गुहाहितं ब्रह्म यत् तत् पञ्च कोश विवेकतः । बोद्धुं शक्यं ततः कोश पञ्चकं प्रविविच्यते ॥१॥
देहाद् अभ्यन्तरः प्राणः प्राणाद् अभ्यन्तरं मनः । ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा ॥२॥
पितृ भुक्तान्न जाद् वीर्याज् जातो ऽन्नेनैव वर्धते । देहः सो ऽन्नमयो ऽनात्मा प्राक्च ओर्ध्वं तद् अभावतः ॥३॥
पूर्व जन्मन्य् असन् नेतज् जन्म सम्पादयेत् कथम् । भावि जन्मन्य् असत् कर्म न भुञ्जीतेह संचितम् ॥४॥
पूर्णो देहे बलं यच्छन्न् अक्षाणां यः प्रवर्तकः । वायुः प्राणमयो नासाव् आत्मा चैतन्य वर्जनात् ॥५॥
अहन्तां ममतां देहे गेहादौ च करोति यः । कामाद्यवस्थया भ्रान्तो नासाव् आत्मा मनोमयः ॥६॥
लीना सुप्तौ वपुर् बोधे व्याप्नुयाद् आनखाग्रगा । चिच् छाय् ओपेत धीर् नात्मा विज्ञानमय शब्द भाक् ॥७॥
कर्तृत्व करणत्वाभ्यां विक्रियेतान्तर इन्द्रियम् । विज्ञान मनसी अन्तर् बहिश् चैते परस्परम् ॥८॥
काचिद् अन्तर्मुखा वृत्तिर् आनन्द प्रतिबिम्ब भाक् । पुण्य भोगे भोग शान्तौ निद्रा रूपेण लीयते ॥९॥
कादाचित्कत्वतो नात्मा स्याद् आनन्दमयो ऽप्य् अयम् । बिम्ब भूतो य आनन्द आत्मा ऽसौ सर्वदा स्थितेः ॥१०॥
ननु देहम् उपक्रम्य निद्रानन्दान्त वस्तुषु । मा भूद् आत्मत्वम् अन्यस् तु न कश्चिद् अनुभूयते ॥११॥
बाधं निद्रादयः सर्वे ऽनुभूयन्ते न चेतरः । तथाप्य् एते ऽनुभूयन्ते येन तं को निवारयेत् ॥१२॥
स्वयम् एवानुभूतित्वाद् विद्यते नानुभाव्यता । ज्ञातृ ज्ञानान्तराभावाद् अज्ञेयो न स असत्तया ॥१३॥
माधुर्यादि स्वभावानाम् अन्यत्र स्वगुणार्पिणाम् । स्वस्मिंस् तदर्पणापेक्षा नो न चास्त्य् अन्यद् अर्पकम् ॥१४॥
अर्पकान्तरा राहित्ये ऽप्य् अस्त्य् एषां तत् स्वभावता । मा भूत् तथानुभाव्यत्वं बोधात्मा तु न हीयते ॥१५॥
स्वयं ज्योतिर् भवत्य् एष पुरो ऽस्माद् भासते ऽखिलात् । तम् एव भान्तम् अन्वेति तद् भासा भास्यते जगत् ॥१६॥
येनेदं जानते सर्वं तत् केनान्येन जानताम् । विज्ञातारं केन विद्याच्च् चक्तं वेद्ये तु साधनम् ॥१७॥
स वेत्ति वेद्यं तत् सर्वं नान्यस् तस्यास्ति वेदिता । विदिताविदिताभ्यां तत् पृथग् बोध स्वरूपकम् ॥१८॥
बोधे ऽप्य् अनुभवो यस्य न कथंचन जायते । तं कथं बोधयेच् छास्त्रं लोष्टं नरसमाकृतम् ॥१९॥
जिह्वा मे ऽस्ति न वेत्य् उक्तिर् लज्जायै केवलं यथा । न बुध्यते मया बोधो बोद्धव्य इति तादृषी ॥२०॥