विषमं घृष्टिनयनं वैवर्ण्य मध्यदीर्घकम । वामावर्त्ते च भिन्नं च यथावद्वत्सनाभकम ॥८१॥
कोलकं कृष्णवर्ण च बन्धुकं यद्भवेद्विधा । दारं सवर्णच्छिद्रं च तथा पापं प्रकीर्तितम ॥८२॥
निष्कुटे द्र्व्यनाशः स्यात्कोलाख्ये कुलनाशनम । शस्त्राद्भयं शूकरे च वत्सनाभं गदप्रदम ॥८३॥
कालबन्धूकसज्ञश्च कीटैर्वर्धनशोभनम । सर्वग्रन्थियुतं यच्च दारु सर्वत्र नो शुभम ॥८४॥
एकद्रुमेण धान्यं स्यादवृक्षद्वयविनिर्मितम । धन्यं त्रिभिश्च पुत्राणां वृद्धिदं परिकीर्तितम ॥८५॥
अर्थ यशश्चतुर्भिश्च पञ्चत्व पञ्चभिः स्मृतम । षटसप्तरचिते काष्ठे कुलनाशो भवेद्ध्रुवम ॥८६॥
शिरो मूलं च वृक्षाणामग्रे पादाः प्रकीर्तिताः । अनारण्ये चन्दने तु यतो मूलं ततः शिरः ॥८७॥
इति प्रोक्तं मया विप्रां: शयनासनलक्षणम । भंगे च दोषाः कथिताः स्वामिना सहितेन च ॥८८॥
पादभंगे मूलनाशमरणौ धनसंक्षयः । शीर्षे तु मरणं विद्यात्पादे हानिर्महान्भवेत ॥८९॥
घण्टाकारं लिखेच्चक्रं रविधिष्ण्यक्रमेण च । शुद्धे शुभे दिने चैव कृत्वा तां निशी विन्यसेत ॥९०॥
शयीत दक्षिणे गेहे सुस्वप्नं शुभदं भवेत । मुखैकं दिक्षु चत्वारि त्रीणि च गुदकण्ठयोः ॥९१॥
एवं चक्रं समालेख्यं प्रवेशार्थ सदा बुधैः । अग्निनाशो मुखे प्रोक्त उद्वासः पूर्वतो भवेत ।
दक्षिणे चार्थलाभश्च पश्चिमे श्रीपदो भवेत ॥९२॥
उत्तरे कलहश्चैव गर्भे गर्भविनाशम । स्थिरता च गुदे कण्ठे कलशस्य प्रकीर्तिता ॥९३॥
स्नातः शुचिर्निराहारोऽलंकरेण विभूषितः । पुत्रदारसमायुक्तः सामात्यः सपुरोहितः ॥९४॥
गन्धपुष्पं च वस्त्रं च परिधाय पुनर्नवम । पुष्पमालान्वितं कार्य रुचिर चित्रचित्रितम ॥
प्राकार वेष्टयेत्तत्र मालया परिशोभितम ॥९५॥
वस्त्रेणाच्छादितं मार्ग कॄत्वा राजा सुखासने । निवेश्याग्रे तथा राज्ञी निवेश्य विजितेन्द्रियः ।
गीतोत्सवादिभिर्युक्तो गीतवाद्यदिसयुतः ॥९६॥
अग्रे सुपूर्णान कलशान विप्रान वेदविशारदान । गायकान गणिकांश्चापि सुवासिन्यो विशेषतः ॥९७॥
व्यस्तैर्यात्रादिशकुनैर्द्वारमार्गेण भूपतिः । वितानैस्तोरणैः पुष्पैः पताकाभि विशेषतः ॥९८॥
अलकृत्य नवं गेहं देहली पूजयेत्ततः ॥ दिक्पालांश्च तथा क्षेत्रपालं ग्रामदेवताः ॥९९॥
प्रणम्य विधिवत्पूज्य द्वारमार्गे विशेद्गृहम । पूजयेद्ग्णनाथं च मातृकां च विशेषतः ।
वसोर्धारां पातयित्वा ग्रहांश्चैव तु पूजयेत ॥१००॥
वास्तुनाथ च सपूज्य व्राह्मणान पूजयेत्ततः । दक्षिणां च ततो दद्याद्विद्वद्भयो वित्तशक्तितः ।
गोदानं भूमिदानं च कारयेच्च यथाविधि ॥१०१॥
पुरोगितं च दैवज्ञं स्थपतीन परितोष्य च । दीनान्धकृपणेभ्यश्च दद्याद्दानं च भोजनम ॥१०२॥
लिगिन च विशेषेण बन्धुवर्ग च पूजयेत । दानमानैश्च तान सर्वान परितोष्य यथाविधि ॥१०३॥
भोजयेद्बन्धुवर्गाश्च स्वयं भुञ्जीत वाग्यतः । राजा चान्तःपुरे वध्वा स्त्रीजनैश्च समन्वितः ॥१०४॥
भोजयेच्छक्तितश्चान्त पुरस्थान स्वजनांस्ततः । विहरेच्च सुखं राजा स्वावासे भार्ययान्वितः ॥१०५॥
इति श्रीवास्तुशास्त्रे गृहप्रवेशविधिप्रकरणं नाम दशमोध्यायः ॥१०॥