चत्वारिंशत्तु कैलासश्चतुस्त्रिंशद्वितानकः । नंदिवर्द्धनकस्तुद्वद्द्वत्रिंशत्समुदात्दृतः ।
त्रिंशद्भिर्नन्दनः प्रोक्तः सर्वतोभद्रकस्तथा ॥१०१॥
एते षोडशहस्ताः स्युश्चत्वारो देववल्लभाः । कैलासो मृगराजस्तु वितान च्छंदको गजः ॥१०२॥
एते द्वादशहस्ताः स्युरेतेषां सिंहनादकः । गरुडोऽष्टकरो ज्ञेयः सिंहो दश उदात्दृतः ॥१०३॥
एवमेव प्रमाणेन कर्तव्याः शुभलक्षणाः । यक्षराक्षसनागानामष्टहस्तः प्रशस्यते ॥१०४॥
तथा मेर्वादयः सप्त ज्येष्ठलिंगा शुभावहाः । श्रीवृक्षकादयश्चाष्टौ मध्ये यस्य उदात्दृताः ॥१०५॥
तथा हंसादयः पञ्च उक्तास्ते शुभदा मताः । अथातः सप्रवक्षामि शक्त्या लिंगस्य लक्षणम ॥१०६॥
लिंगदैर्घ्यांगुलैर्लिंगं विस्तारं गणयेद बुधः । लिंगविस्तारमानेन त्रिगुणं पीठविस्तरम ॥१०७॥
गर्भगेहप्रविस्तारं त्रिभागं परिकल्पयेत । तेषु भागेषु चैकेन पीठविस्तारमाचरेत ॥१०८॥
दीर्घं कुर्वन्ति पीठानां विष्णुभागा वसानकम । मूले मध्ये तथोर्ध्वे च ब्रह्मविष्णुहरांशकम ॥१०९॥
पीठाकालक्षणं वक्ष्ये यथावदनुपूर्वशः । पीठाछ्राये तथावच्च भागान षोडशे कारयेत ॥११०॥
भूमावेकः प्रविष्टः स्याच्चतुर्भिजगती मता । वृत्तो भागस्तयैकः स्यादवृत्तादूर्द्धस्तु भागतः ॥१११॥
भागैस्त्रिभिस्तथा कण्ठं पदं कण्ठत्रिभागतः । भागैकमूर्ध्वके यश्च शेशःभागेन पट्टिका ॥११२॥
प्रविष्ट भागमेक तु जगती याव देव तु । निर्गमस्तु पुनस्तस्या यावद्वै पोषपट्टिका ।
वारिनिर्गमनार्थस्तु तत्र कार्य प्रमाणतः ॥११३॥
बाणलिंगादिक कुर्यात सप्तांश वा त्रिभागितम ॥ पञ्चाभागं द्विभागं वा यथायोग्यं यथास्थिरम ।
सप्तभागकृते लिंगे चतुरंशान्निवेदयेत ॥११४॥
पीठ मध्यगते गर्ते त्रिभागं चैकभागकम । पञ्चभागे तु भागास्त्रीन्द्विभागेऽर्द्ध यथाक्रमम ॥११५॥
एवं बाणादिलिंगानां प्रवेशः शंकरोदितः । स्थूलं शिरः कृशं मूलमुन्नते तन्मुखं शिरः ॥११६॥
निम्नपृष्ठामिति ख्यातं बालगेहादिलिंगके । अज्ञातमुखपृष्ठानां कन्यास्पृष्टं मुखं शिरः ॥११७॥
ज्येष्ठा मध्या कनिष्ठा च त्रिविधा ब्रह्मणश्शिलाः । त्रिगुण विस्तृत कुर्यादन्यथा वा प्रकारकः ॥११८॥
उक्तानामपि पीठानां विस्तारादधिकांगुलैः । त्रिभागपीठःविस्तारं कृत्वा तत्रैकभागतः ॥११९॥
दीर्घ कुर्यात्प्रणालं च तं त्रिभागैकविस्तरम । ब्रह्म सूत्रचतुष्के तु स्थाप्य कूर्मशिलां ततः ।
तद्गर्भे विन्यसेत्कूर्म सौवर्ण द्वादशं मुखम ॥१२०॥