मराठी मुख्य सूची|स्तोत्रे|सहस्त्रनामस्तोत्र|
श्री राम सहस्त्रनामस्तोत्रम्

श्री राम सहस्त्रनामस्तोत्रम्

हिंदू देवदेवतांची सहस्त्र नावे, स्तोत्र रूपात गुंफलेली आहेत.
Sahastranaamastotra is a perticular stotra in which, the 1000 names of hindu Gods are introdused.

 


॥ श्रीरामाय नम: ॥

अस्य श्रीरामसहस्त्रनाममालामन्त्रस्य विनायक ऋषिः अनुष्टुप् छन्द: श्रीरामो देवता महाविष्णुरिति बीजं गुणभृन्निर्गुणो

महानिति शक्तिः सच्चिदानन्दविग्रह इति कीलकं श्रीरामप्रीत्यर्थे जपे विनियोगः ।

न्यासः

(क) करन्यासः - ॐ श्रीरामचन्द्राय अङुष्ठाभ्यां नमः । ॐ श्रीसीतापतये तर्जनीभ्यां नमः । ॐ श्रीरघुनाथाय मध्यमाभ्यां नमः ।

ॐ श्रीभरताग्रजाय अनामिकाभ्यां नमः । ॐ श्रीदशरथात्मजाय कनिष्ठिकाभ्यां नमः । ॐ श्रीहनुमत्प्रभवे करतलकरपृष्ठाभ्यां नमः ।

(ख) ह्रदयादिन्यासः - ॐ श्रीरामचन्द्राय ह्रदयाय नमः । ॐ श्रीसीतापतये शिरसे स्वाहा । ॐ श्रीरघुनाथाय शिखायै वषट् ।

ॐ श्रीभरताग्रजाय कवचाय हुम् । ॐ श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् । ॐ श्रीहनुमत्प्रभवे अस्त्राय फट् ।

ध्यानम्

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामाङ्दारूढसीतामुखकमलमिलल्लोचनं नीरदाभं

नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥

नीलाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं

मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।

सीतां पार्श्‍वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तीं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥

स्तोत्रम्

राजीवलोचन: श्रीमान् श्रीरामो रघुपुङ्गवः ।

रामभद्र: सदाचारो राजेन्द्रो जानकीपतिः ॥ १ ॥

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः ।

जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥ २ ॥

विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः ।

सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ॥ ३ ॥

ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः ।

ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥ ४ ॥

द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः ।

विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥ ५ ॥

ईशः खड्‍गधरः श्रीमान् कौसलेयोऽनसूयकः ।

विपुलांसो महोरस्कः परमेष्ठी परायणः ॥ ६ ॥

सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः ।

लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः ॥ ७ ॥

अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः ।

रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥ ८ ॥

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः ।

सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥ ९ ॥

सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः ।

कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥ १० ॥

भव्यो जितारिषड्‌वर्गो महोदरोऽघनाशनः ।

सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥ ११ ॥

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः ।

स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥ १२ ॥

धीरो दान्तो घनश्यामः सर्वायुधविशारदः ।

अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥ १३ ॥

सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः ।

यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥ १४ ॥

वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः ।

विभीषणप्रतिष्ठाता परमात्मा परात्परः ॥ १५ ॥

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः ।

अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥ १६ ॥

गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।

अभिवन्द्यो महाकायो विश्वकर्मा विशारदः ॥ १७ ॥

विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः ।

कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः ॥ १८ ॥

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः ।

लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥ १९ ॥

आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः ।

भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥ २० ॥

सुखदः कारणं कर्ता भवबन्धविमोचनः ।

देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥ २१ ॥

संसारोत्तारको रामः सर्वदु:खविमोक्षकृत् ।

विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् ॥ २२ ॥

नित्यो नियतकल्याणः सीताशोकविनाशकृत् ।

काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥ २३ ॥

मारीचमथनो रामो विराधवधपण्डितः ।

दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥ २४ ॥

महाधनुर्महाकायो भीमो भीमपराक्रमः ।

तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः ॥ २५ ॥

भूतात्मा भूतकृत् स्वामी कालज्ञानी महापटुः ।

अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥ २६ ॥

स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः ।

भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतो ध्रुवः ॥ २७ ॥

कवची कुण्डली चक्री खड्‌गी भक्तजनप्रियः ।

अमृत्युर्जन्मरहितः सर्वजित् सर्वगोचरः ॥ २८ ॥

अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः ।

समः समात्मा समगो जटामुकुटमण्डितः ॥ २९ ॥

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः ।

लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥ ३० ॥

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः ।

अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली ॥ ३१ ॥

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः ।

हंसो मरीचिर्गोविन्दो रत्‍नगर्भो महामतिः ॥ ३२ ॥

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः ।

जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः ॥ ३३ ॥

सम्भवोऽतीन्द्रियो वेद्योऽनिर्देशो जाम्बवत्प्रभुः ।

मदनो मथनो व्यापी विश्वरूपो निरञ्जनः ॥ ३४ ॥

नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः ।

नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः ॥ ३५ ॥

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः ।

वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ॥ ३६ ॥

चण्डांशु सिद्धिदः कल्पः शरणागतवत्सलः ।

अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥ ३७ ॥

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् ।

वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥ ३८ ॥

अतुलः सात्त्विको धीरः शरासनविशारदः ।

ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥ ३९ ॥

वैकुण्ठः प्राणिनां प्राणः कमठ: कमलापतिः ।

गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥ ४० ॥

कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः ।

मायावी व्यापको व्यापी रैणुकेयबलापहः ॥ ४१ ॥

पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः ।

लोकत्रयाश्रयो लोकचरितो भरताग्रजः ॥ ४२ ॥

श्रीधरः सद्वतिर्लोकसाक्षी नारायणो बुधः ।

मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः ॥ ४३ ॥

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः ।

तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ॥ ४४ ॥

चाणुरमर्दनो दिव्यश्शान्तो भरतवन्दितः ।

शब्दातिगो गभीरात्मा कोमलाङ्‍गः प्रजागरः ॥ ४५ ॥

लोकगर्भश्शेषायी क्षीराब्धिनिलयोऽमलः ।

आत्मयोनिरदीनात्मा सहस्त्राक्षः सहस्त्रपात् ॥ ४६ ॥

अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः ।

त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती ॥ ४७ ॥

पर्जन्यः कुमुदो भूतावासः कमललोचनः ।

श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥ ४८ ॥

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः ।

सनातनतमो मेघश्यामलो राक्षसान्तकृत् ॥ ४९ ॥

दिव्यायुधधरश्श्रीमानप्रमेयो जितेन्द्रियः ।

भूदेववन्द्यो जनकप्रियकृत् प्रपितामहः ॥ ५० ॥

उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः ।

सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ॥ ५१ ॥

दामोदरोऽच्युतश्शार्ङी वामनो मधुराधिपः ।

देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥ ५२ ॥

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः ।

कालस्वरूपी कालात्मा कालः कल्याणदः कविः ॥ ५३ ॥

संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः ।

स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः ।

अनादिनिधनः सर्वलोकपूज्यो निरामयः ॥ ५४ ॥

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः ।

सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥ ५५ ॥

शेषो विशेषो विगतकल्मषो रघुनायकः ।

वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः ॥ ५६ ॥

कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः ।

देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ॥ ५७ ॥

सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः ।

मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः ॥ ५८ ॥

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः ।

न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः ॥ ५९ ॥

लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः ।

वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥ ६० ॥

देवाग्रणी: शिवध्यानतत्परः परमः परः ।

सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः ॥ ६१ ॥

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः ।

जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥ ६२ ॥

अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी ।

कलानिधिः कलानाथो कमलानन्दवर्धनः ॥ ६३ ॥

जयी जितारिः सर्वादिः शमनो भवभञ्जनः ।

अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ ६४ ॥

आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः ।

निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ॥ ६५ ॥

आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्त्रपात् ।

सनातनतमस्स्त्रग्वी पेशलो जविनां वरः ॥ ६६ ॥

शक्तिमाञ्शङ्खभृन्नाथः गदापद्मरथाङ्गभृत् ।

निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥ ६७ ॥

शताननः सहस्त्राक्षः शतमूर्तिर्घनप्रभः ।

ह्रत्पुण्डरीकशयनः कठिनो द्रव एव च ॥ ६८ ॥

उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः ।

अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः ॥ ६९ ॥

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।

हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥ ७० ॥

शिवपूजारतः श्रीमान् भवानिप्रियकृद्वशी ।

नरो नारायणः श्यामः कपर्दीनीललोहितः ॥ ७१ ॥

रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः ।

मातामहो मातरिश्वा विरिञ्चोविष्टरश्रवाः ॥ ७२ ॥

अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः ।

वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥ ७३ ॥

निदाघस्तपनोऽमोघः श्‍लक्ष्णः परबलापह्रत् ।

कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः ॥ ७४ ॥

शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः ।

असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥ ७५ ॥

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।

रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः ॥ ७६ ॥

पवित्रपाद: पापरिर्मणिपूरो नभोगतिः ।

उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः ॥ ७७ ॥

अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः ।

भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥ ७८ ॥

उदारकिर्तिरुद्योगी वाङ्‌मयः सदसन्मयः ।

नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥ ७९ ॥

चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः ।

निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ॥ ८० ॥

श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः ।

भूशयो भूतिकृद्‌भूतिर्भूषणो भूतवाहनः ॥ ८१ ॥

अकायो भक्तकायस्थः कालज्ञानी महावटुः ।

परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥ ८२ ॥

स्वभावभद्रो मध्यस्थः संसारभयनाशनः ।

वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ ८३ ॥

सुरेन्द्रः करणं कर्म कर्मकृत् कर्म्यधोक्षजः ।

ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः ॥ ८४ ॥

परमार्थगुरुर्वृद्धः शुचिरश्रितवत्सलः ।

विष्णुर्जिष्णुर्विभुर्वनन्द्यो यज्ञेशो यज्ञपालकः ॥ ८५ ॥

प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः ।

केशवः केशिहा काव्यः कविः कारणकारणम् ॥ ८६ ॥

कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः ।

आदिकर्ता वराहश्च माधवो मधुसूदनः ॥ ८७ ॥

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः ।

विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः ॥ ८८ ॥

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।

नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः ॥ ८९ ॥

अदिदेवो जगत्कर्ता योगीशो गरुडध्वजः ।

गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥ ९० ॥

पद्मनाभो ह्रषीकेशो धाता दामोदरः प्रभुः ।

त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥ ९१ ॥

वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ।

भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ॥ ९२ ॥

कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः ।

संन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः ॥ ९३ ॥

बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः ।

भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ॥ ९४ ॥

तपोवासो मुदावासः सत्यवासः सनातनः ।

पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥ ९५ ॥

पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः ।

शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसलि हली ॥ ९६ ॥

किरीटी कुण्डली हारी मेखली कवची ध्वजी ।

योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ॥ ९७ ॥

शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः ।

सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ॥ ९८ ॥

पवन: संहत: शक्ति: सम्पूर्णाङ्‌गः समृद्धिमान् ।

स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः ॥ ९९ ॥

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ।

सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ॥ १०० ॥

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ।

सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥ १०१ ॥

अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः ।

निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥ १०२ ॥

सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः ।

अधिकारी विभुर्नित्यः परमात्मा सनातनः ॥ १०३ ॥

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।

श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः ॥ १०४ ॥

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।

सत्यवान् गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान् ॥ १०५ ॥

कालात्मा भगवान् कालः कालचक्रप्रवर्तकः ।

नारायणः परंज्योतिः परमात्मा सनातनः ॥ १०६ ॥

विश्वसृड्‌विश्वगोप्ता च विश्वभोक्ता च शाश्वतः ।

विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥ १०७ ॥

सर्वभूतसुह्रच्छान्तः सर्वभूतानुकम्पनः ।

सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः ॥ १०८ ॥

सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः ।

अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः ॥ १०९ ॥

अनादिनिधनः स्त्रष्टा प्रजापतिपतिर्हरिः ।

नरसिंहो ह्रषीकेशः सर्वात्मा सर्वदृग् वशी ॥ ११० ॥

जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः ।

कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः ॥ १११ ॥

सहस्त्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः ।

पुराणपुरुषः स्त्रष्टा सहस्त्राक्षः सहस्त्रपात् ॥ ११२ ॥

तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः ।

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ॥ ११३ ॥

परं ज्योतिः परं धाम पराकाशः परात्परः ।

अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ॥ ११४ ॥

नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः ।

हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः । ११५ ॥

रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः ।

तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ॥ ११६ ॥

अकारवाच्यो भगवान् श्रीर्भूलीलापतिः पुमान् ।

सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ॥ ११७ ॥

स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् ।

नित्यः सम्पूर्णकामश्च नैसर्गिकसुह्रत् सुखी ॥ ११८ ॥

कृपापीयूषजलधिश्शरण्यः सर्वदेहिनाम् ।

श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः ॥ ११९ ॥

श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः ।

अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान ॥ १२० ॥

॥ इति श्रीआनन्दरामायणे वाल्मीकीये श्रीरामसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 25, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP