तस्याश्च परिषदि दोषप्रख्यापनगुणोपघातेर्ष्याचक्षुःप्रदा नाधोमुखभ्रुकुटीक्रियावज्ञानकुत्सनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः परसौभाग्येश्वरतामेधालीलासमुच्छ्रयान्दृष्ट्वा । उत्पद्यते ह्यसूया कृतापराधो भवेद्यश्च ॥३६॥
भ्रुकुटिकुटिलोत्कटमुखैः सेर्ष्याक्रोधपरिवृत्तनेत्रैश्च । गुणनाशनविद्वेषैस्तत्राभिनयः प्रयोक्तव्यः ॥३७॥
मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः पञ्चविभावश्च । अत्रार्या भवन्ति ज्ञेयस्तु मदस्त्रिविधस्तरुणो मध्यस्तथावकृष्टश्च । करणं पञ्चविधं स्यात्तस्याभिनयः प्रयोक्तव्यः ॥३८॥
कश्चिन्मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित् । परुषवचनाभिधायी कश्चित्कश्चित्तथा स्वपिति ॥३९॥
उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः । परुषवचनाभिधायी रोदत्यपि चाधमप्रकृतिः ॥४०॥
स्मितवचनमधुररागो हृष्टतनुः किञ्चिदाकुलितवाक्यः । सुकुमाराविद्धगतिस्तरुणमदस्तूत्तमप्रकृतिः ॥४१॥
स्खलिताघूर्णितनयनः स्रस्तव्याकुलितबाहुविक्षेपः । कुटिलव्याविद्धगतिर्मध्यमदो मध्यमप्रकृतिः ॥४२॥
नष्टस्मृतिर्हतगतिश्छर्दितहिक्काकफैः सुबीभत्सः । गुरुसज्जमानजिह्वो निष्ठीवति चाधमप्रकृतिः ॥४३॥
रङ्गे पिबतः कार्या मदवृद्धिर्नाट्ययोगमासाद्य । कार्यो मदक्षयो वै यः खलु पीत्वा प्रविष्टः स्यात् ॥४४॥
सन्त्रासाच्छोकाद्वा भयात्प्रहर्षाच्च कारणोपगतात् । उत्क्रम्यापि हि कार्यो मदप्रणाशः क्रमात्तज्ज्ञैः ॥४५॥
एभिर्भावविशेषैर्मदो द्रुतं सम्प्रणाशमुपयाति । अभ्युदयसुखैर्वाक्यैर्यथैव शोकः क्षयं याति ॥४६॥
श्रमो नाम अध्वव्यायामसेवनादिभिर्विभावैः समुत्पद्यते। तस्य गात्रपरिमर्दनसंवाहननिःश्वसितविजृम्भितमन्दपदोत्क्षेपणनयन वदनविकूणनसीत्करादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या नृत्ताध्वव्यायामान्नरस्य सञ्जायते श्रमो नाम । निःश्वासखेदगमनैस्तस्याभिनयः प्रयोक्तव्यः ॥४७॥
आलस्यं नाम खेदव्याधिगर्भस्वभावश्रमसौहित्यादिभिर्विभावैः समुत्पद्यते स्त्रीनीचानाम् । तदभिनयेत्सर्वकर्मानभिलाषशयना सननिद्रातन्द्रीसेवनादिभिरनुभावैः । अत्रार्या आलस्यं त्वभिनेयं खेदापगतं स्वभावजं चापि । आहारवर्जितानामारम्भाणामनारम्भात् ॥४८॥
दैन्यं नाम दौर्गत्यमनस्तापादिभिर्विभावैः समुत्पद्यते । तस्याधृतिशिरोरोगगात्रगौरवान्यमनस्कतामृजापरिवर्जना दिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या चिन्तौत्सुक्यसमुत्था दुःखाद्या भवति दीनतां पुंसाम् । सर्वमृजापरिहारैर्विविधोऽभिनयो भवेत्तस्य ॥४९॥
चिन्ता नाम ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैरुत्पद्यते । तामभिनयेन्निःश्वसितोच्छ्वसितसन्तापध्यानाधोमुखचिन्तन तनुकार्श्यादिभिरनुभावैः । अत्रार्ये भवतः ऐश्वर्यभ्रंशेष्टद्रव्यक्षयजा बहुप्रकारा तु । हृदयवितर्कोपगता नॄणां चिन्ता समुद्भवति ॥५०॥
सोच्छ्वासैर्निःश्वसितैः सन्तापैश्चैव हृदयशून्यतया । अभिनेतव्या चिन्ता मृजाविहीनैरधृत्या च ॥५१॥
मोहो नाम दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरा नुस्मरणादिभिर्विभावैः समुत्पद्यते । तस्य निश्चैतन्यभ्रमण पतनाघूर्णनादर्शनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोकस्तावदार्या च अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैरपि । तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥५२॥
व्यसनाभिघातभयपूर्ववैरसंस्मरणरोगजो मोहः । सर्वेन्द्रियसम्मोहात्तस्याभिनयः प्रयोक्तव्यः ॥५३॥
स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् । सा च स्वास्थ्यजघन्यरात्रिनिद्राच्छेदसमानदर्शनोदाहरण चिन्ताभ्यासादिभिर्विभावैः समुत्पद्यते । तामभिनये च्छिरःकम्पनावलोकनभ्रूसमुन्नमनादिभिरनुभावैः । अत्रार्ये भवतः सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् । चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ ॥५४॥
स्वास्थ्याभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिर्निपुणैः । शिर उद्वाहनकम्पैर्भूक्षेपैश्चाभिनेतव्या ॥५५॥
धृतिर्नाम शौर्यविज्ञानश्रुतिविभवशौचाचारगुरुभक्त्यधिक मनोरथार्थलाभक्रीडादिभिर्विभावैः समुत्पद्यते । तामभिनयेत्प्रा प्तानां विषयाणामुपभोगादप्राप्तातीतोपहृतविनष्टानामनु शोचनादिभिरनुभावैः । अत्रार्ये भवतः विज्ञानशौचविभवश्रुतिशक्तिसमुद्भवा धृतिः सद्भिः । भयशोकविषदाद्यै रहिता तु सदा प्रयोक्तव्या ॥५६॥
प्राप्तानामुपभोगः शब्दरसस्पर्शरूपगन्धानाम् । अप्राप्तैश्च न शोको यस्यां हि भवेद् धृतिः सा तु ॥५७॥
व्रीडा नाम अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणावज्ञान प्रतिज्ञातानिर्वहनपश्चात्तापादिभिर्विभावैः समुत्पद्यते । तां निगूढवदनाधोमुखविचिन्तनोर्वीलेखनवस्त्राङ्गुलीयकस्पर्श नखनिकृन्तनादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः किञ्चिदकार्यं कुर्वन्नेवं यो दृश्यते शुचिभिरन्यैः । पश्चात्तापेन युतो व्रीडित इति वेदितव्योऽसौ ॥५८॥
लज्जानिगूढवदनो भूमिं विलिखन्नखांश्च विनिकृन्तन् । वस्त्राङ्गुलीयकानां संस्पर्शं व्रीडितः कुर्यात् ॥५९॥
चपलता नाम रागद्वेषमात्सर्यामर्षाप्रतिकूल्यादिभिर्विभावैः समुत्पद्यते । तस्याश्च वाक्पारुष्यनिर्भर्त्सनवधबन्धसम्प्रहार ताडनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्या भवति अविमृश्य तु यः कार्यं पुरुषो वधताडनं समारभते । अविनिश्चितकारित्वात्स तु खलु चपलो बुधैर्ज्ञेयः ॥६०॥
हर्षो नाम मनोरथलाभेष्टजनसमागमनमनःपरितोषदेव गुरुराजभर्तृप्रसादभोजनाच्छादनलाभोपभोगादिभिर्विभावैः समुत्पद्यते । तमभिनयेन्नयनवदनप्रसादप्रियभाषणालिङ्गन कण्टकितपुलकितास्रस्वेदादिभिरनुभावैः । अत्रार्ये भवतः अप्राप्ये प्राप्ये वा लब्धेऽर्थे प्रियसमागमे वाऽपि । हृदयमनोरथलाभे हर्षः सञ्जायते पुंसाम् ॥६१॥
नयनवदनप्रियभाषालिङ्गनैश्च रोमाञ्चैः । ललितैश्चाङ्गविहारैः स्वेदाद्यैरभिनयस्तस्य ॥६२॥
आवेगो नाम उत्पातवातवर्षाकुञ्जरोद्भ्रमणप्रियाप्रियश्रवण व्यसनाभिघातादिर्विभावैः समुत्पद्यते । तत्रोत्पातकृतो नाम विद्युदुल्कानिर्घातप्रपतनचन्द्रसूर्योपरागकेतुदर्शनकृतः । तमभिनयेत्सर्वाङ्गस्रस्ततावैमनस्यमुखवैवर्ण्यविषाद विस्मयादिभिः । वातकृतं पुनरवकुण्ठनाक्षिपरिमार्जनवस्त्र सङ्गूहनत्वरितगमनादिभिः । वर्षकृतं पुनः सर्वाङ्ग सम्पिण्डनप्रधावनच्छन्नाश्रयमार्गणादिभिः । अग्निकृतं तु धूमाकुलनेत्रताऽङ्गसङ्कोचनविधूननातिक्रान्तापक्रान्तादिभिः । कुञ्जरोद्भ्रमणकृतं नाम त्वरितापसर्पणचञ्चलगमन भयस्तम्भवेपथुपश्चादवलोकनविस्मयादिभिः । प्रियश्रवण कृतं नामाभ्युत्थानालिङ्गनवस्त्राभरणप्रदानाश्रुपुलकितादिभिः । अप्रियश्रवणकृतं नाम भूमिपतनविषमविवर्तनपरिधावन विलापनाक्रन्दनादिभिः । व्यसनाभिघातजं तु सहसापसर्पण शस्त्रचर्मवर्मधारणगजतुरगरथारोहणसम्प्रधारणादिभिः । एवमष्टविकल्पोऽयमावेगः सम्भ्रमात्मकः । स्थेर्येणोत्तममध्यानां नीचानां चापसर्पणैः ॥६३॥
अत्रार्ये भवतः अप्रियनिवेदनाद्वा सहसा ह्यवधारितारिवचनस्य । शस्त्रक्षेपात् त्रासादावेगो नाम सम्भवति ॥६४॥
अप्रियनिवेदनाद्यो विषादभावाश्रयोऽनुभावस्य । सहसारिदर्शनाच्चेत्पहरणपरिघट्टनैः कार्यः ॥६५॥
जडतानाम सर्वकार्याप्रतिपत्तिः । इष्टानिष्टश्रवणदर्शन व्याध्यादिभिर्विभावैः समुत्पद्यते । तामभिनयेदकथनाविभाषण तूष्णीम्भावाप्रतिभाऽनिमेषनिरीक्षणपरवशत्वादिभिरनुभावैः । अत्रार्या भवति इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगो भवति स जडसंज्ञितः पुरुषः ॥६६॥
गर्वो नाम ऐश्वर्यकुलरूपयौवनविद्याबलधनलाभादिभिर्विभावैः समुत्पद्यते । तस्यासूयावज्ञाघर्षणानुत्तरदानासम्भाषणा ङ्गावलोकन विभ्रमापहसनवाक्पारुष्यगुरुव्यतिक्रमणाधि क्षेपवचनविच्छेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः ।  अत्रार्या भवति विद्यावाप्ते रूपादैश्वर्यादथ धनागमाद्वापि । गर्वः खलु नीचानां दृष्ट्यङ्गविचारणैः कार्यः ॥६७॥
विषादो नाम कार्यानिस्तरणदैवव्यापत्तिसमुत्थः । तमभिनयेत्सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्य निःश्वसितादिभिरनुभावैरुत्तममध्यमानाम् । अधमानां तु विपरिधावनालोकनमुखशोषणसृक्वपरिलेहननिद्रा निःश्वसितध्यानादिभिरनुभावैः । अत्रार्या श्लोकौ कार्यानिस्तरणाद्वा चौर्याभिग्रहणराजदोषाद्वा । दैवादर्थविपत्तेर्भवति विषादः सदा पुंसाम् ॥६८॥
वैचित्र्योपायचिन्ताभ्यां कार्य उत्तममध्ययोः । निद्रानिःश्वसितध्यानैरधमानां तु योजयेत् ॥६९॥
औत्सुक्यं नाम इष्टजनवियोगानुस्मरणोद्यानदर्शना दिभिर्विभावैः समुत्पद्यते । तस्य दीर्घनिःश्वसिताधोमुख विचिन्तननिद्रातन्द्रीशयनाभिलाषादिभिरनुभवैरभिनयः प्रयोक्तव्यः । अत्रार्या भवति इष्टजनस्य वियोगादौत्सुक्यं जायते ह्यनुस्मृत्या । चिन्तानिद्रातन्द्रीगात्रगुरुत्वैरभिनयोऽस्य ॥७०॥
निद्रा नाम दौर्बल्यश्रमक्लममदालस्यचिन्ताऽत्याहार स्वभावादिभिर्विभावैः समुत्पद्यते । तामभिनयेद्वदन गौरवशरीरावलोकननेत्रघूरणनगात्रविजृम्भन मान्द्योच्छ्वसितसन्नगात्रताऽक्षिनिमीलनादिभिरनुभावैः । अत्रार्ये भवतः आलस्याद्दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च । रात्रौ जागरणादपि निद्रा पुरुषस्य सम्भवति ॥७१॥
तां मुखगौरवगात्रप्रतिलोलननयनमीलनजडत्वैः । जृम्भणगात्रविमर्दैरनुभावैरभिनयेत्प्राज्ञः॥७२॥
अपस्मारो नाम देवयक्षनागब्रह्मराक्षसभूतप्रेतपिशाच ग्रहणानुस्मरनोच्छिष्टशून्यागारसेवनाशुचि कालान्तरापरिपतनव्याद्यादिभिर्विभावैः समुत्पद्यते । तस्य स्फुरितनिःश्वसितोत्कम्पितधावनपतनस्वेद स्तम्भवदनफेनजिह्वापरिलेहनादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्रार्ये भवतः । भूतपिशाचग्रहणानुस्मरणोच्छिष्टशून्यगृहगमनाअत् । कालान्तरातिपातादशुचेश्चभवत्यपस्मारः ॥७३॥
सहसा भूमौ पतनं प्रवेपनं वदनफेनमोक्षश्च । निःसंज्ञस्योत्थानं रूपाण्येतान्यपस्मारे ॥७४॥
सुप्तं नाम निद्राभिभवविषयोपगमनक्षितितलशयन प्रसारणानुकर्षणादिभिर्विभावैः समुत्पद्यते निद्रासमुत्थम् । तदुच्छ्वसितंसन्नगात्राक्षिनिमीलन सर्वेन्द्रिय सम्मोहनोत्स्वप्नायितादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः । निद्राभिभवेन्द्रियोपरमणमोहाइर्हवेत्सुप्तम् । अक्षिनिमीलनोच्छ्वसनैः स्वप्नायितजल्पितैः कार्यः ॥७५॥
सोच्छ्वासैर्निःश्वासैर्मन्दाक्षिनिमीलनेन निश्चेष्टः । सर्वेन्द्रियसम्मोहात्सुप्तं स्वप्नैश्च युञ्जीत ॥७६॥
विबोधो नाम आहारपरिणामनिद्राच्छेदस्वप्नान्त । तीव्रशब्दश्रवणादिभिर्विभावैः समुत्पद्यते । तमभिनयेज्जृम्भणाक्षिपरिमर्दनशयनमोक्षणादिभिरनुभावैः । अत्रार्या भवति । आहारविपरिणामाच्छब्दस्पर्शादिभिश्च सम्भूतः । प्रतिबोधस्त्वभिनेयो जृम्भणवदनाक्षिपरिमर्दैः ॥७७॥
अमर्षो नाम विद्यैश्वर्यशौर्यबलाधिकैरधिक्षिप्तस्यावमानितस्य वा समुत्पद्यते । तमभिनयेच्छिरःकम्पनप्रस्वेदनाधोमुखचिन्तन ध्यानाध्यवसायोपायसहायान्वेषणादिभिरनुभावैः । अत्र श्लोकौ । आक्षिप्तानां सभामध्ये विद्याशौर्यबलाधिकैः । नॄणामुत्साहसंयोगादमर्षो नाम जायते ॥७८॥
उत्साहाध्यवसायाभ्यामधोमुखविचिन्तनैः । शिरःप्रकम्पस्वेदाद्यैस्तं प्रयुञ्जीत पण्डितः ॥७९॥
अवहित्थं नाम आकारप्रच्छादनात्मकम् । तच्च लजाभयापजय । गौरवजैह्मयादिभिर्विभाविः समुत्पद्यते । तस्यान्यथाकथनावलोकित कथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः । अत्र श्लोको भवति धार्ष्ट्यजैह्म्यादिसम्भीतमवहित्थं भयत्मकम् । तच्चागणनया कार्यं नातीवोत्तरभाषणात् ॥८०॥
उग्रता आम चौर्याभिग्रहाणनृपापराधासत्प्रलापादिभिर्विभावैः समुत्पद्यते । तां च वधबन्धनताडननिर्भत्सनादिभिरनुभावैरभिनयेत् । अत्रार्या भवति चौर्याभिग्रहनवशान्नृपापराधादथोग्रता भव्ति । वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः ॥८१॥
भवति चात्र श्लोकः नानाशात्रार्थबोधेन मतिः संजायते नृणाम् । शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् ॥८२॥
व्याधिर्नाम वातपित्तकफसन्निपातप्रभवः । तस्य ज्वरादयो विशेषाः । ज्वरस्तु द्विविधः सशीतः सदाहश्च । तत्र सशीतो नाम प्रवेपितसर्वाङ्गोप्कम्पननिकुञ्चना ग्न्यभिलाषरोमाञ्चहनुवलननासाविकूननमुख शोषणपरिदेवितादिभिरनुभावैरभिनेयः । सदाहो नाम विक्षिप्ताङ्गकरचरणभूम्यभिलाषानुलेपनशीताभि लाषपरिदेवनमुखशोषोत्क्रुष्टादिभिरनुभावैः । ये चान्ये व्याधयस्तेऽपि खलु मुखविकूणनगात्र स्तम्भस्रस्ताक्षिनिःश्वसनस्तनितोत्क्रुष्टवेपना दिभिरनुभावैरभिनेयाः । अत्र श्लोको भवति समासतस्तु व्याधीनां कर्तव्योऽभिनयो बुधैः । स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूणनैः ॥८३॥
उन्मादो नाम इष्टजनवियोगविभवनाशाभिघात वातपित्तश्लेष्मप्रकोपादिभिर्विभावैरुत्पद्यते । तमनिमित्तहसितरुदितोत्क्रुष्टासम्बद्धप्रलापशयितोपविष्टोत्थित प्रधावितनृत्तगीतपठितभस्मपांस्ववधूलनतृणनिर्माल्यकुचेल चीरघटककपालशरावाभरणधारणोपभोगैरनेकैश्चानवस्थितैश्चेष्टा नुकरणादिभिरनुभावैरभिनयेत् । अत्रार्ये भवतः । इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् । विविधाच्चित्तविकारादुन्मादो नाम सम्भवति ॥८४॥
अनिमित्तरुदितहसितोपविष्टगीतप्रधावितोत्क्रुष्टैः । अन्यैश्च विकारैरकृतैरुन्मादं सम्प्रयुञ्जीत ॥८५॥
मरणं नाम व्याधिजमभिघातजञ्च । तत्र यदान्त्रयकृच्छूलदोषवैषम्य गण्डपिटकज्वरविषूचिकादिभिरुत्पद्यते तद्व्याधिप्रभवम् । अभिघातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथपशुयानपात विनाशप्रभवम् । एतयोरभिनयविशेषान्वक्ष्यामः तत्र व्याधिजं विषण्णगाअत्राव्यायताङ्गविचेष्टितनिमीलितनयन हिक्काश्वासोपेतानवेक्षितपरिजनाव्यक्ताक्षरकथनादिभिरनुभावैरभिनयेत् । अत्र श्लोको भवति । व्याधीनामेकभावो हि मरणाभिनयः स्मृतः । विषण्णगात्रैर्निश्चेष्टैरिन्द्रिअयैश्च विवर्जितः ॥८६॥
अभिघातजे तु नानाप्रकाराअभिनयविशेषाः। शस्त्रक्षताहिदष्टविषपीत गजादिपतितश्वापदहताः । यथा तत्र शस्त्रक्षते तावत्सहसा भूमिपतनवेपन स्फुरणादिभिरभिनयः प्रयोक्तव्यः । अहिदष्टविषपीतयोर्विषयोगो यथा कार्श्यवेपथुविदाहहिक्काफेनस्कन्धभङ्गजडतामरणानीत्यष्टौ विषवेगाः । अत्र श्लोकौ भवतः । कार्श्यं तु प्रथमे वेगे द्वितीये वेपथुर्भवेत् । दाहं तृतीये हिक्कां च चतुर्थे सम्प्रयोजयेत् ॥८७॥
फेनञ्च पञ्चमे कुर्यात्षष्ठे स्कन्धस्य भञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं भवेत् ॥८८॥
अत्रार्या भवति । श्वापदगजतुरगरथोद्भवं तु पशुयानपतनजं वाऽपि । शास्त्रक्षतवत्कुर्यादनवेक्षितगात्रसञ्चारम् ॥८९॥
इत्येव मरणं ज्ञेयं नानावस्थान्तरात्मकम् । प्रयोक्तव्यं बुधैः सम्यग्यथा भवाङ्गचेष्टितैः ॥९०॥
त्रासो नाम विद्युदुल्काशनिपातनिर्घाताम्बुधरमहासत्त्वपशु  रवादिभिर्विभावैरुत्पद्यते । तमभिनयेत्संक्षिप्ताङ्गोत्कम्पनवेपथु स्तम्भरोमाञ्चगद्गदप्रलापादिभिरनुभावैः । अत्र श्लोको भवति । महाभैरवनादद्यैस्त्रासः समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥९१॥
वितर्को नाम सन्देहविमर्शविप्रतिपत्त्यादिभिर्विभावैरुत्पद्यते । तमभिन येद्विविधविचारितप्रश्नसम्प्रधारणमन्त्रसङ्गूहनादिभिरनुभावैः । अत्र श्लोको भवति । विचारणादिसम्भूतः सन्देहातिशयात्मकः । वितर्कः सोऽभिनेयस्तु शिरोभ्रूक्षेपकम्पनैः ॥९२॥
एवमेते त्रयस्त्रिंशद्व्यभिचारिणो भावा देशकालावस्था । नुरूप्येणामगतपरगतमध्यस्था उत्तममध्यमाधमैः स्त्रीपुंसैः स्वप्रयोगवशादुपपाद्या इति । त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः । सात्त्विकांस्तु पुनर्भावान्प्रवक्ष्याम्यनुपूर्वशः ॥९३॥
अत्राह किमन्ये भावाः सत्त्वेन विनाऽभिनीयन्ते यस्मादुच्यते एते सात्त्विका इति । अत्रोच्यते । इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुच्यते । मनसः समाधौ सत्त्वनिष्पत्तिर्भवति । तस्य च योऽसौ स्वभावो रोमाञ्चाश्रुवैवर्ण्यादिलक्षणो यथाभावोपगतः स न शक्योऽन्यमनसा कर्तुमिति । लोकस्वभावानुकरणत्वाच्च नाट्यस्य सत्त्वमीप्सितम् । को दृष्टान्तः इह हि नाट्याधर्मिप्रवृत्ताः सुखदुःखकृता भावास्तथा सत्त्वविशुद्धाः कार्या यथा सरूपा भवन्ति । तत्र दुःखं नाम रोदनात्मकं तत्कथमदुःखितेन सुखं च प्रहर्षात्मकमसुखितेन वाभिनेयम् । एतदेवास्य सत्त्वं यत् दुःखितेन सुखितेन वाऽश्रुरोमाञ्चौ दर्शियितव्यौ । इति कृत्वा सात्त्विका भावा इत्यभिव्याख्याताः । त इमे । स्तम्भः स्वेदोऽथ रोमाअञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥९४॥
अत्रार्याः । तत्र ।क्रोधभयहर्षलजादुःखश्रमरोगतापघातेभ्यः । व्यायामक्लमधर्मैः स्वेदः सम्पीडनाच्चैव ॥९५॥
हर्षभयशोकविस्मयविषादरोषादिसम्भवः स्तम्भः । शीतभयहर्षरोषस्पर्शजरारोगजः कम्पः ॥९६॥
आनन्दामर्षाभ्यां धूमाञ्जनजृम्भणाद्भयाच्छोकात् । अनिमेषप्रेक्षणतः शीताद्रोगाद्भवेदश्रु ॥९७॥
शीतक्रोधभयश्रमरोगक्लमतापजं च वैवर्ण्यम् । स्पर्शभयशीतहर्षात् क्रोधाद्रोगाच्च रोमाञ्चः ॥९८॥
स्वरभेदो भयहर्षक्रोधजरारौक्ष्यरोगमदजनितः । श्रममूर्छमदनिद्राभिघातमोहादिभिः प्रलयः ॥९९॥
एवमेते बुधैर्ज्ञेया भावा ह्यष्टौ तु सात्त्विकाः । कर्म चैषां प्रवक्ष्यामि रसभावानुभावकम् ॥१००॥
निःसंज्ञो निष्प्रकम्पश्च स्थितः शून्यजडाकृतिः । स्कन्नगात्रतया चैव स्तम्भं त्वभिनयेद्बुधः ॥१०१॥
व्यजनग्रहणाच्चापि स्वेदापनयनेन च । स्वेदस्याभिनयो योज्यस्तथा वाताभिलाषतः ॥१०२॥
मुहुः कण्टिकितत्वेन तथोल्लुकसनेन च । पुलकेन च रोमाञ्चं गात्रस्पर्शेन दर्शयेत् ॥१०३॥
स्वरभेदोऽभिनेतव्यो भिन्नगद्गदनिस्वनैः । वेपनात्स्फुरणात्कम्पाद्वेपथुं सम्प्रदर्शयेत् ॥१०४॥
मुखवर्णपरावृत्त्या नाडीपीडनयोगतः । वैवर्ण्यमभिनेतव्यं प्रयत्नात्तद्धि दुष्करम् ॥१०५॥
बाष्पाम्बुप्लुतनेत्रत्वान्नेत्रसंमार्जनेन च । मुहुरश्रुकणापातैरस्रं त्वभिनयेद्बुधः ॥१०६॥
निश्चेष्टो निष्प्रकम्पत्वादव्यक्तश्वसितादपि । महीनिपतनाच्चापि प्रलयाभिनयो भवेत् ॥१०७॥
एकोनपञ्चाशदिमे यथावद्भावास्त्र्यवस्था गदिता मयेह । भूयश्च ये यत्र रसे नियोज्यास्तान् श्रोतुमर्हन्ति च विप्रमुख्याः ॥१०८॥
अत्र श्लोकाः । शङ्काव्याधिस्तथाग्लानिश्चिन्तासूया भयं तथा । विस्मयश्च वितर्कश्च स्तम्भश्चपलता तथा ॥ रोमाञ्चहर्षौ निद्रा च तथोन्मादमदावपि । स्वेदश्चैवावहित्थं च प्रलयो वेपथुस्तथा ॥ विषादश्रमनिर्वेदा गर्वावेगौ धृतिः स्मृतिः । मतिर्मोहो विबोधश्च सुप्तमौत्सुक्यवर्जिते ॥ क्रोधामर्षौ च हासश्च शोकोऽपस्मार एव च । दैन्यं च मरणं चैव रतिरुत्साहसंयुता ॥ त्रासवैवर्ण्यरुदितैः स्वरभेदः शमोऽपि च । जडता च तथा षट् च चत्वारिंशत्प्रकीर्तिताः ॥ आलस्यौग्र्यजुगुप्साख्यैरेवं भावैस्तु वर्जिताः । उद्भावयन्ति शृङ्गारं सर्वे भावाः स्वसंज्ञया ॥१०९॥
