पञ्चकोशविवेकः - श्लोक २१ ते ४३

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


यस्मिन् यस्मिन्न् अस्ति लोके बोधस् तत् तद् उपेक्षणे । यद् बोधमात्रं तद् ब्रह्मेत्य् एवं धीर् ब्रह्मनिश्चयः ॥२१॥

पञ्चकोश परित्यागे साक्षि बोधावशेषतः । स्व स्व रूपं स एव स्याच् छून्यत्वं तस्य दुर्घटम् ॥२२॥

अस्ति तावत् स्वयं नाम विवादाविषयत्वयः । स्वस्मिन्न् अपि विवादश् चेत् प्रतिवाद्य् अत्र को भवेत् ॥२३॥

स्वासत्त्वं तु न कस्मैचिद् रोचते विभ्रमं विना । अत एव श्रुतिर्बाधं ब्रूते चासत्त्व वादिनः ॥२४॥

असद् ब्रह्मेति चेद् वेद स्वयम् एव भवेद् असत् । अतो ऽस्य मा भूद् वेद्यत्वं स्वसत्त्वं त्व् अभ्युपेयताम् ॥२५॥

कीदृक् तर्हीति चेत् पृच्छेद् ईदृक्ता नास्ति तत्र हि । यद् अनीदृग् अतादृक् च तत् स्वरूपं विनिश्चिनु ॥२६॥

अवेद्यो ऽप्य् अपरोक्षो ऽतः स्वप्रकाशो भवत्य् अयम् । सत्यं ज्ञानम् अनन्तं चेत्य् अस्तीह ब्रह्मलक्षणम् ॥२७॥

सत्यत्वं बाधराहित्यं जगद् बाधैक साक्षिणः । बाधः किं साक्षिको ब्रूहि न त्व् असाक्षिक इष्यते ॥२९॥

अपनीतेषु मूर्तेषु ह्य् अमूर्तं शिष्यते वियत् । शक्येषु बाधितेष्व् अन्ते शिष्यते यत् तद् एव तत् ॥३०॥

सर्व बाधे न किंचिच् चेद् यन् न किंचित् तद् एव तत् । भाषा एवत्र भिद्यन्ते निर्बाधं तावद् इष्यते ॥३१॥

अत एव श्रुतिर् बाध्यं बाधित्वा शेषयत्य् अदः । स एष नेति नेत्य् आत्मेत्य् अतद् व्यावृत्ति रूपतः ॥३२॥

इअदं रूपं तु यद् याव तत् त्यक्तुं शक्यते ऽखिलम् । अशक्यो ह्य् अनिदं रूपः स आत्मा बाध वर्जितः ॥३३॥

सिद्धं ब्रह्मणि सत्यत्वं ज्ञानत्वं तु पुरेरितम् । स्वयम् एवानुभूतित्वाद् इत्य् आदि वचनैः स्फुटम् ॥३४॥

न व्यापित्वाद् देशतो ऽन्तो नित्यत्वान् नापि कालतः । न वस्तुतो ऽपि सर्वात्म्याद् आनन्त्यं ब्रह्मणि त्रिधा ॥३५॥

देश कालान्य वस्तूनां कल्पितत्वाच् च मायया । न देषादिकृतो ऽन्तो ऽस्ति ब्रह्मानन्त्यं स्फुटं ततः ॥३६॥

सत्यं ज्ञानम् अनन्तं यद् ब्रह्म तद् वस्तु तस्य तत् । ईश्वरत्वं च जीवत्वम् उपाधि द्वय कल्पितम् ॥३७॥

शक्तिर् अस्त्य् ऐश्वरी काचित् सर्व वस्तु नियामिका । आनन्दमयम् आरभ्य गूढा सर्वेषु वस्तुषु ॥३८॥

वस्तु धर्मा नियम्येरञ् चक्त्या नैव यदा तदा । अन्योन्य धर्म संकर्याद् विप्लवेत जगत् खलु ॥३९॥

चिच् छायावेशतः शक्तिस् चेतनेव विभाति सा । तच् छक्त्य् उपाधि संयोगाद् ब्रह्मैवेश्वरतां व्रजेत् ॥४०॥

कोशोपाधि विवक्षायां याति ब्रह्मैव जीवताम् । पिता पितामहश् चैकः पुत्र पौत्रौ यथा प्रति ॥४१॥

पुत्रादेर् अविवक्षायां न पिता न पितामहः । तद्वन् नेशो नापि जीवः शक्ति कोशविवक्षणे ॥४२॥

य एवं ब्रह्म वेदैष ब्रह्मैव भवति स्वयम् । ब्रह्मणो नास्ति जन्मातः पुनर् एष न जायते ॥४३॥

इति तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP