तत्त्वविवेकाख्यम् - श्लोक १ - २०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


प्रत्यक् तत्त्व विवेकः । नमः श्री शङ्करानन्द गुरु पाद अम्बु जन्मने । सविलास महा मोह ग्राह ग्रास् ऐक कर्मणे ॥१॥

तत् पाद अम्बुरुह द्वन्द्व सेवा निर्मल चेतसाम् । सुख बोधाय तत्त्वस्य विवेको ऽयं विधीयते ॥२॥

शब्द स्पर्श आदयो वेद्या वैचित्र्याज् जागरे पृथक् । ततो विभक्ता तत् संविद् ऐक्य रूप्यान् न भिद्यते ॥३॥

तथा स्वप्ने ऽत्र वेद्यं तु न स्थिरं जागरे स्थिरम् । तद् भेदो ऽतस् तयोः संविद् एक रूपा न भिद्यते ॥४॥

सुप्त् ओत्त्थितस्य सौषुप्त तमो बोधो भवेत् स्मृतिः । स च अवबुद्ध विषया ऽवबुद्धं तत् तदा तमः ॥५॥

स बोधो विषयाद् भिन्नो न बोधात् स्वप्न बोधवत् । एवं स्थान त्रये ऽप्य् एका संवित् तद्वद् दिनान्तरे ॥६॥

मास अब्दा युग कल्पेषु गत् आगम्येष् वनेकधा । नोदेति न अस्तमेत्य् एका संविद् एषा स्वयं प्रभा ॥७॥

इयम् आत्मा परानन्दः पर प्रेमास्पदं यतः । मा न भुवं हि भूयासम् इति प्रेम् आत्मन् ईक्ष्यते ॥८॥

तत् प्रेम् आत्मार्थम् अन्यत्र नैवम् अन्यार्थम् आत्मनि । अतस् तत् परमं तेन परम् आनन्दत् आत्मनः ॥९॥

इत्थं सच्चित् परानन्दात्मा युक्त्या तथाविधम् । परं ब्रह्म तयोश् च् ऐक्यं श्रुत्य् अन्तेषु उपदिश्यते ॥१०॥

अभाने न परं प्रेम भाने न विषये स्पृहा । अतो भानेऽप्य् अभाता ऽसौ परमानन्दत् आत्मनः ॥११॥

अध्येतृ वर्ग मध्यस्थ पुत्र अध्ययन शब्दवत् । भाने ऽप्य् अभानं भानस्य प्रतिबन्धेन युज्यते ॥१२॥

प्रतिबन्धो ऽस्ति भाति इति व्यवहार अर्ह वस्तुनि । तन् निरस्य विरुद्धस्य तस्य् ओत्पादनम् उच्यते ॥१३॥

तस्य हेतुः समान अभिहारः पुत्र ध्वनि श्रुतौ । इह अनादिर् अविद्य् ऐव व्यामोह् ऐक निबन्धनम् ॥१४॥

चिद् आनन्दमय ब्रह्म प्रतिबिम्ब समन्विता । तमो रजः सत्त्व गुणा प्रकृतिर् द्विविधा च सा ॥१५॥

सत्त्व शुद्ध्य् अविशुद्धिभ्यां माय् आविद्ये च ते मते । माया बिम्बो वशी कृत्य तां स्यात् सर्वज्ञ ईश्वरः ॥१६॥

अविद्या वशगस्त् वन्यस् तद् वैचित्र्याद् अनेकधा । सा कारण शरीरं स्यात् प्राज्ञस् तत्र अभिमानवान् ॥१७॥

तमः प्रधान प्रकृतेस् तद् भोगाय् एश्वर् आज्ञया । वियत् पवनतेजो ऽम्बु भुवो भूतानि जज्ञिरे ॥१८॥

सत्त्व अंशैः पञ्चभिस् तेषां क्रमाद्ध् इन्द्रिय पञ्चकम् । श्रोत्र त्वग् अक्षि रसन घ्राण् आख्याम् उपजायते ॥१९॥

तैर् अन्तः करणं सर्वैर् वृत्ति भेदेन तद् द्विधा । मनो विमर्श रूपं स्याद् बुद्धिः स्यान् निश्चय् आत्मिका ॥२०॥

N/A

References : N/A
Last Updated : March 09, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP