ननु एवं वासनानन्दात् ब्रह्मानन्दात् अपि इतरम् । वेत्तु योगी निजानन्दं मूढस्य अत्र अस्ति का गतिः ॥१॥
धर्म अधर्मवशात् एषः जायतां म्रियताम् अपि । पुनः पुनः देहलक्षैः किं नः दाक्षिण्यतः वद ॥२॥
अस्ति वः अनुजिघृक्षुवात् दाक्षिण्येन प्रयोजनम् । तर्हि ब्रूहि स मूढः किं जिज्ञासुः वा पराङ्मुखः ॥३॥
उपास्तिं कर्म वा ब्रूयात् विमुखाय यथा उचितम् । मन्द प्रज्ञं तु जिज्ञासुम् आत्मानन्देन बोधयेत् ॥४॥
बोधयामास मैत्रेयीं याज्ञवल्क्यः निजप्रियाम् । न वा अरे पत्युः अर्थे पतिः प्रिय इति ईरयन् ॥५॥
पतिः जाया पुत्रवित्ते पशु ब्राह्मण बाहुजाः । लोकाः देवाः वेदभूते सर्वं च आत्मार्थतः प्रियम् ॥६॥
पत्यौ इच्छा यदा पत्न्याः तदा प्रीतिं करोति सा । क्षुत् अनुष्ठान रोग आद्यैः तदा न इच्छति तत् पतिः ॥७॥
न पत्युः अर्थे सा प्रीतिः स्वार्थः एव करोति ताम् । पतिः च आत्मनः एव अर्थे न जायार्थे कदाचन ॥८॥
अन्योन्य प्रेरणे अपि एवं स्वेच्छया एव प्रवर्तनम् ॥९॥
श्मश्रु कण्टक वेधेन बालः रुदति तत् पिता । चुम्बति एव न सा प्रीतिः बालार्थे स्वार्थः एव सा ॥१०॥
निरिच्छम् अपि रत्न आदि वित्तं यत्नेन पालयन् । प्रीतिं करोति सा स्वार्थे वित्तार्थत्वं न शङ्कितम् ॥११॥
अनिच्छति बलीवर्दे विवाहयिषते बलात् । प्रीतिः सा वणिक् अर्थ एव बलीवर्दार्थता कुतः ॥१२॥
ब्राह्मण्यं मे अस्ति पूज्यः अहम् इति तुष्यति पूजया । अचेतनाया जातेः नः सन्तुष्टिः पुंसः एव सा ॥१३॥
क्षत्रियः अहं तेन राज्यं करोमि इति अत्र राजता । न जातेः वैश्य जाति आदौ योजनाय इदम् ईरितम् ॥१४॥
स्वर्गलोक ब्रह्मलोकौ स्तां मम इति अभिवाञ्चनम् । लोकयोः न उपकाराय स्वभोगाय एव केवलम् ॥१५॥
ईश विष्णु आदयः देवाः पूज्यन्ते पापनष्टये । न तत् निष्पाप देवार्थं तत् तु स्वार्थं प्रयुज्यते ॥१६॥
ऋक् आदयः हि अधीयन्ते दुर्ब्राह्मण्य अनवाप्तये । न तत् प्रसक्तं वेदेषु मनुष्येषु प्रसज्यते ॥१७॥
भूमि आदि पञ्च भूतानि स्थान तृत् पाक शोषणैः । हेतुभिः च अवकाशेन वाञ्छन्ति एषां न हेतवे ॥१८॥
स्वामिभृति आदिकं सर्वं स्व उपकाराया वाञ्छति । तत् तत् कृत उपकारः तु तस्य तस्य न विद्यते ॥१९॥
सर्व व्यवहृषु एवम् अनुसन्धातुम् ईदृशम् । उदाहरण बाहुल्यं तेन स्वां वासयेत् मतिम् ॥२०॥