खादित्यदीपिते कुड्ये दर्पण आदित्य दीप्तिवत् । कूटस्थ भासितः देहः धीस्थ जीवेन भास्यते ॥ १॥
अनेक दर्पणादित्य दीप्तिनां बहुसन्धिषु । इतराः व्यज्यते तासाम् अभावे अपि प्रकाशते ॥ २॥
चिदाभास विशिष्टानां तथा अनेक धियाम् असौ । सन्धिं धियाम् अभावं च भासयन् प्रविविच्यताम् ॥ ३॥
घट एकाकार धीस्था चित् घटम् एव अवभासयेत् । घटस्य ज्ञातता ब्रह्म चैतन्येन अवभासते ॥ ४॥
अज्ञातत्वेन ज्ञातः अयं घटः बुद्धि उदयात् पुरा । ब्रह्मणा एव उपरिष्टात् तु ज्ञातत्वेन इति असौ भिदा ॥ ५॥
चिदाभास अन्त धी वृत्तिः ज्ञानं लोहान्त कुन्तवत् । जाड्यम् अज्ञानम् एताभ्यां व्याप्तः कुम्भः द्विधा उच्यते ॥ ६॥
अज्ञातः ब्रह्मणा भास्यः ज्ञातः कुम्भः तथा न किम् । ज्ञातत्व जननेन एव चिदाभास परिक्षयः ॥ ७॥
आभास हीनया बुद्ध्या ज्ञातत्वं न एव जन्यते । तादृक् बुद्धेः विशेषः कः मृदादेः स्यात् विकारिणः ॥ ८॥
ज्ञातः इति उच्यते कुम्भः मृदा लिप्तः न कुत्रचित् । धीमात्र व्याप्तकुम्भस्य ज्ञातत्वं न इष्यते तथा ॥ ९॥
ज्ञातत्वं नाम कुम्भे तत् चिदाभास फलोदयः । न फलं ब्रह्म चैतन्यं मनात् प्राक् अपि सत्वतः ॥ १०॥
पराक् अर्थ प्रमेयेषु या फलत्वेन संमता । संवित् सा एव इह मेयः अर्थः वेदान्त उक्ति प्रमाणतः ॥ ११॥
इति वार्तिककारेण चित् सदृश्यं विवक्षितम् । ब्रह्म चित् फलयोः भेदः सहस्र्यां विश्रुतः यतः ॥ १२॥
आभासः उदितः तस्मात् ज्ञातत्वं जनयेत् घटे । तत् पुनः ब्रह्मणा भास्यम् अज्ञातत्ववत् एव हि ॥ १३॥
धी वृत्ति आभास कुम्भानां समूहः भास्यते चिता । कुम्भ मात्र फलत्वात् सः एकः आभासतः स्फुरेत् ॥ १४॥
चैतन्यं द्विगुणं कुम्भे ज्ञातत्वेन स्फुरति अतः । अन्ये अनुव्यवसाया आख्यम् आहुः एतत् यथा उदितम् ॥ १५॥
घटः अयम् इति असौ उक्तिः आभासस्य प्रसादतः । विज्ञातः घटः इति उक्तिः ब्रह्म अनुग्रहतः भवेत् ॥ १६॥
आभास ब्रह्मणि देहात् बहिः यद्वत् विवेचिते । तद्वत् आभास कूटस्थौ विविच्य एतां वपुषि अपि ॥ १७॥
अहं वृत्तौ चिदाभासः काम क्रोध आदिएषु च । संव्याप्य वर्तते तप्ते लोहे वह्निः यथा तथा ॥ १८॥
स्वमात्रं भासयेत् तप्तं लोहं न अन्यत् कदाचन । एवम् आभाससहिताः वृत्तयः स्वस्वभासिकाः ॥ १९॥
क्रमात् विच्छिद्य विच्छिद्य जायन्ते वृत्तयः अखिलाः । सर्वाः अपि विलीयन्ते सुप्ति मूर्च्छा समाधिषु ॥ २०॥