वेंकटेश्वर माहात्म्य - द्वादशोध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


जनक उवाच ॥

तत किमकरोत्कृष्ण श्रीनिवास सतांगति ॥ तन्मामाचक्ष्व भगवन्विस्तरेण महामुने ॥१॥

शतानंद उवाच ॥

श्रीलक्ष्मीसहित श्रीमॉंच्छ्रीनिवास पितामहम् ॥ अबवीत्प्रीतमनसा प्रयुंजान प्रयोजने ॥२॥

श्रीनिवास उवाच ॥

कर्माणि पुत्र कार्याणि कुरु शीघ्रमतांद्रित ॥ स तद्वचनमाकर्ण्य ससंतोष पितामह ॥३॥

कटाहभांडनिचयानानेतुं प्रेषयत्सुरान् ॥ गरुडप्रमुखान्वीरान्नायणपरायणान् ॥४॥

ते तस्य वचनं श्रुत्वा क्षणेन गरुडादय ॥ कटज्ञहादीन्गृहीत्वाथ समाजग्मुरनेकधा ॥५॥

अपूरयत्ततस्तेषु वरुण सलिलाधिप ॥ सुगंधं तोयनिचयं दिव्यतीर्थोद्भवं शुभम् ॥६॥

तत सर्वा सुवासिन्यो वस्त्रालंकारमंडिता ॥ अरुंधतीं पुरस्कृत्य कृतमंगलकौतुका ॥७॥

सदीपकलशानां च पार्वतीमुपधारणे ॥ चक्रु समस्तान्मांगल्यान्ससावित्रीपुरोगमा ॥८॥

गायंत्य शुभगानानि दशाकृतिकृतानिच ॥ कृष्णावतारविभवं गायंत्यश्र्चामरांगना ॥९॥

सिद्धांगनाश्र्च राजेंद्र तथा वैखानसांगना ॥ एवं प्रवृत्ते पुण्येऽस्मिन्विवाहे वेंकटेशितु ॥१०॥

स्नुषाश्र्च वासुदेयस्य हसंत्यश्र्चारुलोचना ॥ श्र्वश्रूं च पुरत कृत्वा मातरं बकुलां हरे ॥११॥

एवं महोत्सवस्तत्र समभूत्सप्तमीदिने ॥ चतुर्दिक्षु च संस्थाप्य कलाशान् जलपूरीतान् ॥१२॥

सूत्रेण वेष्टयित्वा तु तन्मध्ये रत्नपीठिकाम् ॥ संस्थाप्य संभ्रमैर्यक्ता इदमाहु सुरांगना ॥१३॥

ऊत्तिष्ठ पुरुषश्रेष्ठ तिष्ठ त्वं सूत्रमंडले ॥ स इत्थमुक्तो भगवान्योषितां पुरतो हरि ॥१४॥

प्रोवाच दीनवचनं प्रस्त्रवन्नेत्रजं जलम् ॥ पितामह महाप्राज्ञ विवाहविभवे मम ॥१५॥

क करोत्यभिषेकं तु तैलेनाशि क्रमेण वै ॥ यस्य नास्ति महाराज माता वापि पिता तथा ॥१६॥

विवाहे च मरणेचैव त्तस्य धिग्जन्म जीवनम् ॥ भगिन्यो भ्रातरश्र्चैव मातुला भागिनेयका ॥१७॥

न मे संति महाप्राज्ञ क करोत्याभिषेचनम् ॥ मातापितृविहीनानां का गतिर्वै भविष्यति ॥१८॥

न च मातृसमं मित्रं जनकेन समं सुखम् ॥ न भार्यासदृशं भाग्यं न पुत्रेण समा गति ॥१९॥

न भातृणां सम स्नेहो न विष्णोर्देवता परा ॥ इति संभाष्य गोविंदो लीलामानुषविग्रह ॥२०॥

रुरोद लोकरीत्यैव पश्यन्ब्रह्माननं हरि ॥ उपधार्य हरेर्वाक्यं संभव कंजसंभव ॥२१॥

सांत्वयन्वासुदेवं तु भारतीमाह भूपते ॥ ब्रह्मोवाच ॥ किमर्थं मोहयसि नो मायापंजरवासिन ॥२२॥

कोऽपि नास्तीति यत्प्रोक्तं तदसत्यं चतुर्भुज ॥ पुत्रोऽहं तव कल्याण पौत्र साक्षात्र्त्रिलोचन ॥२३॥

मन्मोथाऽन्य पुरमान्पुत्र पौत्रपुत्र षडानन ॥ जगत्प्राणो ज्येष्ठपुत्र स्नुषा ते भारती हरे ॥२४॥

सरस्वत्यादिका सर्वा स्त्रियस्त्वत्पादसेविका ॥ त्वं पुमान्परम साक्षाज्जगद्धात्री तवांगना ॥२५॥

क्रीडामात्रामिदं मन्ये त्वत्कृतं पुरुषोत्तम ॥ एवं भिवमापन्नस्त्वं नो मोहयसे वृथा ॥२६॥

इत्थमुक्ते चतुर्वक्रे वासुदेवं रमासखम् ॥ रमां संकेतयामास सा रमा वाक्यमब्रवीत् ॥२७॥

श्रीरमोवाच ॥

विदितं हृदयं देव तव वेंकटवल्लभ ॥ तैलाभ्यंगादिकर्माणि करिष्ये पुरुषोत्तम ॥२८॥

उत्तिष्ठ त्यज दुखं ते समारोह वरासनम् ॥ स रमागिरमाकर्ण्य संतोषन्नयनाज्जलम् ॥२९॥

मुंचन्मुनिवरान्राजन्नंदयन्नरसारथि कश्यपोत्रिभरद्वाजविश्र्वामित्रपुरोगमान् ॥३०॥

प्रणिपत्य वसिष्ठं स आह विश्र्वं विडंबयन् ॥

श्रीनिवास उवाच ॥

अनुज्ञां देहि मे ब्रह्मन्मज्जनार्थं महामुने ॥३१॥

तथास्वित्यब्रवीत्कृष्णं वसिष्ठ स पुरोहित ॥ सपत्नीकान्सुरान्सर्वान्सभार्यानृषिमंडलान् ॥३२॥

अनुज्ञाप्यानुगै सार्धमुदतिश्ठत्सुरोत्तम ॥ विकीर्य केशपुंखानि पूर्वाभिमुखभास्थित ॥३३॥

आरोपयन्रत्नपीठे श्रीनिवासं सुयोषित ॥ तासां मध्ये सिंधुपुत्री रमा कमललोचना ॥३४॥

रुक्मपात्रं सभादाय तैलपूरितमादरात् ॥ अभ्यंजयत्तदा देवी स्वाशीर्भिरभिनंद्य तम् ॥३५॥

श्रीरमोवाच ॥

दीर्घायुभवं गोविंद बहुपुत्रो धनाधिप ॥ चतुर्दशानां लोकानमेकछत्राधिपो भव ॥३६॥

एवमुक्ता तदा देवी अभ्यषिंचद्रमा हरिम् ॥ देवांगं मर्दयामास तैलेनातिसुगंधिना ॥३७॥

तदा दद्रौ ब्रह्मपत्नी चंद्रकाश्मीरकदर्मम् ॥ तेन मार्जारतैलेन तथा मृगमदेन च ॥३८॥

हरिद्राचूर्णापिष्ठेन निर्मुज्य च वृषाकपिम् ॥ सुमंगलैर्वाद्यघोषै सह सर्वपरिच्छदै ॥३९॥

समंतात्सर्ववीथीषु करिकुंभैरुपाहृतै ॥ समंतात्पुण्यतीर्थस्थपुण्यतीर्थाभिपूरितै ॥४०॥

सरत्नै कांचनैफा कुंभै स्थापितोदकमिश्रितै ॥ अभिषेकं ततश्र्चके्र कमला जगदीशितु ॥४१॥

आपादं मौलिपर्यंत सा कृत्वोद्वर्त्तनं हरे ॥ मेने कृतार्थमात्मानं सेवया केशवस्य च ॥४२॥

चतस्रस्तु सुवासिन्यपाणिभिकळशानृप ॥ धृत्वा मोक्तिकतोयैस्तमभ्यषिंचन्सुरेश्र्वरम् ॥४३॥

जलैर्नीराजयामासु पुत्रवान्धनवान्भव इत्याशिषाभिनंदंत्स श्रीनिवासं सुरांगना ॥४४॥

गायंत्य शुभगीतानि कौंकुमै सलिलैस्तत ॥ आरार्तिकां मांगलिकीं सर्वाश्र्चक्रुस्तथांगना ॥४५॥

तदा ददौ ब्रह्मपत्नी सावित्री वस्त्रमुत्तमम् ॥ तेन वस्त्रेण सर्वांगं ममार्ज विधिवद्रमा ॥४६॥

पार्वती धूपमादाय ददौ लक्ष्मीकलशान्नृप करांबुजे ॥ धूपयित्वा सुधूपेन विकीर्योज्झितबंधनान् ॥४७॥

बबंध कमला देवी मूर्धजान्म धुघातिन ॥ आदर्शं दर्शयामास सावित्री स्वर्णभूषितम् ॥४८॥

रतीशाच्यौ चामरे च वीजंत्यौ चंद्रसन्निभे ॥ छत्रं दधार सा देवी भारती भक्तिसंयुता ॥४९॥

पादुके पददौ भद्रा गंगा गंगापितुस्तदा ॥ विधाय पादौ वरपादुकाद्वये पाद प्रपन्नार्तिहरो हरि स्वयम् ॥

याभ्यां पुरा पावनतां गता मुने शापेन शैलत्वमुपागताबला ॥५०॥

पादुकाभ्यां चरन्भूमिं वरासनमगाद्धरि ॥५१॥

ब्रह्मादय सुरश्रेष्ठा इंद्राद्या लोकपालका कश्यपादिमुनिश्रेष्ठा वसिष्ठादितपोधना ॥५२॥

सनकाद्याश्र्च योगींद्रा भृग्वाद्याश्र्च ऋषीश्र्वरा ॥ अर्यमाद्याश्र्च पितरस्तुंबुर्वाद्याश्र्च गायका ॥५३॥

रंभाद्याश्र्चैव नर्तक्य सूतमागधबंदिन ॥ उपासतासने रम्यं पश्यंत पुरुषोत्तमम् ॥५४॥

स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहन ॥ अष्टमींदुकलाकारे ललाटे दर्पणस्फुटे ॥५५॥

ऊर्ध्वपुंड्रं दधाराथ श्रीनिवास संतां गति ॥ तदा मुहूर्तकालस्तु दर्शितो दैवचिंतकै ॥५६॥

तदाह भारतीं राजन्बकुला लोकमातरम् ॥ लेपनं कुरु कल्याणि ललाटे कुंकुमेन तु ॥५७॥

एवमुक्ता देवमात्रा रमा कुंकुममालिखत् ॥५८॥

भूषणानि स्वपुत्रस्य प्रददौ जगदीशितु ॥५९॥

याचयित्वा महाराज कुबेरमथ सा रमा ॥ आदाय तां ददर्शाथ भगवानाह मां नृप ॥६०॥

भगवानुवाच ॥

संभूषय वरारोहे भूषणैर्मा वरानने ॥ एवमुक्ता हसंती भूषणैस्तमभूषयत् ॥६१॥

पीतांबरं दधाराशु कटिसूत्रमनर्ध्यकम् ॥ स्वर्णैराभरणैस्त्रैर्भूषितस्तु ततो हरि ॥६२॥

कश्यपोत्रिभरद्वाजवसिष्ठादिमहामुनीन् ॥ नमश्र्चके विरिंचेशविनुतोऽपि विडम्बयन् ॥६३॥

सन्ध्यामुपास्य विधित्कृत्वा तात्कालिकी क्रिया ॥ वसिष्ठमाहूयोवाच सन्तोषोद्रिक्तमानस ॥६४॥

श्रीभगवानुवाच ॥

मुनिश्रेष्ठ वसिष्ठ त्वमुत्तरं कार्यमाचर ॥ वासुदेववच श्रुत्वा वसिष्ठो वदतां वर ॥६५॥

विरच्य देविकां तत्र मौक्तिकैश्र्चतुरस्रिकाम् ॥ श्रीनिवास प्रतिष्ठाप्य संकल्पविधिपूर्वकम् ॥६६॥

चक्रे पुण्याहकर्माणि वरयित्वा द्विजन्मन ॥ अष्टवर्ग ततश्र्चके सृष्टिकर्ता पितामह ॥६७॥

ततो नियुक्ताविधिना दत्वा तांबूलदक्षिणा ॥ विप्राणां वेदविदुषां तथा मंगलवादिनाम् ॥६८॥

ददुर्दैवा धनं वस्त्रं वासुदेवस्य ये प्रिया ॥ तत समाप्य कर्भाणि शास्त्रोक्तानि यथाविधि ॥६९॥

कुलदैवमपृच्छत्तं वसिष्ठो वसुधाधिप ॥ स तस्य वचनं श्रुत्वा भगवानाह वै मुनिम् ॥७०॥

श्रीभगवानुवाच ॥

वसिष्ठ मम कल्याणि कुलदेवी शमी स्मृता ॥ ममापि पाण्डवानां च नात्र कार्या विचारणा ॥७१॥

वसिष्ठोवाच ॥

क्वचास्ति स द्रुमश्रेष्ठ इत्युक्तेऽगस्त्य ऊचिवान् ॥

अगस्त्य उवाच ॥

अत्रैवोत्तरदिग्भागे तीर्थे कौमारसंज्ञके ॥७२॥

वर्तते वृक्षराजश्र्व तत्र गत्वाथ तं द्रुमम् ॥७३॥

कृत्वा प्रदक्षिणं राजन्भगवान् लौकिकीतनु ॥ नमश्र्चके्र शमीवृक्षं कुलदैवं वृषाकपि ॥७४॥

श्रीभगवानुवाच ॥

शमि पापं शमय मे शमि शत्रुविनशिनि ॥ अर्जुनस्य धुनर्धारी रामस्य प्रियदर्शनि ॥७५॥

मातर्मे कुरु कल्याणमविघ्नेन सुरप्रिये ॥ कलह सर्वदेवांना राज्ञस्तस्य च नोद्भवेत् ॥७६॥

इति संप्रार्थ्य देवेश कुलदेवीं सुरार्चिताम् ॥ अचयित्वा विधानेन स्कन्धमल्पं महीपते ॥७७॥

निकृत्य शिरसा धृत्वा वादित्राणां स्वनेन च ॥ पूरयन्नंवरं सर्वं पुन स्वस्थानमागत ॥७८॥

श्रीनिवास उवाच ॥

सा कुत्र स्थापत्ये ब्रह्मन्वसिष्ठ कुलदेविका ॥ वदत्येवं वासुदेवे वसिष्ठं वसुधाधिप ॥७९॥

नारदश्र्चांतिकं गत्वा प्रोवाच मधुसूधनम् ॥

श्रीनारद उवाच ॥

वाराहशरणे देव स्थाप्यतां कुलदेवताम् ॥८०॥

यस्मिन्स्थाने स्वकं धाम तत्र तां स्थाप्य पूजयेत् ॥ एवं विद्वन्मतं पूर्वं निर्मितं परमेष्ठिना ॥८१॥

स नारदवच श्रुत्वा वसिष्ठसहितो हरि ॥ वराहशरणं गत्वा वच एतत्तमब्रवीत् ॥८२॥

श्रीनिवास उवाच ॥

प्रसादात्तव गोविंद विवाहं कर्तुमुत्सुक ॥ सहितो धरया सार्धं त्वमागच्छ नृपालयम् ॥८३॥

गुरुस्त्वं सर्वलोकानां कृतकृत्यं च मां कुरु ॥ श्रीनिवासवच श्रुत्वा भूधरो वाक्यब्रवीत् ॥८४॥

श्रीवराह उवाच ॥

मम स्थाने महाराज बकुलां विद्धि मे सखीम् ॥ क्षेत्रमेतन्मदीयं यत्तस्मान्मांत्यक्तुमर्हसि ॥८५॥

वराहवचनं श्रुत्वा वासुदेवोऽभ्यभाषत् ॥

श्रीनिवास उवाच ॥

कुलदेवीप्रतिष्ठां च करिष्ये शरणे तव ॥८६॥

इत्येवं प्रार्थयंतं तं श्रीनिवासं परात्परम् ॥ तथास्त्वित्यब्रवीद्राजन्कोलरूपी हरी स्वयम् ॥८७॥

कलशे स्वर्णखचिते मुक्ताराशिं प्रपृर्य च ॥ वस्त्रेण वेष्टयित्वाथ पूजां कृत्वा विधानत ॥८८॥

प्रतिष्ठाप्य वराहस्य संन्निधौ प्राकृतो यथा ॥ स्वस्थानं पुनरागत्य श्रीनिवास सतांगति ॥८९॥

अभोजनेन गंतव्यं नारायणपुराव्हयम् ॥ आकाशराजनगरमिति निश्र्चित्य चेतसि ॥९०॥

ब्रह्माणब्रवीद्राजंसत्वरया गमने रत ॥

श्रीनिवास उवाच ॥

विधैऽद्यैव नियुंक्ष्वैतां सेनां ते चतुरंगिणीम् ॥९१॥

शीघ्रं गंतुं चतुर्वक्र नारायणपुरं प्रति ॥ माभूत्कालो वृथैवात्र दूराध्वा हास्य वर्त्तते ॥९२॥

बलं सर्वं वने तात वृद्धबालाबलान्वितम् ॥ शनैर्गच्छतु भो पुत्र मुनिमण्डलपूर्वकम् ॥९३॥

स तस्य वचनं श्रुत्वा चक्रपाणेश्र्चतुर्मुख ॥ वचनं व्याहरच्छीघ्रं पितर पुरुषोत्तमम् ॥९४॥

ब्रह्मोवाच ॥

कृत्वा पुण्याहकर्माणि प्रतिष्ठाप्य कुलेश्र्वरीम् ॥ नोपवासेन गोविंद गंतव्यामिति चे मति ॥९५॥

मुनय क्षुधिता सर्वे बालवृध्दादयस्तथा ॥ वदत्येवं चतुवके्र चक्रपाणिरभाषत ॥९६॥

श्रीनिवास उवाच ॥

वचनानि महार्हाणि तव पुत्र पितामह ॥ कथं कार्यंमकार्यं च नैव जानासि पुत्रक ॥९७॥

देशकालावनालोच्य भाषसे बालिशो वथा ॥ वर्षाणामयुतं तात रातं मे कानने गिरौ ॥९८॥

किंचिदु छ्रियमापन्नं कथं पश्यसि चक्षुषा ॥ ज्ञात्वापि रिक्ततां वाचा त्वेवमुक्ते कथं भवेत् ॥९९॥

वदत्येवं स्वपितरि ब्रह्मा लोकपितामह ॥ तूष्णीमास महाराज भगवत्पुरतस्तदा ॥१००॥

नीलकंठोऽब्रवीद्वाक्यं पितरं स्वपितुस्तत ॥

नीलकंठ उवाच ॥

श्रोतव्यं वचनं तात मम बालस्य माधव ॥१॥

विवाह करणे देव तथा भवनकर्मणि ॥ प्रारब्धस्यांतपर्यंत यो हि यत्नं समाचरेत् ॥२॥

स पुमानितिविझेयो नरलोके नरेश्र्वर संपाद्या सर्वसंभारा शुभकार्येषु पुष्कला ॥३॥

बहुलार्थव्ययेनापि तदभावे ऋणं चरेत् ॥ स शंशुवचनं श्रुत्वा शंबरारिपिताब्रवीत् ॥४॥

श्रीभगवानुवाच ॥

सभायां किमिदं प्रोक्तं पौरुषेण वच शिव ॥ को वाद्य ऋृणदातास्ति विवाहस्याथ पुष्कलम् ॥५॥

पुरुष पौरुषाद्यत्नमाचरेन्नैव भाषयेत् ॥ एवमुक्त्वा शिवं प्राह कुबेरं पुरुषोत्तम ॥६॥

श्रीभगवानुवाच ॥

निमित्तं वर्वते किंचिदित एहि धनाधिप ॥ इत्यवमुक्तो धनद पितामहसमन्वित ॥७॥

समुत्तस्थौ सभामध्यात्त्वारितं शिवसंयुत ॥ ब्रह्मणा स कुबेरेण शंकरेण रमापति ॥८॥

एकांति स्वामितीर्थस्य पश्र्चिमेऽश्र्वत्थसन्निधौ ॥ गत्वोवाच धनेशानं श्रीनिवास सतांगति ॥९॥

श्रीनिवास उवाच ॥

साधयस्व महाभाग कल्याणं मे कलौ युगे ॥ दत्वा धनं यावदुक्तं पुत्रेण नरवाहन ॥११०॥

वासुदेववच श्रुत्वा वसुपालोऽ ब्रवीद्धरिम् ॥

कुबेर उवाच ॥

त्वदधीनं देव सर्वं जगदेतच्चगचरम् ॥११॥

बहुनां जीवराशीनां मध्ये कोऽहं जगत्पते ॥ नियोजितेन भवता रक्षितं त्वद्धनं मया ॥१२॥

तद्दानादानयो शक्तिर्मम नास्ति खगध्वज ॥ ग्रहीता त्वं च दाता च स्वतन्त्रोतस्त्वमेव हि ॥१३॥

ब्रुवत्येवं धनपतौ श्रीपतिर्वाक्यमब्रवीत् ॥

श्रीनिवास उवाच ॥

एकस्मिन्ब्रह्मदिवसे त्ववतारा दशस्मृता ॥१४॥

ममावतारसमये नानयामि धनं गृहात् ॥ भूगतं च धनं राजन्नैव नेष्यामि मद्रुहम् ॥१५॥

यथायुगं यथाकालं यथादेशं यथावय ॥ अवतारमहं कुर्वन् रमेऽत्र रमया सह ॥१६॥

निमिऽमात्रमपि मे धनं त्वं धनदो धुना ॥ युगानुसारिणे देहि देशकालानुसारत ॥१७॥

स तस्य वचनं श्रुत्वा कुबेरो वाक्यमब्रवीत् ॥

कुबेर उवाच ॥

युगानुसारीणस्तेद्य कथं दास्यामि चक्रभृत् ॥१८॥

यदि दत्तं त्वया पत्रं तदा दास्यामि ते वसु ॥ अधन सधनं लोके यथा कांक्षाति भूमिप ॥१९॥

तथैव नरशार्दूल भगवांल्लौकिकीतन ॥ एवं तद्वचनं श्रुत्वा हरिब्रह्माणमब्रवीत् ॥१२०॥

श्रीनिवासउवाच ॥

कथं लेख्यं मया पत्रमृणादाने वदाद्य मे ॥

ब्रह्मोवाच ॥

ऋृणग्राही श्रीनिवासो धनदायी धनेश्र्वर ॥२१॥

आत्मकार्यनिमित्तं तु कल्याणार्थं कलौ युगे ॥ वैशाखे शुक्लसप्तम्यां विलंबे चैव वत्सरे ॥२२॥

निष्काणां राममुद्राणां लक्षाणि च चतुर्दश ॥ द्रव्यं दत्तहं धनेशेन वृद्धिग्रहणकारणात् ॥२३॥

सवृद्धिदित्सता मूलं स्वीकृतं चक्रपाणिना ॥ विवाहवर्षमारभ्य सहस्रांते धनं पुन ॥२४॥

दातव्यं यक्षराजाय श्रीनिवासेन शाङ्णि ॥ एक साक्षी चतुवक्त्रो द्वितीयस्तु त्रिलोचन ॥२५॥

तृतियोऽश्रवत्थराजस्तु मा संदेहो धनेश्र्वर ॥ इत्येतदृणपत्रं तु श्रीनिवासोऽलिखत्स्वयम् ॥२६॥

एवं पत्रार्थमाकर्ण्य ऋणपत्रं रमापति ॥ लिखित्वा तत्करे दत्वा धनेशं चाब्रवीद्धरि ॥२७॥

धनं देहि धनेशान पत्रे लिखितमात्रकम् ॥ एवमुक्तो वसुपतिर्वासुदेवेन भूमिप ॥२८॥

ददौ धनं कुबेरेरस्तु क्लृप्तसंख्यं वृषाकपे॥ दृष्ट्वा तद्धनराशिं तु तत्करेऽदाद्धरिर्नृप ॥२९॥

कुबेरमब्रवीद्देव संभारानयनं प्रति ॥

श्रीभगवानुवाच ॥

आनीयतां तण्डुलं च प्रस्थमूलं धनेश्र्वर ॥१३०॥

माषादिकं च मुद्रादीग्गोधूमांश्र्च समानय ॥ गुडतैलमधुक्षीरशर्कराज्यदधीनि च ॥३१॥

वस्त्राणि योग्यमूल्यानि सोत्तरीयाणि चानय ॥ तिलहिंगुमरीचादिजीरसर्षपमेथिकान् ॥३२॥

हरिद्राक्तानि कुर्वीथा वस्त्राणि द्विजयोषिताम् ॥ कंबलांश्र्च धनाधीश क्रीयंतामिति चाब्रवीत् ॥३३॥

देवानामुत्तरीयं च देवस्त्रीणां दुकूलकान् ॥ पूगीफलानि दिव्यानि नागवल्लिदलानि च ॥३४॥

एलालवङ्गकर्पूरमृगनाभिरसं तथा ॥ माङ्गल्यतन्तुं कन्यार्थं कनिष्ठांगुलिमुद्रिकाम् ॥३५॥

हस्तांगुलीयकं मेऽद्य कुबेर कुरु शीघ्रत ॥ इति गोविंदवचनं श्रुत्वासौ निर्ममे क्षणात् ॥३६॥

कुबेर उवाच ॥

त्वत्प्रसादेन गोविंद सर्वं सज्जीकृतं मया ॥ पाकार्थं पुण्डरीकाक्ष नियुंक्ष्वाग्निमत परम् ॥३७॥

एवमुक्त कुबेरेण श्रीनिवास सतां गति ॥ षण्मुखं प्रेषयामास वन्हेव्राहानकारणात् ॥३८॥

स गत्वा त्वरितं स्कद शासनं ज्ञापयव्हरे ॥ संप्राप्तो वायुवेगेन जातवेदा जनार्दनम् ॥३९॥

तत प्रोवाच भगवांस्त्वरितं हव्मवाहनम् ॥

श्रीभगवानुवाच ॥

क्षणाद्भयान्नशाकादि कुरु स्वाहासमन्वित ॥१४०॥

इति नारायणवच श्रुत्वाग्निस्तमभाषत ॥

अग्निरुवाच ॥

पाकार्थ भाजनं कृष्ण नास्त्येकमपि मे हरे ॥४१॥

कार्य पाको महाराज बहूनां भक्तवत्सल ॥ स तस्य वचनं श्रुत्वा शाङ्गर्यग्निं प्रत्यभाषत ॥४२॥

भवतां भवने तात किंचिज्जाते महोत्सवे ॥ भाजनानि महाभाग वर्धंते वटबीजवत् ॥४३॥

मम कल्याणसमये भांडमेकं न दृश्यते ॥ दैवमेव परं मन्ये सर्वेषां सर्वसाधने ॥४४॥

उपायं शृणु सप्तास्य पाकार्थं भाजनानि मे ॥ अन्नं स्वामिसरोमध्ये सूपं पापविनाशने ॥४५॥

वियद्रंगाजले वन्हे परमान्नं गुडान्वितम् ॥ देवतीर्थे शाकमग्ने तुंबुतीर्थे घृतं तथा ॥४६॥

कुमारधारिकातीर्थे भक्ष्याणि विविधानि च ॥ पांडुतीर्थे च कर्तव्यस्तिंत्रिणीरस उत्तम ॥४७॥

व्यंजनान्यन्यतीर्थेषु कंदमूलफलैरपि ॥ क्रियतां लेह्यपेयानि तीर्थेष्वन्येषु पावक ॥४८॥

वासुदेवस्य वाक्यानि प्रशसंसुर्महर्षय ॥ तथा च कृतवाञ्ञतवेदा वेदविशारद ॥४९॥

एवं विचित्रकर्माणि हरेर्वैकुंठवासिन युगानुसारिणस्तस्य तदद्भुताविडंबनम् ॥१५०॥

अचिंत्यं देवताकार्यमवाङ्मानसगोचरम् ॥

अग्निरुवाच ॥

दध्योदनातेलान्ने च परमान्नं मधुस्रवम् ॥५१॥

माषापूपा गुडापूपा शाकद्वयमत शाकद्वयमत परम् ॥ स तित्रिणीरसोपेतं कूष्मांडं सूपपूरितम् ॥५२॥

कंदमूलफलंवापि भक्ष्यकारेण कारितम् ॥ सर्वं सुपक्वतां नीतं त्वत्प्रसादेन केशव ॥५३॥

अमंत्रय द्विजेंद्रांश्र्च सुरानपि मुनीनपि ॥ अग्निवाणीं समाकर्ण्य श्रीनिवासो निरामय ॥५४॥

संप्रेषयाच्छिवसुतं षण्मुखं मिथिलेश्र्वर ॥ स जगामातिवेगेन जपतोऽग्निपरायणान् ॥५५॥

ब्राह्मणान्वेदविदुष आजुहाव जनाधिप ॥ पाक संपूर्णतां प्राप्त उत्तिष्ठ सुरद्विजा ॥५६॥

इति तेन समाहूता कश्यपात्रिपुरोगमा ॥ देवाश्र्च निकटं तस्य पाकस्थानस्य भेजिरे ॥५७॥

विभज्य तत्र विधिवत्पात्रभूतान्पृथक्पृथक् ॥ पंक्तीश्र्च कारयित्वाथ तारतम्यानुसारत ॥५८॥

पात्राणि हृ्य़स्तृणाच्छंभु पात्रापात्रविचक्षण ॥ पांडुतीर्थं समारभ्य श्रीशैलावधिभूसुरा ॥५९॥

देवाश्र्च निबिडीभूतास्तस्मिन्कृष्णमहोत्सवे ॥ स्थिता देवद्विजास्तत्र स्वस्वपात्रांतिके पृथक् ॥१६०॥

तदाह भगवान्राजन्ब्रह्माणं चतुराननम् ॥

श्रीभगवानुवाच ॥

अनर्पितान्नं भो पुत्र नैव देयं द्विजन्मनाम् ॥६१॥

ब्रह्मोवाच ॥

सर्वज्ञं सर्वभोक्तारं सर्वलोकेश्र्वरेश्र्वररम् ॥ त्वामेव वेद्मि गोविंद न त्वत्तुल्यो न चाधिक ॥६२॥

कस्मै निवेदयेयं भो प्रशाधि कमलापते ॥ स पुत्रवचनं श्रुत्वा पुत्रमाह सहन्निव ॥६३॥

श्रीभगवानुवाच ॥

अहोबलनृसिंहस्य पूजां कृत्वा निवेदय ॥ इत्युक्तो वासुदेवेन नृसिंहस्यार्पणं नृप ॥६४॥

ब्रह्मा चकार सर्वेषां मुनीनामपि संमतम् ॥ वैश्र्वदेवं तत कृत्वा देवानाचर्चनं तथा ॥६५॥

विप्राणामर्चनं चक्रे ब्रह्मा च विधिपूर्वकम् ॥ अक्षतार्घ्यांबुगंधैश्र्च धूपदीपानुलेपनै ॥६६॥

गृहानाराधयद्देवो नाममंत्रादि पूर्वकम् ॥ ननामनंदसंपूर्णो भगवान्लौकिकी तनु ॥६७॥

परिवेषं ततश्र्चक्रुरष्टौ दिक्पालकास्तदा ॥ पात्रसंस्कारपूर्व च चक्रुस्ते परिवेषणम् ॥६८॥

लवणं तु समारभ्य घृतांतं ब्रह्मवादिनाम् ॥ परिवेषं च संपूर्णमाकर्ण्याग्निमुखाद्धरि ॥६९॥

एको विष्णुर्महाभूतं पृथक्भूतान्यनेकेश ॥ त्रींलोकान्व्याप्य भूतात्मा भुंक्ते विश्र्वभुगव्यय ॥१७०॥

इत्थं कृष्णार्पणं चक्रे श्रीनृसिंहाय विष्णवे ॥ कश्यपाद्यांश्र्च गोविंदो जुषध्वामिति चाब्रवीत् ॥७१॥

भवतां ज्ञानपूर्णानां किमन्नेनाद्य पूर्णता ॥ भविष्यति महाप्राज्ञा दयावंतस्तपोधना ॥७२॥

दरिद्रं मांच जानंतस्त्वन्नं मे सजलं लघु ॥ बहूकृत्य स्वीकुरुत कृपया नितरामिति ॥७३॥

प्रार्थनां ब्राह्मणानां तु कृतवान्प्राकृतो यथा ॥ वासुदेववच श्रुत्वा वाक्यमाहुर्महीसुरा ॥७४॥

ऋषय ऊचु ॥

तवान्नममृतप्रख्यं मुक्तिमार्गस्य साधनम् ॥ वयं धन्या कृतार्था स्म कलौ पापाकुले हरे ॥७५॥

अभिनंद्य तमित्थं ते सुसंतुष्टा अभुंजत ॥ भोजनानंतर राजन्ब्राह्मणानां यथार्हत ॥७६॥

तांबुलं दक्षिणां चैव प्रददौ भगवान्हरि ॥ स विप्रभोजनस्यांते स्वयं भोजनमाचरत् ॥७७॥

पुत्रेण पुत्रपुत्रेण भार्यया बंधुभिर्युत ॥ साग्नि सलोकपालश्र्च सशेषो गरुडान्वित ॥७८॥

भोजनांते दिनाधीशो रात्रिस्थानमुपागत ॥ शयनं कृतवान्कृष्ण पर्यंके रमया सह ॥७९॥

स्वयं निद्राविहीनोऽपि रेमे प्राकृतवद्धरि ॥ एवं विभवमापन्ना देवाश्र्च ऋृषयस्तथा ॥

नीत्वा तां सप्तमीरात्रीं सर्वे संभ्रमकातरा ॥

ब्रह्मादय सुरश्रेष्ठा कश्यपात्रिपुरोगमा ॥८०॥

शयनं चक्रिरे राजन्कंदरेषु गृहेषु च ॥ वृक्षमूलेषु शैलानां गव्हरेषु दरीषु च ॥८१॥

तत प्रभाते विमले श्रीनिवास सतां गति ॥ गरुडं प्रेषयामास ब्रह्माणंप्रति भूमिप ॥८२॥

स गत्वा वायुवेगेन ब्रह्माणं तल्पसंस्थितम् ॥ प्रत्युवाच महाराज पक्षिराट् परमं वच ॥८३॥

गरुड उवाच ॥

गच्छ तातांतिकं ब्रह्मन्वस्त्रालंकारभूषित ॥ हंसमारुह्य चंद्राभं गंतुं राजेंद्रपत्तनम् ॥८४॥

वाद्यंतां च विचित्राणि वादित्राणि महांति च ॥ गजमारोप्य महती भेरी चाद्यानुवाद्यताम् ॥८५॥

वाहनानि विचित्राणि आंदोलानि रथानिच ॥ अलंक्रियंतां राजेंद्र पुरीं गंतुं ससंभ्रमम् ॥८६॥

पक्षिराड्वचनं श्रुत्वा पक्षिवाहननंदन ॥ नियोजयामास तदा बलं देवगणस्य च ॥८७॥

गजानां च हयानां च वृषभाणां च मंडलम् ॥ पदातीनां च शूराणां मंडलं समलंकृतम् ॥८८॥

शूराश्र्च कृताविद्याश्र्च धृतशस्त्रास्त्रपाणय ॥ पितामहं पुरस्कृत्य जग्मुर्नारायणांतिकम् ॥८९॥

तं दृष्ट्वा सर्वदेवेशं भगवानाह भूपते ॥

श्रीनिवास उवाच ॥

विलंब क्रियते कस्माद्रमनार्थं पितामह ॥१९०॥

नियोजय बलं सर्व राजधान्यै नृपस्य च ॥ इत्थं हरेर्वच श्रुत्वा वासुदेवात्मजोऽब्रवीत् ॥९१॥

ब्रह्मोवाच ॥

सज्जीकृतं बलं सर्वं धृतायुधमरिंदम ॥ उत्तिष्ठ पुरुषश्रेष्ठ समारोह खगेश्र्वरम् ॥९२॥

स इत्थमुक्तो भगवान्गरुस्कंध आस्थित ॥ ब्रह्माणमग्रत कृत्वा रुद्रं कृत्वा तु दक्षिणे ॥९३॥

वामे वायुं तत कृत्वा कुमारं पृष्ठतस्तथा ॥ रमामरोपयामास रथं कांचनानिर्मितम् ॥९४॥

मातरं बकुलां राजन्विमानं सूर्यसन्निभम् ॥ समारोप्य महाराज भगवान्भक्तवत्सल ॥९५॥

स्वयं तु गरुडारुढो जगाम च सतांगति ॥ शेषो दधार राजेंद्र श्र्वेतच्छत्रं शशिप्रभम् ॥९६॥

चामरे चंद्रसंकाशे विजयामास मारुत ॥ व्यजनेन विचित्रेण रत्नदंडेण माधवम् ॥९७॥

विजयामास राजेंद्र विष्वक्सेन प्रतापवान् ॥ भेरीदुंदभिनिर्घेषैर्वादित्राणां महास्वनै ॥९८॥

नर्त्तकैर्गायकैश्र्चापि हाहाहूहूयुतोंऽजसा॥ ययौ विभवमापन्नसर्वात्मा सर्वतोमुख ॥९९॥

गमने वासुदेवस्य देवानामपि भूमिप ॥ ऋषीणां पूर्वदेवानां गंधर्वाणां तपस्विनाम् ॥२००॥

समर्द संबभूवात्र पशूनां मानुषात्मनाम् ॥ वनितानां च वृद्धानां बालानां रक्षसामपि ॥१॥

अन्योऽन्यं कलहस्तत्र वनितानामभूत्तदा ॥ ऋषीणां ऋषिकन्यानां देवस्त्रीणां च दैवतै ॥२॥

तत्राधनास्तु गच्छंति मार्गमध्ये महीपते ॥ काचिद्भर्तारमालंब्य पुत्रमंके निधाय च ॥३॥

भारमुद्धृत्य शिरसि पद्भ्य़ामेव स्म गच्छंति ॥ तस्मिनकाले महाराज रथस्था सुरयोषिता ॥४॥

पंथानमनुधावंत्योऽ तर्जयंश्र्चधनान्कृशान् ॥ तदा वियोगमापन्ना भर्ता सा भारपीडिता ॥५॥

कुजंती नाथ हा नाथ वने न त्युक्तुमर्हसि ॥ एवमुक्त्वा विप्रपत्नी सपुत्रा पतिता भुवि ॥६॥

रुदिता शिशवसतत्र प्रहृष्टास्तत्र के च न ॥ केचित्पय स्म कांक्षंति केचिदन्नं महीपते ॥

भुंजंति केचित्क्षीरान्नं केचिद्दध्योदनं नृप ॥७॥

हसंति केचित्प्ररुदंति केचित्प्रयांति केचित्प्रलपंति केचित् ॥

पतंतमन्ये करपल्लवेन समुद्धरंति स्म हसति केचित् ॥८॥

सुरांगनाश्र्च राजेंद्र तथावैखानसांगना ॥९॥

ऋष्यंगनाश्र्च गंधर्ववनिताश्र्चारुलोचना ॥ अवारोहन्गिरेश्र्चैव श्रीनिवासपरायणा ॥११०॥

शेषाचलं समारभ्य नारायणपुरावधि ॥ तिलमात्रावकाशस्तु मार्गमध्ये न दृश्यते ॥११॥

मध्ये कृत्वा पद्भतीर्थं गता सा वाहिनी हरे ॥ ऋग्यजुस्सामाथर्वाद्यैर्गीयमानो जगद्रुरु ॥१२॥

श्रीपति पद्मतीर्थाख्यं महत्तीर्थ महीपते ॥ आससाद जगद्योनि सच्चिदानंदविग्रह ॥१३॥

ससुरासुरगंधर्वसिद्धसाध्यमरुद्रणै ॥ प्राप्तं गरुडमारूढं कृष्णद्वैपायनात्मज ॥१४॥

साष्टांगपूर्वकं राजन्प्रणिपत्य शुकोऽब्रवीत् ॥ तपसस्तु सफलं मन्ये कृतस्य पुरुषोत्तम ॥१५॥

यो भवान्ब्रह्मरुद्राद्यैरगम्यो वेदगोचर ॥ तं भवंतं प्रपश्यामि नेत्राभ्यां पुरुषोत्तम ॥१६॥

सुपुत्रमित्राखिललोकपालं शेषेण लक्ष्म्या च युतं यतोऽहम् ॥

पश्यामि भाग्योदयशालिदृग्भ्यां त्वत्पादपूजा सफला ततो मे ॥१७॥

विज्ञापनं मे शूणु देवराज प्रसीद हेतोस्तव वासुदेव ॥ कृत्वा कृपां वेंकटशैलनाथ भुक्त्वा मदीयं फलकंदमूलम् ॥१८॥

उत्युक्तो मुनिना तेन वासुदेवोऽभ्यभाषत ॥

श्रीभगवानुवाच ॥

शृणु तापसशार्दूल वचनं साधुसंमतमत् ॥१९॥

भवान्कृशो विरागी च ब्रह्मचारी दृढव्रत ॥ वयं संसारनिरंता बहवश्र्चात्र भूसुर ॥२०॥

अद्यैव नगरीं गत्वा राज्ञस्तस्य महात्मन ॥ तत्रैव भोजनं कुर्म इति मे वर्तते मन ॥२१॥

वेदत्येवं हृषीकेशे व्यासपुत्रोऽभ्यभाषत ॥

श्रीशुक उवाच ॥

निष्किंचनोऽहं गोविंद निष्किंचनजनप्रिय ॥२२॥

त्वयि भुक्ते जगद्भुक्तं नात्र कार्या विचारणा ॥ वदत्येवं शुके कृष्णं बकुला वाक्यमब्रवीत् ॥२३॥

बकुलोवाच ॥

शृणु तद्वचनं कृष्ण त्वद्विवाहे रमापते ॥ यत्नं बहुविधं चके्र राजानं पर्यबोधयत् ॥२४॥

