निस्तत्त्वं भासमानं च व्यक्तम् उत्पत्ति नाशभाक् । तत् उत्पत्तौ तस्य नाम वाचा निष्पाद्यते नृभिः ॥४१॥
व्यक्ते नष्टे अपि नाम एतान् नृवक्त्रेषु अनुवर्तते । तेन नाम्ना निरूप्यत्वात् व्यक्तं तत् रूपम् उच्यते ॥४२॥
निस्तत्त्वत्वात् विनाशित्वात् वाचारम्भण नामतः । व्यक्तस्य न तु तत् रूपं सत्यं किञ्चित् मृत् आदिवत् ॥४३॥
व्यक्तकाले ततः पूर्वम् ऊर्ध्वम् अपि एकरूपभाक् । सतत्त्वम् अविनाशं च सत्यं मृत् वस्तु कथ्यते ॥४४॥
व्यक्तं घटः विकारः च इति एतैः नामभिः ईरितः । अर्थः चेत् अनृतः कस्मात् न मृत् बोधे निवर्तते ॥४५॥
निवृत्तः एव यस्मात् ते तत् सत्यत्व मतिः गता । ईदृत् निवृत्तिः एव अत्र बोधजा न तु अभासनम् ॥४६॥
पुमान् अधोमुखः नीरे भातः अपि अस्ति न वस्तुतः । तटस्थ मर्त्यवत् तस्मिन् न एव आस्था कस्यचित् क्वचित् ॥४७॥
ईदृक् बोधे पुमर्थत्वं मतम् अद्वैतवादिनाम् । मृत् रूपस्य अपरित्यागात् विवर्तत्वं घटे स्थितम् ॥४८॥
परिणामे पूर्वरूपं त्यजेत् तत् क्षीर रूपवत् । मृत् सुवर्णे निवर्तेते घट कुण्डलयोः न हि ॥४९॥
घटे भग्ने न मृत् भावः कपालानाम् अवेक्षणात् । मा एवं चूर्णे अस्ति मृत् रूपं स्वर्णरूपं तु अतिस्फुटम् ॥५०॥
क्षीर आदौ परिणामः अस्तु पुंसः तत् भाव वर्जनात् । एतावता मृत् आदीनां दृष्टान्तत्वं न हि ईयते ॥५१॥
आरम्भवादिनः कार्ये मृदः द्वैगुण्यम् आपतेत् । रूप स्पर्श आदयः प्रोक्ताः कार्य कार्णयोः पृथक् ॥५२॥
मित् सुवर्णमयः च इति दृष्टान्त त्रयम् आरुणिः । प्राह अतः वासयेत् कार्य अनृतत्वं सर्व वस्तुषु ॥५३॥
कारण ज्ञानतः कार्य विज्ञानं च अपि सः अवदत् । सत्यज्ञाने अनृतज्ञां कथम् अत्र उपपद्यते ॥५४॥
समृत्कस्य विकारस्य कार्यता लोकदृष्टितः । वास्तवः अत्र मृत् अंशः अस्य बोधः कारण बोधतः ॥५५॥
अनृत अंशः न बोद्धव्यः तत् बोध अनुपयोगतः । तत्त्वज्ञानं पुमर्थं स्यात् न अनृत अंश अवबोधनम् ॥५६॥
तर्हि कारण विज्ञानात् कर्य ज्ञाम् इति ईरिते । मृत् बोधे मृत्तिका बुद्ध इतिउक्तं स्यात् कः अत्र विस्मयः ॥५७॥
सत्यं कार्येषु वस्तु अंशः कारणात् आत्मा इति जानतः । विस्मयः मा अस्तु इह अज्ञस्य विस्मयः केन वार्यते ॥५८॥
आरम्भी परिणामी च लौकिकः च एक कारणे । ज्ञाते सर्वमतिं श्रुत्वा प्राप्नुवन्ति एव विस्मयम् ॥५९॥
अद्वैते अभिमुखीकर्तुम् एव अत्र एकस्य बोध्तः । सर्वबोधः श्रुतौ न एव नानात्वस्य विवक्षया ॥६०॥