जीव अपेतं वाव किल शरीरं म्रियते न सः । इति अत्र न विमोक्षः अर्थः किन्तु लोकान्तरे गतिः ॥ ४१॥
न अहं ब्रह्म इति बुध्येत सः विनाशि इति चेत् न तत् । सामानाधिकरण्यस्य बाधायाम् अपि सम्भवात् ॥ ४२॥
यः अयं स्थाणुः पुमान् एष पुं धिया स्थाणु धीः इव । ब्रह्म अस्मि इति धियाअ अपि एषा हि अहं बुद्धिः निवर्त्यते ॥ ४३॥
नैष्कर्म्य सिद्धौ अपि एवम् आचार्यैः स्पष्टम् ईरितम् । सामानाधिकरण्यस्य बाधार्थत्वम् अतः अस्तु तत् ॥ ४४॥
सर्वं ब्रह्म इति जगता सामानाधिकरण्यवत् । अहं ब्रह्म इति जीवेन सामानाधिकृतिः भवेत् ॥ ४५॥
सामानाधिकरण्यस्य बाधार्थत्वं निराकृतम् । प्रयत्नतः विवरणे कूटस्थत्व विवक्षया ॥ ४६॥
शोधितः त्वं पदार्थः यः कूटस्थः ब्रह्म रूपताम् । तस्य वक्तुं विवरणे तथा उक्तम् इतरत्र च ॥ ४७॥
देह इन्द्रिय आदि युक्तस्य जीव आभास भ्रमस्य या । अधिष्ठान चितिः सा एषा कूटस्थ अत्र विवक्षिता ॥ ४८॥
जगत् भ्रमस्य सर्वस्य यत् अधिष्ठानम् ईरितम् । त्रयि अन्तेषु तत् अत्र स्यात् ब्रह्म शब्द विवक्षितम् ॥ ४९॥
एतस्मिन् एव चैतन्ये जगत् आरोप्यते यदा । तदा तत् एकदेशस्य जीव अभासस्य का कथा ॥ ५०॥
जगत् तत् एकदेशाख्य समारोप्यस्य भेदतः । तत् त्वं पदार्थौ भिन्नौ स्तः वस्तुतः तु एकता चितेः ॥ ५१॥
कर्तृत्वादीन् बुद्धिधर्मान् स्फूर्ति आख्यां च आत्मरूपताम् । दधत् विभाति पुरतः आभासः अतः भ्रमः भवेत् ॥ ५२॥
का बुद्धिः कः अयम् आभासः कः वा आत्मा अत्र जगत् कथम् । इति अनिर्णयतः मोहः सः अयं संसारः इष्यते ॥ ५३॥
बुद्धि आदीनां स्वरूपं यः विविनक्ति सः तत्त्ववित् । सः एव मुक्तः इति एवं वेदान्तेषु विनिश्चयः ॥ ५४॥
एवं च सति बन्धः स्यात् कस्य इति आदि कुतर्कजाः । विडम्बना दृढं खण्ड्याः खण्डन उक्ति प्रकारतः ॥ ५५॥
वृत्तेः साक्षितया वृत्ति प्राक् अभावस्य च स्थितः । बुभुत्सायां तथा अज्ञः अस्मि इति आभास अज्ञान वस्तुनः ॥ ५६॥
असत्य आलम्बनत्वेन सत्यः सर्व जडस्य तु । साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः ॥ ५७॥
आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना । सर्व सम्बन्धवत्त्वेन सम्पूर्णः शिव संज्ञितः ॥ ५८॥
इति शैव पुराणेषु कूटस्थः प्रविवेचितः । जीवेशत्व आदि रहितः केवलः स्वप्रभः शिवः ॥ ५९॥
मायाभासेन जीवेशौ करोति इति श्रुतत्वतः । मायिकौ एव जीवेशौ स्वच्छौ तौ काचकुम्भवत् ६०॥
अन्नजन्यं मनः देहात् स्वच्छं यद्वत् तथा एव तौ । मायिकौ अपि सर्वस्मात् अन्यस्मात् स्वच्छतां गतौ ॥ ६१॥
चिद्रूपत्वं च सम्भाव्यं चित्त्वेन एव प्रकाशनात् । सर्वकल्पनशक्ताया मायाया दुष्करं न हि ॥ ६२॥
अस्मत् निद्रा अपि जीवेशौ चेतनौ स्वप्नगौ सृजेत् । महामाया सृजति एतौ इति आश्चर्यं किम् अत्र ते ॥ ६३॥
सर्वज्ञत्व आदिकं च ईशे कल्पयित्वा प्रदर्शयेत् । धर्मिणं कल्पयेत् या अस्याः कः भारः धर्मकल्पने ॥ ६४॥
कूटस्थे अपि अतिशङ्का स्यात् इति चेत् मा अतिशंक्यताम् । कूटास्थमायिकत्वे तु प्रमाणं न हि विद्यते ॥ ६५॥
वस्तुत्वं घोषयन्ति अस्य वेदान्ताः सकलाः अपि । सपत्न रूपं वस्तु अन्यत् न सहन्ते अत्र किंचन ॥ ६६॥
श्रुति अर्थं विशदीकुर्मः न तर्कात् वच्मि किंचन । तेन तार्किक शंकानाम् अत्र कः अवसरः वद ॥ ६७॥
तस्मात् कुतर्कं सन्त्यज्य मुमुक्षुः श्रुतिम् आश्रयेत् । श्रुतौ तु माया जीवेशौ करोति इति प्रदर्शितम् ॥ ६८॥
ईक्षणादि प्रवेशान्ता सृष्टिः ईशकृता भवेत् । जाग्रत् आदि विमोक्षन्तः संसारः जीवकर्तृकः ॥ ६९॥
असङ्गः एव कूटस्थः सर्वदा न अस्य किंचन । भवति अतिशयः तेन मनसि एवं विचार्यताम् ॥ ७०॥
न निरोधो न च उत्पत्तिः न बद्धः न च साधकः । न मुमुक्षुः न वै मुक्तः इति एषा परमार्थता ॥ ७१॥
अवाङ्मनसगम्यं तं श्रुतिः बोधयितुं सदा । जीवम् ईशं जगत् वापि समाश्रित्य प्रबोधयेत् ॥ ७२॥
यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यक् आत्मनि । सा सा एव प्रक्रिय इह स्यात् साधु इति आचार्यभाषितम् ॥ ७३॥
श्रुतितात्पर्यम् अखिलम् अबुध्वा भ्राम्यते जडः । विवेकी तु अखिलं बुध्वा तिष्ठति आनन्दवारिधौ ॥ ७४॥
मायामेघः जगत् नीरं वर्षतु एष यथा तथा । चिदाकाशस्य नः हानिः न वा लाभ इति स्थितिः ॥ ७५॥
इमं कूटस्थदीपं यः अनुसन्धत्ते निरन्तरम् । स्वयं कूटस्थरूपेण दीप्यते असौ निरन्तरम् ॥ ७६॥
इति अष्टमोऽध्यायः ॥ ८॥