इति मातुर्वच श्रुत्वा माधव शुकमब्रवीत् ॥

श्रीनिवास उवाच ॥

त्वद्वाक्यामृतपानेन तृप्तिर्मेऽभून्मुनीश्र्वर ॥२५॥

किमन्येन प्राकृतेन फलेनाल्परसेन मे ॥ तथापि तव वाक्येन करिष्ये भोजनं मुने ॥२६॥

सात्वयित्वा मुनिवरं गरुडादवरुह्य स ॥ कुटीरं संप्रविश्याथ सपुत्र सपरिग्रह ॥२७॥

मुंजै कृतासने रम्ये संस्थित परमेश्र्वर ॥ शुक स्नात्वा पद्मतीर्थे कृत्वान्नं भक्तिसंयुत ॥२८॥

अमृताबीजनिचयं मुष्टिभि प्रविहत्य च ॥ तत्तंडुलैर्महाराज कृतवानन्नमुत्तमम् ॥२९॥

बृहतीफलसंयुक्तं तिंत्रिणीरससंयुतम् ॥ येनांतर्यामिणो नित्यं पूजनं कुरुते नर ॥२३०॥

तेनैव बाह्यमूर्तेस्तु पूजनं साधुसंमतम् ॥ इति मत्वार्थतत्त्वज्ञ कृत्वा पादावने जनम् ॥३१॥

पद्मपत्राणि चास्तार्य तत्रान्नं रससंयुतम् ॥ विनिक्षिप्य विशेषण कृतसाष्टांगसन्नती ॥३२॥

भोजनं कुरु गोविंद सदापूर्णमनोरथ ॥ एवं संप्रार्थितौ देव शुकेन परमर्षिणा ॥३३॥

तद्भक्तिपारवश्येन भगवानात्मभू स्वयम् ॥ ऋषीणामुचिताहारान्बुभुजे सर्वभोजन ॥३४॥

लक्ष्मीस्तस्याज्ञया मात्रा सार्धं बकुल मालया ॥ बुभुजे मुनिना दत्तं तदन्नममृतप्रभम् ॥३५॥

तस्मिम्भुक्तवति श्रीशे ऋषय कोपपूरिता ॥ तदा शुकं भीषयंत समुत्तस्थुर्वरासनात् ॥३६॥

शापानुग्रहसामर्थ्यसाधनाश्र्च तपोधना ॥ तेषां मतं तु विज्ञाय भगवान्बहिरागत ॥३७॥

फूत्कारं कृतवान्कृष्ण सर्वेषां तृप्तिहेतवे ॥ तन्मुखांभोजसंभूतवायुना तृप्तिहेतुना ॥३८॥

सुरधेन्वा यथा तृप्तास्तदेव मुनिपुंगवा ॥ शुकं संतोषयामासुर्वचनै स्तोत्रमिश्रितै ॥३९॥

कृत्वाष्ठम्यां तत्र वासं नवम्यां गुरुवासरे ॥ प्रभातसमये प्राप्ते श्रीनिवाससत्वरान्वित ॥२४०॥

पुनर्गरुडमारुह्य गुरुवारे जगद्रुरु ॥ चतुरंगबलाध्यक्ष ब्रह्माणं च पितामहम् ॥४१॥

निधाय पुरतो राजञ्जगाम जगदीश्र्वर ॥ अस्ताद्रिं प्रस्थिते भानौ तस्मिन्काले महीपते ॥४२॥

अष्टवर्ग स्वयं कृत्वा कृतकौतुकमंगल ॥ पद्मावतीं स्नापयित्वा गंधतैलेन भूमिप ॥४३॥

अलंकृत्य वरां कन्यामलंकारैर्महीपति ॥ गजमारोप्य तरसा पुत्रीं पुत्रहिते रत ॥४४॥

आकाशराजो धर्मात्मा पुत्रेण सह संयुत ॥ पुरोहितेन शक्रेण तोंडमानेन निर्ययौ ॥४५॥

श्रीनिवासं जगद्योनिं द्रष्टकामो रमापतिम् ॥ चतुरंगबलै सर्वैर्गजाश्र्वरथसंयुतै ॥४६॥

ध्वजैश्र्चैव पताकाभिश्र्चामरैर्व्यजनैरपि ॥ भेरीदुंदभिनिर्घोषैर्वादित्राणां महास्वनै ॥४७॥

नर्तकैर्नटकैश्र्चैव सूतमागधबंदिभि ॥ स्तूयमानो महाराज सैन्यमध्ये व्यराजत ॥४८॥

यथाकाशो चंद्रबिंब नक्षत्रगणमंडले ॥ राजा ददर्श गोविंदं शक्रेण परिदर्शितम् ॥४९॥

गरुडस्कंधमारूढं श्र्वेतच्छत्रादिभिर्युतम् ॥ सुकुमारं युवानं च सुंदरं सुंदरानतम् ॥२५०॥

श्रीनिवासं जगद्योनिं सच्चिदानंदविग्रहम् ॥ दृष्ट्वा संतुष्टमनसा स रथादवरुह्य च ॥५१॥

पद्मावतीं स्वपुत्रीं च निधाय परतो नृप ॥ पुरोहितं पुरस्कृत्य चेदं वचनमब्रवीत ॥५२॥

आकाशराज उवाच ॥

धन्योहृंऽ कृतकृत्योऽहं स्वर्गमार्गं समास्थित ॥ एवं वदंतं तत्काले श्रीनिवास सतांगति ॥५३॥

ददर्श राजशार्दुलं नारदेन प्रदर्शितम् ॥

नारद उवाच ॥

दीर्घश्मश्रुं दीर्घबाहुं सर्वदा दीर्घदर्शनम् ॥५४॥

श्र्वशुरं तव गोविंद पश्य माधव भूमिपम् ॥

श्रीनिवास उवाच ॥

धन्यं नारद मे जन्म यदाकाशोऽद्य बांधव ॥५५॥

संबंधस्तेन पंप्राप्त किं मयाचरितं पुरा ॥ वदत्येवं हृषीकेशे राजा सत्यपगक्रमा ॥५६॥

द्वारतोरणमासाद्य श्रीनिवासं ददर्श ह ॥ पूजयामास गोविंदं वसनाभरणादिभि ॥५७॥

गंधतैलेन राजेंद्र जामातरमपूजयत् ॥ सा ददर्श वरारोहा पतिं परमपावनम् ॥५८॥

पद्मावती विशालाक्षी लज्जया परिमोहिता ॥ तां ददर्श जगद्योनि कमलाक्षीं महीपते ॥५९॥

पद्मावतीश्रीनिवासौ वाहनादवरुह्यच ॥ अन्योन्यालोकनं राजंश्र्चक्राते संस्थितौ तत ॥२६०॥

वासुदेवस्य ये भक्तास्तेऽन्योन्यं परिरेभिरे ॥ नगरद्वारनिलयां दुर्गामासद्य भक्तित ॥६१॥

पद्मावत्यनुगो मायी देवीं नत्वा विशेषत ॥ वरं ययाचे गोविंद कुरु भार्यामिमामिति ॥६२॥

पद्मावती विशालाक्षी सावव्रेवरमुत्तमम् ॥ पतिं कुरु रमानाथं श्रीनिवासं जगन्मयम् ॥६३॥

इति स्तुत्वा च सा देवीं नत्वैरावतमाश्रिता ॥ गरुडस्कंधमारुढो भगवान्भक्तवत्सल ॥६४॥

दीपकैस्तैलसंसिक्तै सहस्त्रायुतसंख्यकै ॥ लाजान्पुष्पांण्यक्षतांश्र्च विकिरद्भिरितस्तत ॥६५॥

स्तुवद्भिर्बंदिवृंदैश्र्च ससूतैर्मागधैरपि ॥ आशीर्वादं प्रकुर्वद्भिर्वेद घोषपुरस्सरम् ॥६६॥

ब्रह्मादिभि सुरश्रेष्ठैर्भूसुरै शुकपूर्वकै ॥ श्रीनिवासं प्रपश्यद्भि पौरनारीनरैर्वृत ॥६७॥

वीणावेणुमृदंगांश्र्च पणवानकदुंदुभि ॥ वादयद्भिर्जनैश्र्चान्यैर्वारनारीगणैस्तथा ॥६८॥

गंधर्वैर्गाननिपुणै सूतामात्यैश्र्च संयुत ॥ आकाशराजो धर्मात्मा श्रीनिवासपरायण ॥६९॥

पद्मावत्या समेत तं श्रीनिवास ससंभ्रमम् ॥ संचारयन्समंताच्च नारायणपुरे शनै ॥२७०॥

रंभास्तम्भैरिक्षुदंडै पूगीपोतैरलंकृतम् ॥ रसालपल्लवयुतै पूर्णकुंभैरलंकृतम् ॥७१॥

मुक्ताजालवृतैश्र्चान्यै पद्मरागविराजितै ॥ वज्रवैडुर्यखचितैरिंद्रनीलसमप्रभै ॥७२॥

तथा मरकतप्रख्यस्तोरणरुपशोभितम् ॥ कुंकुमोदकसंपूर्णलसत्कनकभाजनै ॥७३॥

स्त्रीभिर्नीराजयंतीभीराजमानचतुष्पथम् ॥ वेदित्रयं परिक्र्रम्य वासुदेवालयं ययौ ॥७४॥

प्रवेशयामास वरं सुमंदिरं श्रीवेंकटेशं रमया समन्वितम् ॥ तद्बंधुखंड मुनिर्वगुप्तं बलं ययौ आत्मनिकेतनेषु ॥७५॥

रात्रिस्तु पंचघटिका समभूच्च तदा तत ॥ जगाम भवनं राजन्स्वकीयं राजवल्लभ ॥७६॥

तदागतो महाराज तोंड मानो महीपति ॥ तमाह करुणं राजन् श्रीनिवास क्षुधार्दित ॥७७॥

श्रीनिवास उवाच ॥

वैवाहिकजना सर्वे उपवासपरायणा॥ अहं च मम पुत्रश्र्च मम माता सुरादय ॥७८॥

भार्यापतिव्रता लक्ष्मी क्षुधया परिमोहिता ॥ तेषामन्नं महाराज भक्ष्याणि विविधानि च ॥७९॥

कुरु राजन्सत्वरस्त्वमृषीणामूर्ध्वरेतसाम् ॥ पाकस्त्वत्र विशेषण कर्तव्यो जातवेदसा ॥२८०॥

ममापि च प्रेषणीयं पक्वान्नं राजसत्तम ॥ वासुदेववच श्रुत्वा वसुधेशोऽब्रवीद्धरिम् ॥८१॥

तोंडमान उवाच ॥

इदं शरीरं जगदीश राज्यं त्वदीयमेतद्धि मुकुंदमूर्ते ॥ नरो यथा लोकगतिं प्रपन्नस्तथा ममानंत विमुह्यसे त्वम् ॥८२॥

एवमुक्तो महाराज जगाम भवनं स्वकम् ॥ क्षणेन कारयामास पाकं राजा हविर्भुजा ॥८३॥

ऋषीणा वेदविदुषां सुराणां सुरयोषिताम् ॥ राजान्नमर्पयामास विप्राणां चान्नकांक्षिणाम् ॥८४॥

भोजनं कृतवंतस्ते भक्ष्यान्नरससंयुतम् ॥ वासुदेवाय राजेंद्र प्रेषयामास सादर ॥८५॥

अन्नं बहुविधं भक्ष्यं समाषं मधुसंयुतम् ॥ स्वयं समेत्य राजेंद्रोऽकल्पयद्भोजनं हरे ॥८६॥

बुभुजे पुरुषश्रेष्ठो लक्ष्म्या च परमेष्ठिना ॥ मात्रा च सहितो राजन्सशेषो गरुडान्वित ॥८७॥

दत्वा वस्त्राणि दिव्यानि जामातु श्रीपतेर्नुप ॥ जगाम भवनं राजा वासुदेवाज्ञया तदा ॥८८॥

गते राज्ञि महाराज श्रीनिवासस्सुखान्वित ॥ निद्रां चकार विधिवन्निर्दोषोऽपि सुखासने ॥८९॥

एवं गता च सा रात्रि प्रभातसमयोऽभवत् ॥ पूर्वदेवरगुरोर्वार संप्रासो दशमीदिने ॥२९०॥

समुत्थितो वासुदेव समुत्थितो वासुदेव कृतभंगलमज्जन ॥ वसिष्ठमब्रवीद्राजन्भगवान्वेंकटेश्र्वर ॥९१॥

श्रीभगवानुवाच ॥

न मया भोजनं कार्यं लक्ष्म्या च परमेष्ठिना ॥ मात्रा पुरोहितेनापि वयं पंचान्नवर्जिता ॥९२॥

राज्ञस्तु भवने राजा राजपत्नी पतिव्रता ॥ कन्या पुरोहितो भ्राता तेऽपि पंचान्नवर्जिता ॥९३॥

एवमुत्त्वा वसिष्ठं तु पुरोहितमरिंदम ॥ कुबेरमब्रवीद्राजन्च्छ्रीनिवास सतांगति ॥९४॥

श्रीनिवास उवाच ॥

गच्छ यक्षगणाध्यक्ष राजानं विप्रकारणात् ॥ इति तद्वचनं श्रुत्वा यक्षराड्राजसत्तमम् ॥९५॥

गत्वाह भारतीं पुण्य श्रीनिवासेन भाषिताम् ॥

कुबेर उवाच ॥

भोजनं ऋषिमुख्यानां कर्त्तव्यं पूर्वमेव हि ॥९६॥

मुहूर्तकाले रात्रौ तु नाडिकांना त्रयोदश ॥ तदाऽसाध्यं महाराज रात्र्यां ब्राह्मणभोजनम् ॥९७॥

इति संदिश्य राजानं कुबेर पुनरागत ॥ तथा चकार राजर्षिर्भोजनं ब्रह्मवादिनाम् ॥९८॥

ददौ च दक्षिणां निष्कं तांबूलं च द्विजन्मनाम् ॥ एवं भूते महीपाल कल्याणदिवसे हरे ॥९९॥

शुक्रवारे दशम्यां च सायंकाले वियन्नृप ॥ चतुरंगबलं सर्व निधाय पुरत सुतम् ॥३००॥

विष्वक्सेनं महाराज तोंडमानं च सोदरम् ॥ पुरोहितं पुरस्कृत्य सुहृत्संबधिबांधवान् ॥१॥

ऐरावतं महानागं रत्नकंबलभूषितम् ॥ मेघारवेण संयुक्तं बद्धघंटाकुलांन्वितम् ॥२॥

चतुर्दतं महारावं कर्णबद्धसुचामरम् ॥ पुरंदरं पुरस्कृत्य गजमैरावतं तथा ॥३॥

आह्वानकारणात्प्राप्त श्रीनिवासालयं तदा ॥ तस्मिनमहागृहे राजन्नयुतस्तंभशोभितम् ॥४॥

सभां चकार रत्नाढ्यां विश्र्वकर्मा विभो प्रियाम् ॥ तत्रासने महाभागा ब्रह्माद्या सर्वदेवता ॥५॥

विश्र्वामित्रो भरद्वाजो वसिष्ठो गौतमस्तथा ॥ भृगुरत्रि पुलस्त्यश्र्च वाल्मीकिर्मिथलेश्र्वर ॥६॥

वैखानसाश्र्च दूर्वासा मार्कंडेऽयोथ गालव ॥ दधीचिश्र्चयवनो राजन्सनकश्र्च सनंदन ॥७॥

एते श्रेष्ठतमा लोके मुनयो वीतकल्मषा ॥ जटामुकुटभूषां गा ज्वलत्कृष्णाजिनांबरा ॥८॥

कश्यपं तु पुरस्कृत्य समासीना सभांतरे ॥ तन्मध्ये वासुदेवस्तु रत्नकंबलमास्थित ॥९॥

कुतांजलिपुटस्तथौब्रह्मालोकपितामह ॥ तत्सभाद्वारमासाद्य राजा सत्यपराक्रम ॥३१०॥

पुरोहितं पुरस्कृत्य संप्राप्तो हरिसन्निधिम् ॥ समुत्तस्थौ वासुदेवो दृष्ट्वा राजानमागतम् ॥११॥

परिरंभणंमासाद्य भगवान्वाक्यमब्रवीत् ॥

श्रीनिवास उवाच ॥

भवान्छ्रेतमोऽत्यंतं वृद्धोऽसि नृसत्तम ॥१२॥

किमर्थमागतोऽसित्वं मद्भृहं राजसत्तम ॥ विष्वक्सेनं तु राजेंद्र समाह्वाने नियोजय ॥१३॥

वदत्येवं श्रीनिवासे पुरोहितमभाषत ॥

राजोवाच ॥

विलंब क्रियते कस्मात्पूजां कुरु रमापते ॥१४॥

स राजवचनं श्रुत्वा धरणीं वाक्यमब्रवीत् ॥

वसिष्ठ उवाच ॥

अरुंधतीं पुरस्कृत्य कुरु पूजां रमापते ॥१५॥

सा संभ्रमात्समुत्थाय बाष्पसंदिग्धलोचना ॥ मुखं विलोक्य राजेंद्र कृष्णस्य नृपवल्लभा ॥१६॥

मत्वा कृतार्थमात्मानमानंदपरिपूरिता ॥ सलज्जा पूजयामास सच्चिदानंदविग्रहम् ॥१७॥

तां दृष्ट्वा योषित सर्वाविस्मयाकुलमानसा ॥ ग्राहु प्रहृष्टहृदया धरणीं राजवल्लभाम् ॥१८॥

योषित ऊचु ॥

किं त्वयाचरितं पुण्यं पूर्वजन्मनि हे धरे ॥ वासुदेवार्चनविधौ निर्मिता परमेष्ठिना ॥१९॥

या त्वमित्थं पूजयसि साक्षान्नारायणं स्वयम् ॥ इत्येवं संस्तुता देवी धरणी राजवल्लभा ॥३२०॥

तैलकर्पूरगंधेन चंदनेन सुगंधिना ॥ अर्चयामास कल्याणी श्रीनिवासं सुरेश्र्वरम् ॥२१॥

वस्त्रैर्नानाविधै रत्नैर्मुक्तानिर्मितभूषणै ॥ तत पुरोहिताज्ञात पुराणपुरुषोत्तमम् ॥२२॥

गजमारोपयद्राजा जामातरमनामयम् ॥ सहितो वासुदेवस्तु ब्रह्मणा शंभुना तथा ॥२३॥

कुबेरेणाहिराजेन गरुडेनाग्निना तथा ॥ वायुना वरुणेनापि यमेन मरुतां गणै ॥२४॥

स्वस्त्रीभि सहितै सर्वे सह श्रीवेंकटेश्र्वर ॥ वसिष्ठादिमुनिश्रेष्ठै सदारै ससुतैस्तथा ॥

जगाम राजभवनं रत्नतोरणमंडितम् ॥२५॥

नानाजनसमाकीर्ण नानालंकारमंडितम् ॥ महावाद्यस्वनैर्युक्तो दीपायुतविदीपितम् ॥२६॥

जामातृसहितो राजा द्वारतोरणसन्निधौ ॥ चतुंरगबलं मुत्क्वा गृहांतर्गतुमुद्यत ॥२७॥

तंत्रातरे श्रीनिवासं नीराजयितुमागता ॥ तोंडमान्नृपतयेभार्या कुंकुंमोदकभाजनम् ॥

समादायाशु कल्याणी वासुदेवमपूजयत् ॥

हत्वा पशून्महाराज तद्वारनिकटे नृप ॥ तत पश्र्चाच्छ्रीनिवास प्राविशद्राजमंदिरम् ॥२९॥

द्वाराण्यतीत्याथ बहूनि माधवो राज्ञा समेतो भवनं प्रविश्य ॥ रत्नासने राजविनिर्मिते हरी रराज राजीवसमाननेत्र ॥३०॥

चतुस्तंभां रत्नवेदीमधिष्ठाप्य खगध्वजम् ॥ परिवार्य च तस्थुस्ते मुनयो वीतकल्मषा ॥३१॥

ब्रह्माणमग्रत कृत्वा देवा यथा सुखम् ॥ स्वर्णासने समासीना पश्यंतो नयनोत्सवम् ॥३२॥

तत स राजा धर्मात्मा चक्रे मंगलमज्जनम् ॥ सापि स्नात्वा महाराज तैलेन च सुगंधिना ॥३३॥

अलंचकारालंकारै स्वात्मानं राजवल्लभा ॥ स्वामिपूष्करिणीतोयं हेमकुंभप्रपूरितम् ॥३४॥

समानीय ब्राह्मणैश्र्च हरिपादावनेजनम् ॥ संकल्पं विधिवच्चक्रे कन्यादानस्य सादरम् ॥३५॥

ततश्र्चकार राजेंद्र मधुपर्कं पुरोहित ॥ पुरोहितोक्तमंत्रेण तस्य पादावनेजनम् ॥३६॥

सहस्रशीर्षापुरुष इति मंत्रं समुच्चरन् ॥ धरण्यास्रावितै कृत्वा स्वामितीर्थजलै शुभे ॥३७॥

हरिपादोदकं पुण्यं दधार शिरसा नृप ॥ भार्या पुत्रं भ्रातरं च भवनं कोशमेव च ॥३८॥

गजागारं रथागारं वस्त्रागारं च तज्जलै ॥ मार्जयामास राजेंद्र श्रीनिवासपरायण ॥३९॥

राजोवाच॥

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ अद्य मे पितरस्तुष्टा वासुदेवपदोदकात् ॥३४०॥

एवमुक्ता महाराज कन्यांकमललोचनाम् ॥ अलंचक्रे विचित्रैस्तामलंकारैर्महीपते ॥४१॥

ततस्तु घंटिका घोषं कृतवान्दैवचिंतक ॥ सुमुहूर्तोयामित्येव मंगलाष्टकमब्रुवन् ॥४२॥

कन्याप्रदानसमये दक्षिणां राजसत्तम ॥ कोटिसंख्यान्निष्कपुंजान्दत्तवान्वेंकटेशितु ॥४३॥

तं दृष्ट्वा धनराशिं तु भगवानाह भूमिपम् ॥

श्रीनिवास ऊवाच ॥

दातव्यं किं त्वया राजन्पुत्रस्य तव भूपते ॥४४॥

विवाहकर्मनिपुणो भवान्दानपरायण ॥ ददस्व भूषणान्यंग बहुरत्नान्वितानि च ॥४५॥

इत्युक्तो वासुदेवाय भूषणानि ददौ नृप ॥ किरीटं शतभारं तु कटिकांचीं च तावतीम् ॥४६॥

केयूर नृपुरेदिव्ये तदर्धं चैव पादुकाम् ॥ पदकानि ददौ सप्तानर्धाण्यथ नृपोत्तम ॥४७॥

मालिका मौक्तिकानां च भुजभूषणयुग्मकम् ॥ कर्णभूषौ मौक्तिकाढ्यावंसपर्यंतलंबिनौ ॥४८॥

कंकणे रत्नमाणिक्यवज्रवैडुर्यनिर्मिते ॥ द्वात्रिंशद्भारसंयुक्ते अनर्घे दत्तवान्नृप ॥४९॥

नागभूषणयुग्मं च बाहुपूरादिकांस्तथा ॥ भूषणान्यंगुलीयांश्र्चदशानां वीरमुद्रिकाम् ॥३५०॥

कटिसूत्रं स्वर्णमयं वरवज्रसमन्वितम् ॥एकादशशतीभारं बहुरत्नसमन्वितम् ॥५१॥

पादुके च ततो राजा दत्तवान्मधुघातिने ॥ ददौ भोजनपात्रं च षष्टिभारतयुतं प्रभो ॥५२॥

लघुपात्रसमापेतं बृहत्पात्रमपां तथा ॥ कंबलानां चतुषष्टिं दत्तवान्राजसत्तम ॥५३॥

भूषणैभूषितांगस्य कन्यादानमथाकरोत् ॥ कन्याप्रवरमूचेऽथ गुरु साक्षाद्बृहस्पति ॥५४॥

बृहस्पतिरुवाच ॥

अत्रिगोत्रसमुद्भूतां सुवीरस्य प्रपौत्रिकाम् ॥ सुधर्मणस्तु पौत्रीं च पुत्रीमाकाशभूपते ॥५५॥

तांमंगीकुरु गोविंद कन्यां कमललोचनाम् ॥ एवमुक्ते महाराज मध्ये रत्नांबरं दधत् ॥५६॥

वसिष्ठ उवाच ॥

प्रपौत्रस्य ययातेस्तु पौत्रस्यामिततेजस ॥ शूरसेनस्य राजेंद्र वसुदेवस्य भूपते ॥५७॥

पुत्रस्य वेंङ्कटेशस्य गोत्रे वासिष्ठसंज्ञके ॥ जातस्यात्रिकुलोत्पन्नां कन्यां कनकभूषिताम् ॥५८॥

गृहिष्यामो वयं राजंस्तव पुत्रीं नृपोत्तम ॥ कन्यावरप्रवरयोरित्युच्चारितयोरथ ॥५९॥

धरण्यासह राजेंद्र कन्यादानपरायण ॥ प्रहृष्टहृदय प्राह श्रीनिवासं परात्परम् ॥३६०॥

आकाशराज उवाच ॥

कन्यामिमां प्रदास्यामि गृहाण पुरुषोत्तम ॥ इत्युक्ता प्राक्षिपद्राजा धरण्या स्रावितां तदा ॥६१॥

मंत्रपूतां स्वामितीर्थधारां सकनकां करे ॥ दक्षिणे श्रीनिवासस्य ददौ पद्मावतीं तत ॥६२॥

विधानं च ततश्र्चके्र राजेंद्र सपुरोहित ॥ पूजयित्वा जगन्नाथं गंधवस्रानुलेपनै ॥६३॥

कंकणं बंधयामास वासुदेवकरांबुजे ॥ पद्मावत्या करांभोजेऽबंधयत्कंकणं गुरु ॥६४॥

तथा मांगल्यसूत्रस्य बंधं वैवाहिकं तदा ॥ श्रीनिवासेन देवेनाकारयत्स पुरोहित ॥६५॥

सुवासिन्य ऊचु ॥

सावित्रीव च कल्याणि बहुपुत्रवती भव ॥ सर्वलोकस्य जननी भव मंगलदायिनी ॥६६॥

इत्थं सुमंगलीस्त्रीषु गायंतीषु शुभाशिष ॥ ब्राह्मणानां करस्पर्शाद्राज्ञश्र्चापि महात्मन ॥६७॥

मांगल्यतंतुनानेन जगज्जीवनहेतुना ॥ कंठे बध्नामि सुभगे चिरंजीव मयासह ॥

मंत्रेणानेन गोविंद कंठे तस्या बबंध च ॥६८॥

मुनिभिसह विद्वद्भिर्लाजैर्होमं पुरोहित ॥ वसिष्ठोऽकारयत्पद्मावत्यंजल्यर्पितैस्तत ॥६९॥

यजुशाखाक्रमेणैव जुहावाग्नौ यथाविधि ॥ सर्व वैवाहिकविधिं वसिष्ठोऽथ समापयत् ॥३७०॥

तत पुरोहितो राज्ञ स्वस्तिवाचनपूर्वकम् ॥ मुनीनामंजलिपुटे नवरत्नाक्षतान्ददौ ॥७१॥

ते वेदमंत्रैर्जगदीशमूर्घ्नि रत्नाक्षतान्वेदविद प्रचिक्षिपु ॥

तदा नृणां तत्र महोत्सवोऽभूदाकाश राजस्य पुरीनिवासिनाम् ॥७२॥

तस्मिकाले महाराजो दक्षिणां ब्रह्मवादिनाम् ॥ दापयामास संहृष्टो विप्रैस्तांबूलपूर्वकम् ॥७३॥

गवां कोटिसहस्राणि चाश्र्वानामयुतं तथा ॥ वस्त्राणां निचयं राजन्विप्रेभ्यो दत्तवान्विभु ॥७४॥

एवं महोत्सवस्तत्र समभूद्दशमीदिने ॥ वधूवरौ प्रतिष्ठाप्य भोजयामास वै तत ॥७५॥

अन्नं बहुविधं सूपरसभक्ष्यसमन्वितम् ॥ परमान्नं च सघृतं सक्षीरं शर्करायुतम् ॥७६॥

पुरोहितेन सहितो भोजनं कृतवान्हरि ॥ मात्रा लक्ष्म्या च सहित पुत्रेण सहितस्तथा ॥७७॥

आकाशराजो धर्मात्मा भुक्तवान्कृष्णसन्निधौ ॥ लक्ष्म्यासमेता धरणी तथा बकुलमालया ॥७८॥

अंभुक्तान्नं रसैर्युक्तं पतिपुत्रसमन्विता ॥ तत प्रभाते राजेंद्र सुवासिन्य सुरेशितु ॥७९॥

मज्जनं कारयामासुर्गधतैले सुनिर्मलै ॥ अन्योन्यपूजनं तत्र चान्योन्योद्वर्तनं तथा ॥३८०॥

हरिपद्मावतीदेव्योस्ता सहासमकारयन् ॥ स राजा विप्रमुख्यानां सुराणां बहुभोजनम् ॥८१॥

स्त्रीणां च पुरुषाणां च बहुमानपुरस्सरं ॥ यथेष्टं दापयामास हृष्ट आकाशभूमिप ॥८२॥

अपूपान्विविधांश्र्चके सूपशाकादिकांस्तथा ॥ घृतकुल्यां क्षीरकुल्यां दधिकुल्यां ततपरम् ॥८३॥

तत उद्धृत्य निक्षिप्तं बहिर्भुक्तवतांनृणाम् ॥ उच्छिष्टपात्रजाल च पुष्कलानदिसंयुतम् ॥८४॥

सारमेयगणै कीर्णं राक्षसानां गणैस्तथा ॥ एवं कोलाहलं चक्रे दिवसांश्र्चतुरस्तया ॥८५॥

हासस्तत्र विनोदेन नित्यमासीच्च मज्जनम् ॥ दिवसे पंचमे कृत्वा नाकबलिं तथा ॥८६॥

कलशांश्र्चतुरो न्यस्य दीपज्वालाविराजितान् ॥ वधूवरौ प्रतिष्ठाप्य रत्नसिंहासने शुभे ॥८७॥

पूजयामास गोविंदं जामातरमनामयं ॥ आकाशराजो धर्मात्मा क्षीरपात्रं करे दधत् ॥८८॥

मातरं वासुदेवस्य नाम्ना बकुलमालिकां ॥ पूजयित्वा विधानेन वस्त्रालंकारभूषणे ॥८९॥

नाभिं क्षीरेण संमृज्य पुत्रीं पद्मावतीं तदा ॥ अर्पयामास दुखेन ब्रह्मण्यो राजसत्तम ॥३९०॥

महालक्ष्म्या नाभिमूलं सघृतक्षीरसेचितम् ॥ कृत्वार्पयामास पुत्रीं रुदन्गद्रदकंठवान् ॥९१॥

श्रीनिवासस्य कृष्णस्य शेषाचलनिवासिन ॥ राजभार्या महाभागा रुदंती कुररीव च ॥९२॥

पुत्रीहस्तं प्रदायाथ हस्ते राजकुलांगना ॥ क्षीरं संयोज्य कृष्णस्य नाभिमूलेऽतिदुखिता ॥९३॥

भृशं रुदंती मंत्रेण दुखसंदिग्धलोचना ॥ अर्पयामास कृच्छ्रेण पुत्रीं पद्मावतीं तत ॥९४॥

प्रोवाच च श्रीनिवासं रुदंती राजवल्लभा ॥

धरण्युवाच ॥

पालितां लालितां पुत्रीं नवमासधृतां मया ॥९५॥

त्वदधीनां जगन्नाथ करिष्ये मम नंदिनीम् ॥ इत्येवमर्पयामास श्रीनिवासकरांबुजे ॥९६॥

स तस्या रोदनं दृष्ट्वा राजा दुखपरायण ॥ रुरोद दीनवदन पुत्रीमालिंग्य भूपति ॥९७॥

राजोवाच ॥

हा पुत्रि मंदभाग्योऽहं त्वद्वियोगेन केवलम् ॥ जीवनं मम कल्याणि न स्थिरं च भविष्यति ॥९८॥

क्रीडागृहे राजपुत्री तथा भोजनसद्मनि ॥ भ्राता तव कथं क्रीडां भोजनं वा करिष्यति ॥९९॥

एवं रुदंतमालोक्य भ्रातरं दीनचेतसम् ॥ तोंडमानो नृपश्रेष्ठो दुखितो वाक्यमब्रवीत् ॥४००॥

तोंडमान उवाच ॥

वयं दरिद्रा निर्भाग्या कृपणा दीनचेतस ॥ वयं मरणमापन्ना नात्रकार्या विचारणा ॥१॥

एतादृशी च कल्याणी नैव लब्धा कलौ युगे ॥ इत्थं वयं निश्र्चिनुमो वियोगभृशदुखिता ॥२॥

एवं तान्रुदतो दृष्ट्वा वसुदानोतिऽदुखितां ॥ भगिनीं दीनवदनामालिंग्याह रुदन्मुहु ॥३॥

वसुदान उवाच ॥

मातरं बालकं त्यत्त्क्वा यथा लोके धनार्जक ॥ गच्छेत्तथा मां भगिनि त्यत्त्क्वा त्वं क्व नु गच्छसि ॥४॥

एवं प्रसंगात्तत्रासीद्देवानामपि भूमिप ॥ ऋषीणां कश्यपादीनां दुखमत्यंतदारुणम् ॥५॥

रुदंतं नृपतिं दृष्ट्वा श्रीनिवास सतां गति ॥ स्वयं रुरोद गोविंदो भगिनीं पार्थवल्लभाम् ॥६॥

स्मृत्वा श्रीदेवकीपुत्रस्तदद्भुतमिवाभवत् ॥ इत्थं कृत्वा लोकरीतिमैरावत मुपास्थित ॥७॥

पद्मावत्या तया सार्ध सर्ववाद्यसमन्वित ॥ ग्रामं प्रदक्षिणीकृत्य रमया सहितो हरि ॥८॥

स्वनिवेशगृहं भेजे पद्मासनभवादिकै ॥ ततो हरि श्रीनिवास स्वस्थानं गंतुमीहत ॥९॥

गरुडस्कंधमारूढ पत्नीं पद्मावतीमपि ॥ आरोपयन्वरारोहामन्योन्यं परिरभ्यच ॥४१०॥

गरुडस्कंधमारूढो गंतुं स्वस्थानमुत्सुक ॥ हरिरामंत्रणार्थं तु श्र्वश्रूश्र्वशुरयोस्तदा ॥११॥

पुनर्गृहं संप्रविश्य गमनेच्छुरभूदथ ॥ श्र्वशुरौ पर्यपृच्छच्च साष्टांगं प्रणिपत्यवै ॥१२॥

आशीर्वादं ततश्र्चक्रे स्वजामातुरनामयम् ॥ आकाशराज श्र्वशुर श्र्वश्व्रा च धरया सह ॥१३॥

आकाशराज उवाच ॥

दीर्घायुर्भव गोविंद सर्वलोकधुरंधर ॥ इत्याशिषाभिनंद्याथ धरणी वाक्यमब्रवीत् ॥१४॥

धरण्युवाच ॥

मासांते गच्छ गोविंद वध्वासह नवोढय ॥ इदंते श्र्वशुरस्यैव वाक्यं मानय माधव ॥१५॥

इति तस्या वच श्रुत्वा वासुदेवाऽब्रवीन्नृपम् ॥

श्रीनिवास उवाच ॥

नृप वाक्यं शृणु मम कार्यस्य महती त्वरा ॥१६॥

तस्मादाज्ञां च मे देहि राजन् स्यात्कृपा मयि ॥ इत्युत्त्क्वा वासुदेवस्तु गरुडस्कंधमास्थित ॥१७॥

जगाम भगवान्साक्षात्सर्वदेव समन्वित ॥ आकुला व्याकुला सर्वे नगरस्था जनास्तदा ॥१८॥

प्राकारगोपुरा रूढा पश्यंत स्वदृशाऽवदन् ॥

जनाऊचु ॥

धन्या राजकुलोत्पन्ना पद्मा कमललोचना ॥१९॥

अनुगच्छति गोविंदं पश्यतेति परस्परम् ॥ तदा ददौ महाराज पारिबर्हं श्रियपते ॥४२०॥

तंडुलान्छालिसंभूतान्वृषभाणां रथोपरि ॥ आरोप्य प्रेषयामास शतं खारीवियन्नृप ॥२१॥

मुद्रान्गोस्वामिसंरूढांस्त्रिशत्खरीर्ददौ हरे ॥ गुडभारं महांतं च तिंतृणीभारमेव च ॥२२॥

पयोघटसहस्राणि दधिभांडशतानि च ॥ सहस्रार्धं घृतपूर्णंचर्मपात्राणि सर्षंपान् ॥२३॥

मेथिकान्हिंगुलवणतैलपात्राणि चैव हि ॥ तथा शर्करया पूर्णघटांस्तु द्वे शते तथा ॥२४॥

उर्वारुकं चूतकं च राजरंभाफलानि च ॥ कूष्मांडकंदमूलानि मरीचामलकानि च ॥२५॥

मधुभांडशते द्वे च रंभापात्राणि काष्ठकान् ॥ अश्र्वानामयुतं दत्वा गजानां च सहस्रकम् ॥२६॥

धेनूनां पंचसाहस्रमाविकानां शतं तथा ॥ दासीनां द्वे शते राजन्दासानां त्रिशतं तथा ॥२७॥

वस्राणि विविधान्यासु पर्यंकं रत्नभूषितम् ॥ उपबर्ह रत्नयुतं पारिबर्हेण संयुतम् ॥२८॥

एवमादीनि वस्तूनि गृहीत्वा नृपसत्तम ॥ पुत्रेण सहितो राजा श्रीनिवासपरायण ॥२९॥

आकाशराजो धर्मज्ञ श्रीनिवासस्य संनिधिम् ॥ आगत श्र्वशुरं दृष्ट्वा चोत्तस्थौ जगदीश्र्वर ॥४३०॥

श्रीनिवास उवाच ॥

दूराध्वानं महाराज किमर्थं त्वं समागत ॥ दातव्यं किं नृपश्रेष्ठ तव पुत्रस्य मेऽनघ ॥३१॥

कन्या दत्ता सुखं प्राप्तं सुकृतं किं कृतं त्वया ॥ संतोषश्र्चातुल प्राप्तो मम तात न संशय ॥३२॥

किं ते मनोगतं राजं स्तन्ममाचक्ष्व भूपते ॥ संदेहं मा कुरुष्वात्र दानादाने महीपते ॥३३॥

वासुदेववच श्रुत्वा वासुदेवमभाषत ॥

राजोवाच ॥

सर्वमंगलमस्माकं त्वत्पसादेन केशव ॥३४॥

नान्यद्याचे जगन्नाथ तव पादसरोरुहे ॥ भक्तिं देह्यचलां कृष्ण सकुटुंबस्य मेनघ ॥३५॥

तच्छ्रुवा वचनं तस्य श्र्वशुरस्य महात्मन ॥ दत्तवांस्तस्य सायुज्यमाकाशनृपतेस्तदा ॥३६॥

शालकस्य ददौ वस्त्रं स्वांगस्थं मधुसूदन ॥ जामात्रा च समाज्ञप्त पुत्रीभवनमभ्यगात् ॥३७॥

पुत्रि गच्छामि नगरं विहरस्व हरिप्रिये ॥ शयने श्रीनिवासस्य शयनं कुरुमंगले ॥३८॥

इति राजा सांत्वयित्वा पुत्रीं कमललोचनाम् ॥ शशास सा स्वपित्रोक्तं शीघ्रं माधवमभ्यगात् ॥३९॥

रुदन्बद्रदकंठेन जगाम नगरं नृप ॥ पद्मावत्यनुगो देवो ब्रह्मरुद्रादिकैर्युत ॥४४०॥

सुवर्णमुखरीं प्राप्य तत्र वासमकल्पयत् ॥ षण्मासावधिपर्यंतं दीक्षितोऽहं महामते ॥४१॥

न शैलराजमारोहमिति निश्र्चित्य देवराट् ॥ अगस्त्यभवनं गत्वा तत्र वासमकल्पयत् ॥४२॥

देवान्संप्रेषयामास स्वधामानि वृषाकपि ॥४३॥

ब्रह्मादीनां सुराणां च मुनीनामूर्ध्वरेतसाम् ॥ ददौ वस्त्रं यथायोग्यं भगवान्भक्तवत्सल ॥४४॥

तेनाज्ञप्ता जगद्धात्रा जन्मुर्लोकं स्वकं सुरा ॥ ऋषयश्र्च ततोऽरण्यं जन्मुर्नारायणाज्ञया ॥४५॥

लक्ष्मीर्जगाम राजेंद्र करवीरपुरं तदा ॥४६॥

महोत्सवं तं त्वनुभूय देवता ब्रह्मेशपूर्वा समहर्षिसत्तमा ॥

जग्मु स्वकं धाम महानुभावा राजेंद्र पूज्यं प्रशशंसुरादरात् ॥४७॥

गते देवगणे तत्र त्वगस्त्यानिलयं गत ॥४८॥

भुंजानो भोगमतुलं तत्रास्ते भगवान्हरि ॥शतानंद उवाच॥ विवाहाध्यायमाहात्म्यं ये शृण्वंति जनेश्र्वर ॥४९॥

तेषां भाग्योदयं वक्ष्ये शुणु राजन्सविस्तरम् ॥ कोटिकन्याप्रदानेन यावद्भूमिप्रदानत ॥४५०॥

यत्फलं लभते देही तत्फलं श्रवणादरात् ॥ ये उत्सवं कारयंति वैवाहं वेंकटेशितु ॥५१॥

तस्योत्सवो भवेद्राजन्वेंकटेशप्रसादत ॥ इति ते कथितं राजन्विवाहचरितं हरे ॥५२॥

शृणुयाच्छ्रावयेद्वापि सर्वाभीष्टमवाप्नुयात् ॥ शुभदं शृण्वतां चैव सर्वेषां मंगलप्रदम् ॥५३॥

इति श्रीभविष्येपुराणे श्रीवेंकटाचलमाहात्म्ये श्रीनिवासविवाहप्रशंसनं नाम द्वादशोऽध्याय ॥१२॥

N/A

References : N/A
Last Updated : April 19, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP