अथातः श्रृणु विपेन्द्र दुर्गाणां करणं तथा । येन विज्ञातमात्रेण अबलः सबलो भवेत ॥१॥
यस्याश्रयबलादेव राज्यं कुर्वन्ति भूतले । विग्रहं चैव राज्ञां तु सामान्यैः शत्रुभिस्सह ॥२॥
विषमं दुर्गमं घोरं वक्रं भीरुं भयावहम । कपिशीर्षसमं चैव रौद्रा दलकमन्दिरम ॥३॥
स्थानं विचित्यं विषमं तत्र दुर्ग प्रकल्पयेत । प्रथमं मृन्मयं प्रोक्तं जलकोटं द्वितीयकम ॥४॥
तृतीयं ग्रामकोटं च चतुर्थं गिरिगह्वरम । पञ्चमं पर्वतारोहं षष्ठं कोटं च डामरम ॥५॥
सप्तमं वक्रभूमिस्थं विषमाख्यं तथाष्टमम । चतुरस्त्रं चतुर्द्वारं वर्तुलं तथैव च ॥६॥
दीर्घद्वारद्वयाक्रांतं त्रिकोणमेकमार्गकम । वृत्तदीर्घ चतुर्द्वारमर्धचन्द्रं तथैव च ॥७॥
गोस्तनं च चतुर्द्वारं धानुषं मार्गकण्टकम । पद्मपत्रनिभं चैव च्छत्राकारं तथैव च ॥८॥
दशप्रकाराणि मय प्रोक्तानि द्विजपुंगव । मृन्मये खननाद्भीतिं जलस्थे मोक्षबन्धनात ॥९॥
ग्रामदुर्गेऽग्निदाहाश्च प्रवेशाद्गह्वरहस्य च । पर्वते स्थानभेदाच्च डामरे भबलाद्भयम ॥१०॥
वक्राख्ये तु वियोगाच्च विषमे स्थायिनां तथा । बलाबलाद्यमपदं पुनरन्यत प्रवच्म्यहम ॥११॥
अतिदुर्ग कालवर्ण चक्रावर्त च डिंबरम । नालावर्त च पद्माक्षं पक्षभेदं च सर्वतः ॥१२॥
कारयेत्प्रथमं राजा पश्चाद्दुर्ग समाचरेत । प्राकारे विन्यसेदादौ बाह्यस्थान पूजयेत्ततः ॥१३॥
परिखाश्च ततः कृत्वा तन्मध्ये च ततः पुनः । सव्यापसव्यमार्गेन मार्ग तस्य प्रकल्पयेत ॥१४॥
गृहाणि बाह्यसंस्थान कोणे कोणेषु विन्यसेत । कोणस्थान बाह्यतो गेहान विषमान कारयेत्ततः ॥१५॥
प्रतोलिं पत्रकालाख्यां परिखाकालरुपिणिम । यंत्रं रमणिकं कुर्याच्छकलीयन्त्रमंडितम ॥१६॥
मशलैर्मुद्गरैः प्रासैर्यन्त्रैः खंगैर्धतुर्धरैः । संयुतं सुभटैः शूरैः संयुतानि च कारयेत ॥१७॥
तन्मोक्षोऽन्त्रपुरानोहान्कोणेकोणे प्रदापयेत । तद्वाह्ये परिखाकारा कालरुपा सुविस्तरा ॥१८॥
समे प्रदेशे मध्ये तु महागेहानि विन्यसेत । तत्र सपूजयेद्वास्तुं कोटपालं तथैव च ॥१९॥
क्षेत्रपालं च विधित्पूर्ववत्तं प्रपूजयेत । एताद्विधानं सर्वेषु दुर्गेषु च विधानतः ॥२०॥