योगानन्दः पुरा उक्तः यः सः आत्मानन्दः इष्यताम् । कथं ब्रह्मत्वम् एतस्य सद्वयस्य इति चेत् शृणु ॥१॥
आकाशादि स्व देहान्तं तैत्तिरीय श्रुतिः ईरितम् । जगत् न अस्ति अन्यत् आनन्दात् अद्वैत ब्रह्मता ततः ॥२॥
आनन्दात् एव तत् जातं तिष्ठति आनन्दः एव तत् । आनन्दः एव लीनं च इति उक्त आनन्दात् कथं पृथक् ॥३॥
कुलालात् घटः उत्पन्नः भिन्नः च इति न शङ्क्यताम् । मृद्वत् एषः उपादानं निमित्तं न कुलालवत् ॥४॥
स्थितिः लयः च कुम्भस्य कुलाले स्तः न हि क्वचित् । दृष्टौ तौ मृदि तद्वत् स्यात् उपादानं तयोः श्रुतेः ॥५॥
उपादानं त्रिधा भिन्नं विवर्ति परिणामि च । आरम्भकं च तत्र अन्त्यौ न निरंशे अवकाशिनौ ॥६॥
आरम्भवादिनः अन्यस्मात् अन्यस्य उत्पत्तिम् ऊचिरे । तन्तोः पटस्य निष्पत्तेः भिन्नौ तन्तुपटौ खलु ॥७॥
अवस्थान्तरता आपत्तिः एकस्य परिणामिता । स्यात् क्षीरं दधि मृत् कुम्भः सुवर्णं कुण्डलं यथा ॥८॥
अवस्थान्तरभानं तु विवर्तः रज्जुसर्पवत् । निरंशे अपि अस्ति असौ व्योम्नि तलमालिन्यकल्पनात् ॥९॥
ततः निरंशः आनन्दे विवर्तः जगत् इष्यताम् । मायाशक्तिः कल्पिका स्यात् ऐन्द्र जालिक शक्तिवत् ॥१०॥
शक्तिः शक्तात् पृतन् न अस्ति तद्वत् दृष्टेः न च अभिदा । प्रतिबन्धस्य दृष्टत्वात् शक्ति अभावे तु कस्य सः ॥११॥
शक्तेः कार्य अनुमेयत्वात् अकार्ये प्रतिबन्धनम् । ज्वलतः अग्नेः अदाहे स्यात् मन्त्र आदि प्रतिबन्धता ॥१२॥
देवात्म शक्तिं स्वगुणैः निगूढां मुनयः अविदन् । परा अस्य शक्तिः विविधा क्रिया ज्ञान बलात्मिका ॥१३॥
इति वेदवचः प्राह वसिष्ठः च तथा अब्रवीत् । सर्व शक्ति परं ब्रह्म नित्यम् आपूर्णम् अद्वयम् ॥१४॥
यया उल्लसति शक्त्या असौ प्रकाशम् अधिगच्छति । चित् शक्तिः ब्रह्मणः राम शरीरेषु उपलभ्यते ॥१५॥
स्पन्द शक्तिः च वातेषु दार्ढ्य शक्तिः तथा उपले । द्रव शक्तिः तथा अम्भःसु दाह शक्तिः तथा अनले ॥१६॥
शून्य शक्तिः तथा आकाशे नाश शक्तिः विनाशिनि । यथा अण्डे अन्तः महासर्पः जगत् अस्ति तथा आत्मनि ॥१७॥
फल पत्र लता पुष्प शाखा विटप मूलवान् । ननु बीजे यथा वृक्षः तथा इदं ब्रह्मणि स्थितम् ॥१८॥
क्वचित् कश्चित् कदाचित् च तस्मात् उद्यन्ति शक्तयः । देश काल विचित्रत्वात् क्ष्मातलात् इव शालयः ॥१९॥
सः आत्मा सर्वगः राम नित्य उदित महा वपुः । यत् मनात् मननीं शक्तिं धत्ते तत् मनः उच्यते ॥२०॥