अथातः श्रृणु विप्रेन्द्र दारुणां छेदने विधिम । सुरदारुचन्दनशमीमधूकतरवस्तथा ॥१॥
ब्राह्मणानां शुभा वृक्षाः सर्वकर्मसु शोभनः । क्षत्रियाणां तु खदिरबिल्वार्जुनकशिंशिपा ॥२॥
शालतूनीकसरला नृपवेश्मनि सिद्धिदाः । वैश्यानां खादिरं सिन्धुस्यंदनाश्च शुभावहाः ॥३॥
तिन्दुकार्जुनशाशाश्च वैसराम्राश्च कण्टकाः । ये चान्ये क्षीरिवृक्षाश्च ते शूद्राणां शुभावहाः ॥४॥
द्यंगराशिगते सूर्ये माघे भाद्रपदे तथा । वृक्षाणां छेदनं काष्ठसञ्चयार्थ न कारतेत ॥५॥
सूर्यर्क्षाद्वेदगोतर्कदिग्विश्वनखसम्मिते । चन्द्रर्क्षे दारुकाष्ठानां छेदनं शुभदायकम ॥६॥
सर्वेषामपि वर्णानां दारवः कथिताः शुभाः । सुरदारुचन्दनशमीशिंशिपाः खदिरस्तथा ॥७॥
शालाः शाल्विस्तृताश्च प्रशस्ताः सर्वजातिषु । एकजात्या द्विजात्या वा त्रिजात्या वा महीरुहाः ॥८॥
कारयेत्सर्वगेहेषु तदूर्द्ध्व नैव कारयेत । एकदारुमया गेहाः सर्वशल्यनिवारकाः ॥९॥
द्विजात्या मध्ममाः प्रोक्तास्त्रिजात्या अधमाः स्मृताः । क्षीरिणं फलिनं चैव कण्टकाढ्य़ं च वर्जयेत ॥१०॥
श्मशानेनाग्निना चैव दूषितेऽप्यथवा भुवा । वज्रेण मर्दितं चैव वातभग्नं तथैव च ।
मार्गवृक्षं पुराच्छन्नं चैत्यं कल्पं च दैवकम ॥११॥
अर्द्धभग्नाद्धिदग्धाश्च अर्द्धशुष्कास्तथैव च ॥१२॥
व्यंगा कुब्जाश्च काणाश्च अतिजीर्णास्तथैव च । त्रिशीर्षा बहुशीर्षाश्च अन्यवृक्षेण भेदिताः ॥१३॥
स्नानाम्ना ये च तरवस्ते वर्ज्या गृहकर्मणि । क्षीरिणः क्षीरनाशाय फलिनः पुत्रनाशनाः ॥१४॥
कण्टकी कलहं कुर्यात्काकाच्छन्नं धनक्षयम । गृहवृक्षं महारोगं श्मशानस्थं मृतिप्रदम ॥१५॥
वज्रांकं वज्रभयदं वातदं वातदूषितम । मार्गवृक्षे कुलध्वस्तं पुरच्छन्न भयप्रदम ॥१६॥
कुल्यवृक्षे भवेन्मृत्युर्देववृक्षे धनक्षयम । चैत्ये गृहपतेर्मृत्युर्देववृक्षे भय भवेत ॥१७॥
अर्द्धभग्नं विनाशाय अर्धशुष्कं धनक्षयम । व्यंगे मृतप्रजा ज्ञेयाः कुब्जे कुब्जास्तथैव च ॥१८॥
काणे राजभयं विंद्या दतिजीर्णे गृहक्षयः । त्रिशीर्षे गर्भपातः स्याद्बहुशीर्षे मृतप्रजा ॥१९॥
अन्यभेदे शत्रुभयमुद्याने खे भयं तथा । वल्लीवृत्ते दरिद्रत्वं पुष्पवृक्षे कुलक्षयः ॥२०॥