यथाऽवसरमेते हि स्थायिसञ्चारिसत्त्वजाः । उद्दीपयन्ति शृङ्गारं रसमासाद्य संज्ञितम् ॥ ग्लानिः शङ्का ह्यसूया च श्रमश्चपलता तथा । सुप्तं निद्रावहित्थं च हास्ये भावाः प्रकीर्तिताः ॥११०॥
निर्वेदश्चैव चिन्ता च दैन्यं ग्लान्यास्रमेव च । जडता मरणं चैव व्याधिश्च करुणे स्मृताः ॥१११॥
गर्वोऽसूया मदोत्साहावावेगोऽमर्ष एव च । क्रोधश्चपलतौग्र्यं च विज्ञेया रौद्रसम्भवाः ॥११२॥
असम्मोहस्तथोत्साह आवेगो हर्ष एव च । मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥११३॥
रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा । गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति हि ॥११४॥
स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा । त्रासश्च मरणश्चैअव वैवर्ण्यं च भयानके ॥११५॥
अपस्मारस्तथोन्मादो विषादो मद एव च । मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥११६॥
स्तम्भः स्वेदश्च मोहश्च रोमाञ्चो विस्मयस्तथा । आवेगो जडता हर्षो मूर्छा चैवाद्भुताश्रयाः ॥११७॥
ये त्वेते सात्त्विका भावा नानाभिनयसंश्रिताः । रसेष्वेतेषु सर्वे ते ज्ञेया नाट्यप्रयोक्तृभिः ॥११८॥
न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥११९॥
बहूनां समवेतानां रूपं यस्य भवेद्बहु । स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः ॥ दीपयन्तः प्रवर्तन्ते ये पुनः स्थायिनं रसम् । ते तु सञ्चारिणो ज्ञेयास्ते हि स्थायित्वमागताः ॥ विभावानुभावयुतो ह्यङ्गवस्तुसमाश्रयः । संचारिभिस्तु संयुक्तः स्थाय्येव तु रसो भवेत् ॥ स्थायी सत्त्वातिरेकेण प्रयोक्तव्यः प्रयोक्तृभिः । सञ्चार्याकारमात्रेण स्थायी यस्मादवस्थितः ॥ ये त्वेते सात्त्विका भावा नानाभिनययोजिताः । रसेष्वेतेषु सर्वेषु ते ज्ञेया नाट्यकोविदैः ॥ न ह्येकरसजं काव्यं नैकभावैकवृत्तिकम् । विमर्दे रागमायाति प्रयुक्तं हि प्रयत्नतः ॥ भावा वाऽपि रसा वाऽपि प्रवृत्तिर्वृत्तिरेव वा । बीभत्साद्भुतशान्तानां त्रैविध्यं नात्र कथ्यते ॥ षण्णां रसानां त्रैविध्यं नानाभावारसान्वितम् । सत्त्वप्रयोजितो ह्यर्थः प्रयोगोऽत्र विराजते ॥ विदित्वा हि विराजन्ते लोके चित्रं हि दुर्लभम् ॥ नानाभावार्थसंपन्नाः स्थायिसत्त्वाभिचारिणः । पुष्पावकीर्णाः कर्तव्याः काव्येषु हि रसा बुधैः ॥१२०॥
एवं रसाश्च भावाश्च व्यवस्था नाटके स्मृताः । य एवमेताञ्जानाति स गच्छेत्सिद्धिमुत्तमाम् ॥१२१॥
इति श्रीभारतीये नाट्यशास्त्रे भावव्यञ्जको नाम सप्तमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP