एवं स्थिते विवादः अत्र प्रतिबुद्ध विमूढयोः । श्रुत्योदाहारि तत्र आत्मा प्रेयान् इति एव निर्णयः ॥६१॥
साक्षि एव दृश्यात् अन्यस्मात् प्रेयान् इति आह तत्त्ववित् । प्रेयान् पुत्रादिः एव इमं भोक्तुं साक्षि इति मूढधीः ॥६२॥
आत्मनः अन्यं प्रियं ब्रूते शिष्यः च प्रतिवादि अपि । तस्य उत्तरं वाचः बोधशापौ कुर्यात् तयोः क्रमात् ॥६३॥
प्रियं त्वां रोत्स्यति इति एवम् उत्तरं वक्ति तत्त्ववित् । स्व उक्त प्रियस्य दुष्टत्वं शिष्यः वेत्ति विवेकतः ॥६४॥
अलभ्यमानः तनयः पितरौ क्लेशयेत् चिरम् । लब्धः अपि गर्भपातेन प्रसवेन च बाधते ॥६५॥
जातस्य ग्रहरोग आदिः कुमारस्य च मूर्खता । उपनीते अपि अविद्यत्वम् अनुद्वाहः च पण्डिते ॥६६॥
पुनः च परदारादि दारिद्र्यं च कुटुम्बिनः । पित्रोः दुःखस्य न अस्ति अनतः धनी चेत् म्रियते तदा ॥६७॥
एवं विविच्य पुत्रादौ प्रीतिं त्यक्त्वा निजात्मनि । निश्चित्य परमां प्रीतिं वीक्षते तम् अहर्निशम् ॥६८॥
आग्रहात् ब्रह्मविद्वेषात् अपि पकशम् अमुञ्चतः । वादिनः नरकः प्रोक्तः दोषः च बहु योनिषु ॥६९॥
ब्रह्मवित् ब्रह्मरूपत्वात् ईश्वरः तेन वर्णितम् । यत् यत् तत् तत् तथा एव स्यात् तत् शिष्यः प्रतिवादिनोः ॥७०॥
यः तु साक्षिणम् आत्मानं सेवते प्रियम् उत्तमम् । तस्य प्रेयान् असौ आत्मा न नश्यतेइ कदाचन ॥७१॥
परप्रेमास्पदत्वेन परमानन्द इष्यताम् । सुखवृद्धिः प्रीतिवृद्धौ सार्वभौमादिषु श्रुता ॥७२॥
चैतन्यवत् सुखं च अस्य स्वभावः चेत् चिदात्मनः । धीवृत्तिषु अनुवर्तेत सर्वासु अपि चितिः यथा ॥७३॥
मा एवम् उष्ण प्रकाशात्मा दीपः तस्य प्रभा गृहे । व्याप्नोति न उष्णता तद्वत् चितेः एव अनुवर्तनम् ॥७४॥
गन्ध रूप रस स्पर्शेषु अपि सत्सु यथा पृथक् । एकाक्षेण एक एव अर्थः गृह्यते न इतरः तथा ॥७५॥
चित् आनन्दौ न एव भिन्नौ गन्ध आद्याः तु विलक्षणाः । इति चेत् तत् अभेदः अपि साक्षिणि अन्यत्र वा वद ॥७६॥
आद्ये गन्ध आदयः अपि एवम् अभिन्नाः पुष्पवर्तिनः । अक्षभेदेन तत् भेदे वृत्तिभेदात् तयोः भिदा ॥७७॥
सत्ववृत्तौ चित्सुखैक्यं तत् वृत्तेः निर्मलत्वतः । रजोवृत्तेः तु मालिन्यात् सुखांशः अत्र तिरस्कृतः ॥७८॥
तिन्तिणी फलम् अति अम्लं लवणेन युतं यदा । तदा आम्लस्य तिरस्कारात् ईषत् आम्लं यथा तथा ॥७९॥
ननु प्रियतमत्वेन परमानन्दता आत्मनि । विवेक्तुं शक्यताम् एवं विना योगेन किं भवेत् ॥८०॥
यत् योगेन तत् एव इति वदामः ज्ञानसिद्धये । योगः प्रोक्तः विवेकेन ज्ञानं किं न उपजायते ॥८१॥
यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते । इति स्मृतं फल एकत्वं योगिनां च विवेकिनाम् ॥८२॥
असाध्यः कस्यचित् योगः कस्यचित् ज्ञान निश्चयः । इत्थं विचार्य मार्गौ द्वौ जगाद परमेश्वरः ॥८३॥
योगे कः अतिशयः तत्र ज्ञानम् उक्तं समं द्वयोः । राग द्वेष आदि अभावः च तुल्यः योगी विवेकिनोः ॥८४॥
न प्रीतिः विषयेषु अस्ति प्रेयान् आत्मेति जानतः । कुतः रागः कुतः द्वेषः प्रातिकूल्यम् अपश्यतः ॥८५॥
देह आदेः प्रतिकूलेषु द्वेषः तुल्यः द्वयोः अपि । द्वेषं कुर्वन् न योगी चेत् अविवेकि अपि तादृशः ॥८६॥
द्वैतस्य प्रतिभानं तु व्यवहारे द्वयोः समम् । समाधौ न इति चेत् तद्वत् न अद्वैतत्वं विवेकिनः ॥८७॥
विवक्ष्यते तत् अस्माभिः अद्वैतानन्द नामके । अध्याये हि तृतीये अतः सर्वम् अपि अतिमङ्गलम् ॥८८॥
सदा पश्यन् निज आनन्दम् अपश्यन् निखिलं जगत् । अर्थात् योगी इति चेत् तर्हि सन्तुष्टः वर्धतां भवान् ॥८९॥
ब्रह्मानन्द अभिधे ग्रन्थे मन्द अनुग्रहे सिद्धये । द्वितीय अध्यायः एतस्मिन् आत्मानन्दः विवेचितः ॥९०॥
इति द्वादशोऽध्यायः ॥१२॥