संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथपिंडपितृयज्ञ:

संस्कारप्रकरणम् - अथपिंडपितृयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सचाऽनाहिताग्निनापिकार्य: ॥ एवमनाहिताग्निर्नित्येश्रपयित्वातिप्रणीयजुहुयादिति
सूत्रात् ॥ नित्येऔपासनाग्नावित्यर्थ: ॥
तस्यचायमाहिताग्नितोविशेष: ॥ हवि:श्रवणंकृत्वातिप्रणयनंकर्तव्यम् ॥ ततोतिप्रणीतस्यो
पसमाधानंपरिस्तरणंचकृत्वाततोर्वागतिप्रणीतादित्यादिसमानम् ॥ यस्मिन्नहोरात्रेपर्वप्रति
पदो:संधिस्तत्रापराह्णेयागदिनेवापिंडयज्ञ:कार्य: ॥ अहोरात्रतिथिसंधौतुयागपूर्वदिनएवेतिवृ
त्तिकृत् ॥ उक्तापराह्णेऔपासनाग्निंप्रज्वाल्यशुचिराचांत:प्राणानायम्यधृतपवित्रोदेशकालौ
स्मृत्वा पितृतृप्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थंपिंडपितृयज्ञंकरिष्ये इतिसंकल्प्याग्नेयाभिमुखो
ग्निंध्यात्वापरिसमुह्याग्नेय्यग्रकैर्दर्भै:परिस्तीर्याग्नेरीशान्यांवायव्यांवाग्नेयाग्रकान्दर्भानास्तीर्य पर्युक्ष्यतेषुचरुस्थालीशूर्पस्फ्योलूखलमुसलस्त्रुवध्रुवकृष्णाजिनसकृदाच्छिन्नकुशेध्म
मेक्षणजलपूर्णकमंडलूनितियथायोग्यंन्यग्बिलान्येकैकशआग्नेयसंस्थान्यासादयेत् ॥
काष्ठखड्ग:स्फ्य: ॥ आज्यधारणार्थांगंध्रुवा ॥ शेषंप्रसिध्दं ॥ पात्राण्युत्तानानिकृत्वाकमंड
लुजलेनप्रोक्ष्यस्थालींशूर्पंचादायाग्नेर्दक्षिणतोवस्थितव्रीहिमच्छकटंदक्षिणतआरुह्य स्थालीं
शूर्पेनिधायव्रीहिभि:पूरयित्वायथास्थालीमुखोपरिस्था:शूर्पेपतंतितथानिमृज्य स्थाल्यास्यदेश
त:पतितान्व्रीहीन् शकटेप्रास्याग्ने:पश्चिमतोवायव्यग्रीवेआस्तीर्णेकृष्णाजिनउलूखलंनिधाय
तत्रस्थालीस्थान् व्रीहीन्निधायाग्नेय्यभिमुख्यातिष्ठंत्पापन्त्यावहतान् सकृत्फलीकृतानवि
विच्यसकृत्प्रक्षालितान् जीवतंडुलान् श्रपयेत् ॥
चरुमनुव्दास्यैवाग्नेरेकंप्रदीप्तमुल्मुकंगृहीत्वाग्नेराग्नेय्यांदिशिकृतेशुचिस्थंडिले ॥ येरुपाणि
प्रतिमुंचमानाअसुरा:संत:स्वधयाचरंति ॥ परापुरोनिपुरोयेभरंत्यग्निष्टाँल्लोकात्प्रणुदात्व
स्मात् इतिमंत्रेणनीत्वातमतिप्रणीताख्यमग्निमाग्नेयाग्रकै:कुशै:परिस्तीर्यदक्षिणाभिमुख:
अपहताअसुरारक्षांसिवेदिषइतिमंत्रेणौपासनाइतिप्रणीतयोरंतरालेस्फ्येनसत्योत्तरपाणिव्दयगृहीतेनकुशमूलेनवाग्नेयाभिमुखांलेखामुल्लिख्यतामभ्दिरभ्युक्ष्यसकृदाच्छिन्नबर्हिषाच्छाध्या
नुत्पूतमाज्यंविलापितमुत्पुतंनवनीतंवाध्रुवायामासिच्याग्नेर्दक्षिणत:कुशेष्वासाध्य स्त्रुवंसं
मृज्यतेनध्रुवास्थमाज्यमादायचरुमभिघार्योदगुद्वास्यातिप्रणीताग्ने:पश्चादृर्भेष्वासाध्यतक्षि
णतोभ्यंजनांजनकशिपूपबर्हणान्यासादयेत् ॥
ततोतिप्रणीताग्ने:पश्चिमउपविश्यार्चयित्वाप्राचीनावीत्याभिघारितमरत्निमितंपंचदशदारुकमिध्मंपितृतीर्थेनतूष्णीमग्नावभ्याधायस्त्रुवेणाजयमादायमेक्षणमुपस्तीर्यौध्दृतचरुंद्विधावि
भज्योत्तरभागमध्यादंगुष्ठपर्वमात्रंमेक्षणेनावदाय पुन:पूर्वभागादवदायपात्रस्थमवत्तंचाभिघार्य
सोमायापितृमतेस्वधानमइत्यतिप्रणीताग्नेर्दक्षिणभागेपराचीनपाणिर्हुत्वासोमायपितृमतइदं
नममेतित्यजेत् ॥ पुन:पूर्ववद्दक्षिणभागस्थचरोरवदायाग्नयेकव्यवाहनायस्वधानमइत्य
ग्नेरुत्तरभागेपूर्वध्दुत्वाअग्नयेकव्यवाहनायेदंनममेतित्यक्त्वोपवीतीतूष्णींमेक्षणमग्नावनुप्रह
रेत् ॥ स्वधानमस्थानेस्वाहाकारेणवाहोमस्तदाहुत्योर्व्यत्ययउपवीतिताचमेक्षणानुप्रहरणपर्यं
तं ॥ यथाग्नयेकव्यवाहनायस्वाहेतिप्रथमाहुति: ॥ सोमायपितृमतेस्वाहेद्वितीयात्यागश्च
आहुतिवत् ॥ तत:प्राचीनावीती ॥ पूर्वकृतलेखायांस्थापितकमंडलुजलंदक्षिणहस्तेनपितृती
र्थेनाग्नेयापवर्ग शुंधंतांपितर:शुंधंतांपितामहा:शुंधंतांप्रपितामहा: इतिमंत्रैस्त्रिर्निनयेत् ॥
ततोहुतशेषेणसाज्येनत्रीन्पिंडान्कृत्वातस्यांलेखायां प्राचीनावीती पराचीनपाणि:पितृतीर्थेना
तान्पिंडानाग्नेयापवर्गपित्रादिभ्योदध्यात् ॥ तध्यथा ॥ एतत्तेऽमुकशर्मन् येचत्वामत्रानुते
भ्यश्चेतिपित्रेएवंपितामहप्रपितामहयोरपि ॥ तत: अत्रपितरोमादयध्वंयथाभागमावृषायध्व
मितिसकृत्पिंडाननुमंत्र्यसव्येनपार्श्वेनवावृत्त्योदड्मुखोभूत्वा यथाशक्तिप्राणान्नियम्याभिप
र्यावृत्त्यअमीमदंतपितरोयथाभगमावृषायीषत इतिपुनस्ताननुमंत्र्य उपवीती  चरुशेषमवघ्रा
याचम्य प्राचीनावीतीपूर्ववच्छुंधंतांपितरइत्याध्यैस्त्रिभि:कमंडलुजलंपिंडांतेनिनीयाऽमुकशर्म
न्नभ्यंक्ष्वेतित्रिभ्योपिपिंडेष्वभ्यंजनंतैलंघृतंवादर्भेणदत्त्वाऽमुकशर्मन्नंक्ष्वेतितथैवांजनंध्यात् ॥ अथ एतद्व:पितरोवासोमानोतोन्यत्पितरोयुड्ध्वंइतिप्रतिपिंडंमन्त्रावृत्त्यानववासोदशांपं
चाशव्दर्षाधिकंवयश्चेत्स्वप्रकोष्ठहृदयान्यतरल्लोमवादत्त्वा कशिपूपबर्हणेनिवेध्य सव्योत्तरा
भ्यांकृतांजलिराग्नेयाभिमुख:पिंडानुपतिष्ठेतमंत्रै: ॥ तध्यथा ॥ नमोव:पितरइषेनमोव:पि
तरोनमएतायुष्माकंपितरइमाअस्माकंजीवावोजीवंतइहसंत:स्याम ॥ मनोन्वाहुवामहेनाराशं
सेनसोमेन ॥ पितृणांचमन्मभि: ॥ आतएतुमन:पुन:क्रत्वेदक्षायजीवसे ॥ ज्योक्चसूर्यदृशे
॥ पुनर्न:पितरोमनोददातुदैव्योजन: ॥ जीवंव्रातंसचेमहि ॥४॥
इतिचतसृभिर्मंत्रैरुपस्थाय ॥ अथ परेतनपितर:सोम्यासोगंभीरेभि:पथिभि:पूर्विणेभि: दत्त्वा
यास्मभ्यंद्रविणेहभद्रंरयिंचन:सर्ववीरंनियच्छत ॥ इतिमंत्रेणपिंडानाग्नेयाभिमुखंसकृदुत्तानेन
हस्तेनचालयेत् ॥ तत: ॥ अग्नेतमध्याश्वंनस्तोमै:क्रतुंनभद्रंहृदिस्पृशं ॥ ऋध्यामातओहै: ॥ इतिऔपासनाग्निसमीपंगत्व ॥ यदंतरिक्षंपृथ्वीमुतध्यांयन्मातरंपितरंवाजिहिंसिम ॥
अग्निर्मातस्मादेनसोगार्हपत्य:प्रमुंचतुकरोतुमामनेनसं ॥ इतिमंत्रंगार्हपत्यपदरहितंजपेत् ॥
केचित्तुव्दाभ्यामपिमंत्राभ्यामग्न्युपस्थानमाहु: ॥ अथवीरंमेदत्तपितरइतिमंत्रेणमध्यमंपिंड
मादायसुपुत्रप्राप्त्यैपत्न्याप्राशयेत् ॥ आधत्तपितरोगर्भंकुमारंपुष्करस्त्रजं ॥ यथायमरपाअस
त् ॥ इतिमंत्रेण अयंमंत्र:पत्न्या: इतरौपिंडावप्स्वतिप्रणीतेवाक्षिपेत् ॥ आसादितानांव्दाद
शपात्राणांमध्येसकृदाच्छिन्नबर्हिरिध्ममेक्षणानांविनियुक्तत्वात् ॥ अवशिष्टानियानिनवते
षांव्दंव्दंशउत्सर्ग: ॥ अवशिष्टमेकंतृणेनसहोत्सृजेत् ॥
अत्रपित्रादिनामाज्ञानेतत्तन्नामस्थानीतत् इत्यस्यानंतरंतत् पितामहप्रपितामहइतिशब्दा:
क्रमेणपिंडदानमंत्रेप्रयोज्या: ॥ एकस्यव्दयोर्वानामाज्ञानेपियथास्थानं ततादिशब्दप्रयोगोऽ
न्यत्रनामप्रयोग: ॥ अत्रपित्रादीनांमध्येएकस्यव्दयोर्वाजीवनेतत्पिंडदानकालेपूर्वोक्तपिंडदान
मंत्रेणस्वाहाकारांतेनजीवदुद्देशेनाग्नौसव्यपाणिनापिंडहोम: ॥ त्रयाणामपिजीवनेपितृमातृ
जीवनेवात्रयोपिपिंडाहेतव्या: ॥
अथवापिंडदानरहितोहोमांतएवपिंडपितृयज्ञ: ॥ अनारंभोवापिंडपितृयज्ञस्य ॥ अन्येतुनजी
वंतमपिदध्यादितिश्रुते: ॥ पितरितदादित्रिकेवाजीवतित्रिभ्योपिहोमएवनभूमौपिंडदानम् ॥
जीवत्पितामहस्यपित्रेपिंडंदत्त्वाव्दयोर्होम: ॥ जीवत्प्रपितामहस्याध्ययो:पिंड:प्रपितामहस्य
होम: ॥ होमेचयज्ञोपवीतितासर्वत्र ॥ इत्याध्याकरतोज्ञेयम् ॥ अत्रचरुश्रपणहोमयोरधिकर
णविकल्पमाहापस्तंब: ॥ सोयमेवंविहितस्यानाहिताग्नेरौपासनेश्रपणंहोमश्चातिप्रणीतेवाजु
हुयादिति ॥ एतव्ध्याख्यारुद्रदत्तीया ॥ अनाहिताग्नेर्दक्षिणाग्निस्थानीयऔपासनेश्रपणहो
मौभवत: ॥ अथवा औपासनएवश्रपयित्वाततोग्निंदक्षिणाप्रांचंप्रणीयतस्मिन् जुहुयादित्यर्थ
इति ॥
एवंचौपासनेएवहोम: अतिप्रणीतस्त्वदृष्टार्थइतिकेचित् ॥ अन्येतुनित्येश्रपयित्वातिप्रणीय
जुहुयादित्याश्वलायनीयाव्दाक्यसमभिव्याहारात्सन्निधानादतिप्रणीतदृष्टार्थत्वाच्चातिप्रणीतएवहोमइति ॥ हरदत्तभाष्यमप्येवम् ॥ अत्रबहुलेख्यमपिपध्दतित्वान्नलिखितम् ॥
सयुक्तिकत्वात्तुअतिप्रणीतेहोमइत्युक्तम् ॥ यव्दायथासंप्रदायंविचार्यकार्यम् ॥ सकृदाच्छि
न्नकुशाख्यपिंडबर्हिरभावेकाशादिग्राह्यम् ॥ तदुक्तंविष्णुधर्मोत्तरे ॥ पिंडनिर्वपणंकार्यकुशा
भावेविचक्षणै: ॥ काशेषुराजदूर्वासुपवित्रेपरमेस्मृते इति ॥ राजदूर्वाअतिदीर्घदूर्वा: ॥ योनाहिताग्निरौपासनाग्निमान्मृतपितृक: सवक्ष्यमाणं पार्वणश्राध्दंपिंडपितृयज्ञंव्यतिषंगेण
कुर्यात् ॥
व्यतिषंगोनामव्दयोर्विच्छिध्यसहानुष्ठानात्मकस्तंत्रविशेष: ॥ तत्रपार्वणश्राध्दंपिंडपितृयज्ञं
चव्यतिषंगेणकरिष्येइतिसंकल्प्येध्माधानांतंतत्प्राक्तनंपितृयज्ञंकृत्वाब्राह्मणपच्छौचादिआ
च्छादनांतंश्राध्दंपुनरिध्माधानादिपितृयज्ञआमेक्षणानुप्रहरणमथपार्वणमत्रानुज्ञानादथोभयशेषंक्रमेणसमापयेदितिक्रम: ॥
आहिताग्निस्तुसर्वाधान्यर्धाधानीवादक्षिणाग्नावेवपिंडपितृयज्ञंकृत्वापार्वणश्राध्दंपृथगेवकुर्यात् ॥ तत्प्रकारंतुश्राध्दप्रयोगेवक्ष्याम: ॥ इतिप्रयोगरत्नेपिंडपितृयज्ञप्रयोग: ॥

N/A

References : N/A
Last Updated : August 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP