संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथमधुपर्क:

संस्कारप्रकरणम् - अथमधुपर्क:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पाध्यार्थमर्ध्यार्थमंत्रवत्रिराचमनीयार्थंशुध्दाष्टाचमनीयार्थंचलजलपात्रचतुष्टयंमधुपप
र्ककांस्यपात्रंगांविष्टरंचसंपाध्य कर्ताआचम्यप्राणानायम्यदेशकालौस्मृत्वाकन्यार्थिनेगृहाग
तायास्मैस्नातकायवरायकन्यादानांगभूतंमधुपर्कंकरिष्ये ॥ कन्यार्थिनमित्यदिद्वीतीयांत
मुक्त्वामधुपर्केणार्हयिष्ये इतिवा ॥ विष्टरोविष्टरोविष्टरइतिविष्ट्रंवरहस्तेदध्यात् ॥
वरस्तु ॥ अहंवर्ष्मेत्यस्यवामदेवोविष्टरोनुष्टुप् ॥ विष्टरोपवेशनेविनियोग: ॥ ॐ अहंवर्ष्मसजातानांविध्युतामिवसूर्य: ॥ इदंतमधितिष्ठामियोमाकश्चामिदासति ॥ इत्युदग
ग्रेविष्टरउपविशेत् ॥ ततोर्चकेनपाध्यंपाध्यंपाध्यमितित्रिर्निवेदितंपाध्यंवरोगृह्णीयात् ॥
ततोर्चकस्तेनोदकेनपत्नीप्रक्षिप्तेनास्मिनास्मिन्नाष्ट्रइतिवरस्यदक्षिणसव्यपादौप्रक्षालयेत् ॥ ततोवरोलौकिकोदकेनाचम्य अर्ध्यमर्ध्यमर्ध्यमितिपूर्ववत्रिर्निवेदितंगंधमाल्यफलयुतम
र्ध्यमंजलिनाप्रतिगृह्य ॥ आचमनीयमाचमनीयमाचमनीयमितित्रिर्निवेदितंपात्रंप्रतिगृह्यभू
मौनिधायतस्यैकदेशंगृहीत्वा ॥ ॐ अमृतोपस्तरणमसीतिपीत्वा लौकिकोदकेनाचम्य ॥
आनीयामानंमधुपर्कवर: ॥ ॐ मित्रस्यत्वाचक्षुषाप्रतीक्षेइत्यवेक्ष्य दात्रामधुपर्कोमधुपर्कोम
धुपर्कइतित्रिर्निवेदितंमधुपर्क ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यांप्रति
गृह्णामीत्यंजलिनाप्रतिगृह्यांजलिस्थमेव ॥ मधुवाताइतितिसृणांराहूगणोगोतमोविश्वेदेवा
गायत्री ॥ मधुपर्कावेक्षणेविनियोग: ॥ ॐ मधुवाताऋतायतेमधुक्षरंतिसिंधव: ॥ मार्ध्वीर्न:
संत्वोषधी: ॥ मधुनक्तमुतोषसोमधुमत्पार्थिवंरज: ॥ मधुध्यौरस्तुन:पिता ॥ मधुमान्नोव
नस्पतिर्मधुमाँअस्तुसूर्य: ॥ माध्वीर्गावोभवंतुन: ॥ इत्यवेक्ष्यतत्पात्रंसव्यहस्तेगृहीत्वांगुष्ठो
पकनिष्ठिकाभ्यांमधुपर्कंत्रि:प्रदक्षिणमालोडयांगुलिगतंमधुपर्कलेपं ॐ वसवस्त्वागायत्रेण
च्छंदसाभक्षयंतुइतिपुरस्तान्निमृजेत् ॥ ॐ रुद्रास्त्वात्रैष्टुभेनच्छंदसाभक्षयंतुइतिदक्षिणत: ॥ ॐ आदित्यास्त्वाजागतेनच्छंदसाभक्षयंतुइतिपश्चात् ॥ ॐ विश्वेत्वादेवाआनुष्टुभेन
च्छंदसाभक्षयंतुइत्युत्तरेनिमृज्य ॥ भूतेभ्यस्त्वाभूतेभ्यस्त्वाभूतेभ्यस्त्वाइतिमध्यात्किंचि
द्गृहीत्वात्रिरुर्ध्वंक्षिप्त्वामधुपर्कपात्रंभूमौनिधायमधुर्कैकदेशंगृहीत्वा ॥ ॐ विराजोदोहोसीति
प्राश्य लौकिकोदकेनाचम्य पुनर्गृहीत्वा ॥ ॐ विराजोदोहमशीय इतिप्राश्य पूर्ववदाचम्य
पुनर्गृहीत्वा ॥ ॐ मयिदोह:पध्यायैविराज:इतिप्राश्य पूर्ववदाचम्य ॥ मधुपर्कशेषमुदगुपवि
ष्टायब्राह्मणायदध्याल्लोकविद्विष्टत्वादप्सुवाक्षिपेत् ॥ तत:पूर्वनिवेदिताचमनीयैकदेशं
ॐ अमृतापिधानमसीतिपीत्वालौकिकोदकेनाचम्य आचमनीयजलशेषंसर्वंगृहीत्वा ॐ सत्यंयश:श्रीर्मयिश्री:श्रयतांइतिप्राश्यलौकिकोदकेनद्विराचामेत् ॥ ततोदात्रागौर्गौर्गौरितित्रि
र्निवेदितांगांनिष्क्रयंवा ॥ मातारुद्राणामित्यस्यभार्गवोजमदग्निर्गौस्त्रिष्टुप् ॥ गोरुत्सर्जने
विनियोग: ॥ ॐ मातारुद्राणांदुहितावसूनांस्वादित्यानाममृतस्यनाभि: ॥ प्रनुवोचंचिकितु
षेजनायमागामनागामदितिंवधिष्ट ॐ उत्सृजतइतिविसृजेत् ॥ ततोदातालक्ष्मीनारायण
स्वरुपिणेवरायेतिगंधमाल्यवस्त्रयुगोपवीतयुगाभरणादिभिर्यथाविभवंवरंपूजयेत् ॥ ततोवरे
णसहागतांस्तद्बंधूनपिपूशयेत् ॥ इतिमधुपर्क: ॥

N/A

References : N/A
Last Updated : July 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP