वेंकटेश्वर माहात्म्य - चतुर्दशोऽध्यायः

Venkateshwara also known as Venkatachalapathy or Srinivasa or Balaji, is the supreme God believed to be a form of the Hindu Deity Lord Vishnu.


॥ जनक उवाच ॥

तत किमकरोत्कृष्ण शतानंद? नृपश्र्च वा ॥ तन्ममाचक्ष्व योगींद्र राज्ञस्तच्चरितं महत् ॥१॥

॥ शतानंद उवाच ॥

कदाचिद्वेंकटेशस्य दर्शनार्थं नराधिप ॥ एक एवाधिगम्याथ ननाम चरणौ हरे ॥२॥

तं दृष्ट्वा राजशार्दूलमालिंग्याह वचो हरि ॥

श्रीनिवास उवाच ॥

किमागमनकार्यं ते तन्ममाचक्ष्व भूपते ॥३॥

तदेव वचनं श्रुत्वा वासुदेवम भाषत ॥

राजोवाच ॥

दर्शनात्तव गोविंद नाधिकं वर्त्तते हरे ॥४॥

त्वां वदंति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ मुनयो मनुजश्रेष्ठास्तच्छ्रुत्वाहमिहागत ॥५॥

स्वामिन्नच्युत गोविंद पुराणपुरुषोत्तम ॥ अप्राकृतशरिरोऽसि लीलामानुषाविग्रह ॥६॥

त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ कारणं प्रकृतेर्योनिं वदंति च मनीषिण ॥७॥

जगदेवकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ जीवकोटिधनं देव जठरे परिपूरयन् ॥८॥

क्रिडसे रमया सार्धं रमणीयांगविश्रम ॥ सहस्रशीर्षा पुरुष सहस्राक्ष सहस्रपात् ॥९॥

त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमंडलम् ॥ ऊरुभ्यामभवन्वैश्या पद्भ्य़ां शूद्रा प्रकीर्तिता ॥१०॥

प्रभुस्त्वं सर्वलोकांना देवानामपि योगिनाम् ॥ अंतसृष्टिकर त्वंहि बहि सृष्टिकरो भवान् ॥११॥

नम श्रीवेंकटेशाय नमो ब्रह्मोदराय च ॥ नमो नाथाय कांताय रमाया पुण्यमूर्तये ॥१२॥

नम शांताय कृष्णाय नमस्तऽद्भुतकर्मणे ॥ अप्राकृतशरीराय श्रीनिवासाय ते नम ॥१३॥

अनंतमूर्तये नित्यमनंतशिरसे नम ॥ अनंतबाहवे श्रीमन्ननंताय नमोनम ॥१४॥

सरीसृपागिरीशाय परब्रह्मनमोनम ॥ पन्नगाचल्वासाय परब्रह्म नमोनम ॥ इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥१५॥

विरराम महाराज राजेंद्रोरणकोविद ॥ स्तोत्रेणानेन सुप्रीतस्तोंडमानकृतेन च ॥१६॥

संतुष्ट प्राह गोविंद श्रीमंत राजसत्तमम् ॥

श्रीनिवास उवाच ॥

राजन्मे मंगलं स्तोत्रं कृतं परमपावनम् ॥१७॥

अनेन स्तवराजेन मामर्चति च ये जना ॥ तेषांतु मम सालोक्यं भविष्यति न संशय ॥१८॥

आकाशराजो धर्मात्मा प्राणमुक्तिपदं नृप ॥ तेन राज्ञा प्रसिद्धोऽहं भूलोके भूमिपालक ॥१९॥

कृत्वा विवाहविभवं दृष्ट्वा मामागतं गृहे ॥ संतोषमतुलं लेभे राजा परमधार्मिक ॥२०॥

दैवमेव परं मन्ये मम भाग्यफलोदयम् ॥ कृतं कर्म सुखं दुखमनुभोक्तव्यमंजसा ॥२१॥

का गति पुरतो राजन्विना राज्ञा महात्मना ॥ श्रीधरस्य वच श्रुत्वा तोंडमानाह माधवम् ॥२२॥

तोंडमान उवाच ॥ प्रारब्धकर्मण पुंस कथं सौख्यं भवेद्धरे ॥ किमर्थं रोदिषि भृशं हतं बंधुं स्मरन्हरे ॥२३॥

मा शोकं कुरु गोविंद राजानं स्वर्गगं प्रति ॥ पश्य मां पुडरीकाक्ष विष्वक्सेनं च बालकम् ॥२४॥

सांत्वितस्तेन राज्ञेत्थं श्रीनिवासं सतांगति ॥ प्राह वाणीं जगन्नाथस्तोंडमानं प्रजापतिम् ॥२५॥

श्रीनिवास उवाच ॥

कुटुंब स्थापितं तेन राज्ञा भ्रात्रा गरीयसा ॥ नास्ति मे भवनं तात वासार्थं दुहितुस्तव ॥२६॥

वियन्नृपस्य जामाता वर्तते परमंदिरे ॥ एषा कीर्तिर्ममानंतदुखदा दुखनाशन ॥२७॥

पारतंत्र्यं महत्कष्टं मनुष्याणां तु का कथा ॥ तस्मान्मे भवनं कार्यं त्वया राजकुलोद्भव ॥२८॥

त्वां विना राजशार्दूल किर्ति स्थापयितुं स्थिराम् ॥ क समर्थो धरापृष्ठे नाके नागालयेऽपि वा ॥२९॥

वदत्येवं वासुदेवे तथास्त्वित्यवदन्नृप ॥ सुमुहूर्ते सुलग्ने च सुनक्षत्रे शुभे तिथौ ॥३०॥

भोगिराजगिरिं राजन्नारुरोह खगध्वज ॥ सहित कमलादेव्या राजयुक्त स देवदाट् ॥३१॥

निवेश दर्शयामास वराहानुमतेन च स्वामिपुष्करणीतीरे दक्षिणे पक्षिवाहन ॥३२॥

अत्रैव कार्यं राजेंद्र चत्यं पूर्वमुखं शुभम् ॥ गोपुरद्वयसंयुक्तं प्राकारत्रयमव्ययम् ॥३३॥

सप्तद्वारसमोपेतं देहलीतोरणान्वितम् ॥ ध्वजस्तंभसमोपेतं सर्वलक्षणसंयुतम् ॥३४॥

आस्थानमंडपं दिव्यमद्भुतं यागमंडपम् ॥ गोशालां धान्यभवनं ततो माहानसं गृहम् ॥३५॥

वस्त्रगेहं तैलशालां घृतार्थं भवनं पृथक् ॥ भक्ष्यशालां विशालां च भूषणानां गृहं तथा ॥३६॥

वैवाहिकं गृहं राजन्सोपस्कारगृहं तथा ॥ कर्पूरगंधमार्जारतैलकस्तूरिकागृहम् ॥

कल्पयाशु च राजेंद्र गजाश्र्वभवनं पृथक् ॥३७॥

ताम्रपत्रै सुसंबध्दं स्वर्णालंकारमंडितम् ॥ श्रीतीर्थमन्नशालाग्रे भूतीर्थ भूमिपालक ॥३८॥

त्वया विनिर्मितं पूर्वं तोंडमानं महिपते ॥ तदद्य कुरु शोभाढ्यं शिलाबंधनपूर्वकम् ॥३९॥

इत्युक्तो वासुदेवेन राजा वचनमब्रवीत् ॥

तोंडमान उवाच ॥

कथं पूर्वं मया कूप कृतस्ते केन जन्मना ॥४०॥

कोऽहं पूर्वं च का जातिस्तन्ममाचक्ष्व विस्तरात् ॥ राज्ञेत्युक्तोऽब्रवीद्राजन्छ्रीनिवास सतांगति ॥४१॥

॥ श्रीनिवास उवाच ॥

पुरा वैखानसो नाम ऋृषिरत्यंतनिष्ठधी ॥ भविकृष्णावतारस्य कथां श्रुत्वा पुरातनीम् ॥४२॥

कालानां कर्मणांचैव शरीराणां च न स्थिति ॥ जनानामिति निश्र्चित्य तपस्तप्तुं प्रचक्रमे ॥४३॥

द्रविडे चोलदेशे तु प्रकृष्टे कुशविस्तृते ॥ कृष्णरूपं प्रपश्यामि निराहारो जितेंद्रिय ॥४४॥

तपसा दुष्करेणेति सुदृढं कृतनिश्र्चय ॥ तपसा तप्यमानस्य तस्य वै भक्तवत्सल ॥४५॥

प्रादुर्बभूव भगवान्पुरा गोपालवेषभाक् ॥ प्रादुर्भूतं हरिं दृष्ट्वा तुष्टाव स मुनिस्तदा ॥४६॥

श्रीवैखानस उवाच ॥

पूजां करोमि पुरुषोत्तम पुण्यमूर्ते गोपालवेष करुणाकर देवदेव ॥

इत्थं समीरित उवाच मुनीश्र्वर तं तस्येचितं वचनमेष महानुभव ॥४७॥

श्रीकृष्ण उवाच ॥

त्वया ध्येय श्रीनिवासो नाहं ध्येयो मुनीश्र्वर ॥ गच्छ शेषागिरिं तत्र वल्मीके वर्तते शुभा ॥४८॥

प्रतिमा श्रीनिवासस्य तत्पूजां कुरु संततम् ॥ संगमिष्यति ते मार्गे शूद्र श्रीरंगदासक ॥४९॥

पूजकस्य भवेच्छूद्र सेवकस्ते महामुने ॥ एवमुक्तोऽथ हरिणा संप्राप्तो वेंकटाचलम् ॥५०॥

संगमस्तु बभूवास्य मुने शूद्रेण वर्त्मनि ॥ ततस्तु तेन सहितो गत्वा श्रीवेंकटाचलम् ॥५१॥

वल्मीकस्थं हरिं दृष्ट्वा पूजयामास वै मुनि ॥ पुष्पाण्याहारयामास रंगदासो महायशा ॥५२॥

अकस्माद्दैवयोगेन गंधर्व कुंडलाव्हय स्नानार्थ्मगमच्छीघ्रं स्वाभि स्त्रीभिर्जलाशयम् ॥५३॥

वसंते विजने तत्र स्वामिपुष्करणीजले ॥ जलक्रीडापरास्तत्र दृष्ट्वा ता रंगदासक ॥५४॥

मुदोद्रिक्तमना भूत्वा रेतोऽत्याक्षीद्धरातले ॥ पुन स्नात्वा शुचिर्भूत्वा पश्र्चात्तापेन निंदित ॥५५॥

बद्धं मालाकुलं सर्वं परित्यज्य पुनस्तदा ॥ पुनराहृत्य पुष्पाणि शीघ्रमादाय पादज ॥५६॥

देवागारं समासाद्य स्थितवानग्रतो हरे ॥ रंगदासं मुनिर्द्द्ष्टवा गर्हयन्वचसा मुहु ॥५७॥

पूजाकालो ह्यतिक्रांतश्र्चक्रपाणेर्महात्मन ॥ किमर्थं कृतावानकालविलंब शूद्रनंदन ॥५८॥

निंदित्वा मुनिशार्दूल शूद्रं पूजाविरोधिनम् ॥ एवं वदति विप्रेंद्रे स्थिते तूष्णीं च पादजे ॥५९॥

शंखचक्रधर शूद्रमुवाच परया गिरा ॥

श्रीनिवास उवाच ॥

माभैषी पुत्र भद्रं ते रंगदास महामते ॥६०॥

मायया मोहितं विश्र्वं ससुरासुरमानुषम् ॥ तत्रापि तव बुद्धिस्तु पश्र्चात्तापेन योजिता ॥६१॥

तस्मात्वमशुभ शूद्र संत्यजाऽत कलेवरम् ॥ स्वामिपुष्करिणीतीरे सर्वपाप निवारणे ॥६२॥

मरणात्पुण्यदेशोस्मिन्छुद्धो जन्मांतरे पुन ॥ सुधर्मतनयो भूत्वा तोंडदेशोधिपो भव ॥६३॥

तोंडमानिति विख्यातो लोके कीर्ति गमिष्यसि ॥ शतस्त्रीवल्लभो भूत्वा मम भक्तश्र्च केवलम् ॥६४॥

ततस्त्वं सार्वभौम सन्राजभोगमुपैष्यसि ॥ कन्यादानप्रसंगश्र्च भविष्यति न संशय ॥६५॥

तस्माद्देहं त्यजात्रैव निराहारोति निर्मल ॥ सुधर्मराजतनयो राजाकाशानुजो भव ॥६६॥

इत्युक्तो वासुदेवेन तनुं तत्रैव सोऽत्यजत् ॥ स त्वमद्याकाश राजानुजोऽभूद्धार्मिको नृप ॥६७॥

तदा त्वया कृतस्त्वेष कूप आरामकारणात् ॥ इति ते कथितं पूर्वजनमकर्मसमुद्भवम् ॥६८॥

गोविंदवचनं श्रुत्वा तोंडमान्राजसत्तम ॥ कूपं संशोधयामास स्वकृतं पूर्वजन्मनि ॥६९॥

आज्ञप्तो वासुदेवेन विश्र्वकर्माणमाव्हयत् ॥ विमानं कारयामास रत्नचित्रं महोन्नतम् ॥

चतुर्मूर्तिसमोपेतं वैनतेयविभूषितम् ॥७०॥

कलशेन समोपेतं सौवर्णेनाद्भुतेन वै ॥ आगतानां जनानां च रोहारोहणकर्मणि ॥७१॥

मार्गं योजनविस्तीर्ण ससोपानं चकारह ॥ मध्ये मध्यें मंडपानि प्रपाकूपांश्र्चकार च ॥७२॥

श्रीनिवासं समागम्य तोंडमानब्रवीत्तत ॥

राजोवाच ॥

त्वया नियमितं देव सर्वं संपूर्णतां गतम् ॥७३॥

आगच्छाद्य जगन्नाथ चैत्यं तव जनार्दन ॥ इति राजवच श्रुत्वा भगवानाह भूपतिम् ॥७४॥

अवश्यमनुगच्छामि तव भक्त्या प्रतोषित ॥ इत्युत्क्वा प्रस्थितं देवं देवैश्र्चेंपुरोगमै ॥७५॥

वैखानसऋषिश्रेष्ठै र्ब्राह्मणैर्ब्रह्मवित्तमै ॥ ऋक्सामगायकैश्र्चैव मंत्रेश्र्च विधिपूर्वकम् ॥७६॥

वादित्रैर्वाद्यमानैश्र्च घोषयद्भिद्रिशोदश ॥ देवैर्ब्रह्मपुरोगैश्र्च स्तुवद्भि स्तुतिभिर्हरिम् ॥७७॥

प्रवेशयामास वरं सुमंदिरं श्रीश्रीनिवासं पुरुषं पुराणम् ॥ पद्मावतीं चापि मुदा महीपति ॥

समस्तलोकैर्मुनिभिर्महोत्सवै ॥७८॥

पुष्पाण्यवर्षंश्र्च सुरासुराद्या सयक्षगन्धर्वनरोरगाश्र्च ॥

देवस्य मूर्ध्न्याशु विमानवर्ये तं पूजयंतस्त्वृषयश्र्च हर्षात् ॥७९॥

तात आनन्दनिलये तोंडमान्नृपनिर्मिते ॥ विमानाग्ऱ्ये श्रीनिवासो रराज भगवान्हरि ॥८०॥

आनन्दजनकत्वात्तमानन्दनिलयं विदु ॥ वरपद्मासने सुस्थां विधाय कमलालयाम् ॥८१॥

पद्मावतीं विशालाक्षीं भगवानात्मवक्षसि ॥ अरिशंखविहीनोऽसौ कटिन्यस्तकरोत्तम ॥८२॥

इदमेव परं धाम इदमेव परं पदम् ॥ दर्शयन्पाणिनैकेन दक्षिणेन वृषाकपि ॥

पदपद्मं सुराराध्यं गतिं च परमां नृणाम् ॥८३॥

कटिन्यस्तकरेणापि निजपादाब्जगामिनाम् ॥ नृणां भवपयोराशिं कटिदघ्नं प्रदर्शयन् ॥८४॥

विराजिते वेंकटेश संप यापि रमापति ॥ इति ते कथितं राजन्माहात्म्यं वेंकटेशितु ॥८५॥

पवित्रं परमं पुण्यं मंगलानां च मंगलम् ॥८६॥

इति श्रीवेंकटाचलमाहात्म्ये श्रीभगवत्कृततोंमान्नृपतिनिर्मितनूतनमंदिरप्रवेशादिकथनंनाम चतुर्दशोऽध्याय ॥१४॥ ॥ ॥

N/A

References : N/A
Last Updated : April 19, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP