तत्त्वविवेकाख्यम् - श्लोक २१ - ४०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


रजो ऽशैः पञ्चभिस् तेषां क्रमात् कर्मेन्द्रियाणि तु । वाक् पाणि पाद पायु उपस्थ अभिधानानि जज्ञिरे ॥२१॥

तैः सर्वैः सहितैः प्राणो वृत्ति भेदात् स पञ्चधा । प्राणो ऽपानः समानश् च् ओदान व्यानौ च ते पुनः ॥२२॥

बुद्धि कर्मेन्द्रिय प्राण पञ्चकैर् मनसा धिया । शरीरं सप्त दशभिः सूक्ष्मं तल् लिङ्गम् उच्यते ॥२३॥

प्राज्ञस् तत्र अभिमानेन तैजसत्वं प्रपद्यते । हिरण्यगर्भ ताम् ईशस् तयोर् व्यष्टि समष्टिता ॥२४॥

समष्टिर् ईशः सर्वेषां स्वात्म तादात्म्य वेदनात् । तद् अभावात् ततो ऽन्ये तु कथ्यन्ते व्यष्टि संज्ञया ॥२५॥

तद् भोगाय पुनर् भोग्य भोग् आयतन जन्मने । पञ्ची करोति भगवान् प्रत्येकं वियद् आदिकम् ॥२६॥

द्विधा विधाय च् ऐक् ऐकं चतुर्धा प्रथमं पुनः । स्व स्वेतर द्वितीय अंशैर् योजनात् पञ्च पञ्च ते ॥२७॥

तैर् अण्डस् तत्र भुवन भोग्य भोगाश्रय् ओद्भवः । हिरण्यगर्भः स्थूले ऽस्मिन् देहे वैश्वानरो भवेत् ॥२८॥

तैजसा विश्वतां याता देव तिर्यङ् नरादयः । ते पराग् दर्शिनः प्रत्यक् तत्त्व बोध विवर्जिताः ॥२९॥

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते । नद्यां कीटा इव् आवर्ताद् आवर्त अन्तरम् आशु ते ।

व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥३०॥

सत् कर्म परिपाकात् ते करुणा निधिन् ओद्धृतः । प्राप्य तीर तरु च्छायां विश्राम्यन्ति यथा सुखम् ॥३१॥

उपदेशम् अवाप्य् ऐवम् आचार्यात् तत्त्व दर्शिनः । पञ्च कोश विवेकेन लभन्ते निर्वृतिं पराम् ॥३२॥

अन्नं प्राणो मनो बुद्धिर् आनन्दश् चेति पञ्च ते । कोशास् तैर् आवृताः स्वात्मा विस्मृत्या संसृतिं व्रजेत् ॥३३॥

स्यात् पञ्चीकृत भूत् ओत्थो देहः स्थूलो ऽन्न संज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह ॥३४॥

सात्त्विकैर् धीइन्द्रियैः साकं विमर्शात्मा मनोमयः । तैर् एव साकं विज्ञानमयो धीर् निश्चयात्मिका ॥३५॥

कारणे सत्त्वम् आनन्दमयो मोदादि वृत्तिभिः । तत् तत् कोशैस् तु तादात्म्याद् आत्मा तत् तन्मयो भवेत् ॥३६॥

अन्वय व्यतिरेकाभ्यां पञ्च कोश विवेकतः । स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥३७॥

अभाने स्थूल देहस्य स्वप्ने यद् भानम् आत्मनः । सो ऽन्वयो व्यतिरेकस् तद् भाने ऽन्यान् अवभासनम् ॥३८॥

लिङ्गभाने सुषुप्तौ स्याद् आत्मनो भानम् अन्वयः । व्यतिरेकस् तु तद् भाने लिङ्गस्य आभानम् उच्यते ॥३९॥

तद् विवेकाद् विविक्ताः स्युः कोशाः प्राण मनो धियः । ते हि तत्र गुणावस्था भेद मात्रात् पृथक् कृताः ॥४०॥

N/A

References : N/A
Last Updated : March 09, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP