विद्यानन्दः - श्लोक ४१ ते ६५

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


तत् एतत् कृत कृत्यत्वं प्रतियोगि पुरःसरम् । अनुसन्दधत् एव अयम् एवं तृप्यति नित्यशः ॥ ४१॥

दुःखिनः अज्ञाः संसरन्तु कामं पुत्र आदि अपेक्षया । परमानन्द पूर्णः अहं संसरामि किम् इच्छया ॥ ४२॥

अनुतिष्ठन्तु कर्माणि परलोक यियासवः । सर्व लोकात्मकः कस्मात् अनुतिष्ठामि किं कथम् ॥ ४३॥

व्याचक्षतां ते शास्त्राणि वेदान् अध्यापयन्तु वा । ये अत्र अधिकारिणः मे तु न अधिकारः अक्रियत्वतः ॥ ४४॥

निद्रा भिक्षे स्नान शौचे न इच्छामि न करोमि च । द्रष्टारः चेत् कल्पयन्ति किं मे स्यात् अन्य कल्पनात् ॥ ४५॥

गुञ्ज पुञ्ज आदि दह्येत न अन्य आरोपित वह्निना । न अन्य आरोपित संसार धर्मान् एवम् अहं भजे ॥ ४६॥

शृण्वन्तु अज्ञात तत्त्वाः ते जानन् कस्मात् शृणोमि अहम् । मन्यन्तां संशय आपन्नाअ न मन्ये अहम् असंशयः ॥ ४७॥

विपर्यस्तः निदिध्यासेत् किं ध्यानम् अविपर्ययात् । देह आत्मत्व विपर्यासं न कदाचित् भजामि अहम् ॥ ४८॥

अहं मनुष्यः इति आदि व्यवहारः विना अपि अमुम् । विपर्यासं चिर अभ्यस्त वासना अतः अवकल्पते ॥ ४९॥

प्रारब्ध कर्मणि क्षीणे व्यवहारः निवर्तते । कर्म अक्षये तु असौ न एव शाम्येत् ध्यान सहस्रतः ॥ ५०॥

विरलत्वं व्यवहृतेः इष्टं चेत् ध्यानम् अस्तु ते । अबाधिकां व्यवहृतिं पश्यन् ध्यायामि अहं कुतः ॥ ५१॥

विक्षेपः न अस्ति यस्मान् मे न समाधिः ततः मम । विक्षेपः वा मनसः स्यात् विकारिणः ॥ ५२॥

नित्य अनुभव रूपस्य कः मे वा अनुभवः पृथक् । कृतं कृत्यं प्रापणीयं प्राप्तम् इति एव निश्चयः ॥ ५३॥

व्यवहारः लौकिकः वा शास्त्रीयः वा अन्यथा अपि वा । मम अकर्तुः अलेपस्य यथा आरब्धं प्रवर्तताम् ॥ ५४॥

अथवा कृत कृत्यः अपि लोकानुग्रह कामया । शास्त्रीयेण एव मार्गेण वर्ते अहं का मम क्षतिः ॥ ५५॥

देव अर्चन स्ना शौच भिक्षा आदौ वर्ततां वपुः । तारं जपतु वाक् तद्वत् पठतु आम्नाय मस्तकम् ॥ ५६॥

विष्णुं ध्यायतु धीः यद्वा ब्रह्मानन्दे विलीयताम् । साक्षि अहं किञ्चित् अपि अत्र न कुर्वे न अपि कारये ॥ ५७॥

कृत कृत्यतया तृप्तः प्राप्त प्राप्यतया पुनः । तृप्यन् एवं स्वमनसा मन्यते असौ निरन्तरम् ॥ ५८॥

धन्यः अहं धन्यः अहं नित्यं स्वात्मानम् अञ्जसा वेद्मि । धन्यः अहं धन्यः अहं ब्रह्मानन्दः विभाति मे स्पष्टम् ॥ ५९॥

धन्यः अहं धन्यः अहं दुःखं संसारिकं न विक्षे अद्य । धन्यः अहं धन्यः अहं स्वस्य अज्ञानं पलायितं क्व अपि ॥ ६०॥

धन्यः अहं धन्यः अहं कर्तव्यं मे न विद्यते किञ्चित् । धन्यः अहं धन्यः अहं प्राप्तव्यं सर्वम् अद्य सम्पन्नम् ॥ ६१॥

धन्यः अहं धन्यः अहं तृप्तेः मे कोपमा भवेत् लोके । धन्यः अहं धन्यः अहं धन्यः धन्यः पुनः पुनः धन्यः ॥ ६२॥

अहो पुण्यम् अहो पुण्यं फलितं फलितं दृढम् । अस्य पुण्यस्य सम्पत्तेः अहो वयम् अहो वयम् ॥ ६३॥

अहो शास्त्रम् अहो शास्त्रम् अहो गुरुः अहो गुरुः । अहो ज्ञानम् अहो ज्ञान्म् अहो सुखम् अहो सुखम् ॥ ६४॥

ब्रह्मानन्द अभिधे ग्रन्थे चतुर्थः अध्यायः ईरितः । विद्यानन्दः तत् उत्पत्ति पर्यन्तः अभ्यास इष्यताम् ॥ ६५॥

इति चतुर्दशोऽध्यायः ॥ १४॥

N/A

References : N/A
Last Updated : March 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP