संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथविवाहपूर्वंदिनकृत्यम्

संस्कारप्रकरणम् - अथविवाहपूर्वंदिनकृत्यम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ वधूपितावरपिताचविवाहदिनात्पूर्वेध्युर्विवाहदिनएववासंस्कार्येणसहकृताभ्यंगस्नानो
ऽहतवासा:प्राड्मुखउपविश्यस्वदक्षिणेपत्नींतद्दक्षिणेसंस्कार्यमुपवेश्य आचम्यप्राणानायम्ये
ष्टदेवतांगुर्वादींश्चनमस्कृत्यदेशकालौसंकीर्त्यममास्यअमुकशर्मण:पुत्रस्यदैवपित्र्यऋणापाकरणहेतुभूतधर्मप्रजोत्पादनसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंविवाहसंस्काराख्यंकर्मकरिष्ये ॥
कन्याविवाहेपूर्वसंस्कारलोपेतुममास्या:कन्यकाया: जातकर्मनामकरणसूर्यावलोकननिष्क्रम
णोपवेशनान्नप्राशनचौलसंस्काराणांलोपजन्यप्रत्यवायपरिहारार्थंप्रतिसंस्कारंपादकृच्छ्रंप्रायश्चित्तंचूडाकर्मणिअर्धकृच्छ्रं तत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतदानेनाहमाचरिष्ये
॥ गर्भाधानसीमंतयोर्लोपेतयोरप्यूह: ॥ ततोममास्या:कन्यकाया:भर्त्रासहधर्मप्रजोत्पादनगृ
ह्यपरिग्रहधर्माचरणेष्वधिकारसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंविवाहसंस्काराख्यंकर्मकरिष्ये ॥ अथवाअस्यामुकशर्मण:पुत्रस्यअमुकनाम्न्या:कन्यायावाश्व:करिष्यमाणविवाहांगभूतंगण
पतिपूजनपूर्वकंस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंग्रहानुकूल्यार्थग्रहयज्ञंमंडपदेवताकुलदेवतादिप्रतिष्ठांचकरिष्ये तैलहरिद्राधिष्ठात्रींचपूजयिष्यइतिसंकल्प्यपूर्वोक्तोपनयनोक्तरीत्या
कुर्यात् ॥ इतिविवाहपूर्वदिनकृत्यं ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP