संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १०३

तिष्यसन्तानः - अध्यायः १०३

लक्ष्मीनारायणसंहिता


श्रीबद्रीप्रियोवाच-
हरे नारायण विष्णो कालबलं कियत् कथम् ।
कदा कीदृग् भवत्येव तदुद्धारः कथं तथा ॥१॥
कृपया कालदग्धानां हितार्थं मे निवेदय ।
हितं कीदृक् कदा केन कथं वा जायते वद ॥२॥
श्रीनरनारायण उवाच-
सत्ये धर्मा मानसा वै संकल्पकृतमूर्तयः ।
ऋतम्भरा बुद्धिगम्याः सद्योजाताः समूर्तिकाः ॥३॥
संकल्पितानि सर्वाणि तत्त्वानि मूर्तिमन्ति वै ।
प्रजायन्ते तदर्थं न यत्नस्तदा त्वपेक्ष्यते ॥४॥
रसवर्षिणो वृक्षाश्च पुटके पुटके मधु ।
सर्वाः कामदुघा गावः पतिव्रताश्च योषितः ॥५॥  
संकल्पसृष्टयस्तत्र कृषिस्तदा न विद्यते ।
भूगर्भजलजाः सस्यसम्पदोऽर्धदिनस्थिराः ॥६॥
मध्याह्ने कणदाश्चापि जनाः प्राकाम्यसिद्धयः ।
सर्वलोकगतिमन्तो लक्षाधिवर्षजीवनाः ॥७॥
गह्वरालयवासाश्च समाध्यात्मकृताश्रयाः ।
पुष्पावतंसका नार्यश्चाञ्चल्यवर्जितास्तदा ॥८॥
ऋतवः ऋतुधर्माश्च नासन् पुरा कृते युगे ।
युगलाद् युगलस्यैव प्राविर्भावोऽभवत्तदा ॥९॥
युगलं मानसं जातं दाम्पत्यधर्मसंयुतम् ।
भ्रातृस्वसृव्यवहारस्तत्र नासीत् पुरामुखे ॥१०॥
सहजातोऽभवद्धर्मो दक्षवामांगवत्तदा ।
जायेते सह पित्रोस्तौ वर्तेते तौ सहैव च ॥११॥
सहैव च तिरोभावं दम्पतीरूपिणावितः ।
सत्यः सर्वव्यवहारः प्रत्यक्षो गोचरो यथा ॥१२॥
रागद्वेषतृषाहीनो नित्यतृप्तिभृतोऽभवत् ।
यथेष्टनिधनाः सर्वे यथेष्टरूपधारिणः ॥१३॥
संकल्पस्मृद्धयः सर्वे ह्यासन् कृतयुगे पुरा ।
अथ त्रेतायुगे प्राप्ते ममाऽहंभाब उद्गतः ॥१४॥
सत्यं तपो मखो दानं धर्मपानचतुष्टयात् ।
सत्यस्य ह्रासयोगेन त्रिपाद् धर्मोऽवशिष्यते ॥१५॥
कृते सत्याधीनधर्माः सिद्धयश्च तदा तु याः ।
त्रेतायां तास्तपोधीना अभवन् ऋतसत्फलाः ॥१६॥
संकल्पा निर्बला जाता असत्यस्य प्रवेशनात् ।
दर्शनं सबलं तत्र दर्शनोत्थाश्च सिद्धयः ॥१७॥
दृष्टा वृक्षाः फलन्त्येव दृष्टो धर्मः प्रशस्यते ।
वृक्षाणां पोषणैवृत्तिर्जीविका जायते तदा ॥१८॥
सस्यानां वृष्टिजा सिद्धिवृष्टिवारिपिबो जनाः ।
भौतिकाश्रयपुष्टाश्च कृतवृक्षनिकेतनाः ॥१९॥
स्वस्वसत्ताकभूभागोत्पन्नसस्यादिजीविकाः ।
जाताः प्रजास्तदा बद्रि नियमो युगलस्य न ॥२०॥
यमलस्य न चोत्पत्तिश्चैकलस्योद्भवस्ततः ।
कन्याकुमारदानानि प्रावर्तन्त तदा युगे ॥२१॥
रक्षणानि महर्द्धीणां जीवनार्थं ततोऽभवन् ।
तपसामपि हानिश्च लोकेषु कालतोऽभवत् ॥२२॥
तापस्यः सिद्धयः सर्वा नष्टाः परात्तजीवनाः ।
पराधीनाश्रया लोका अभवन् यत्नजीविनः ॥२३॥
कर्मलभ्याऽन्नवस्त्राद्यैर्वर्तयन्ति ततो जनाः ।
कूपादिजलयोगाश्च कृषिलभ्यान्नभोजनाः ॥२४॥
प्रधृष्या भौतिकैस्तत्त्वैः स्वेच्छायानं लयं गतम् ।
त्रेतान्ते च तपोहीनाः प्रजाः पुण्यविवर्जिताः ॥२५॥
यज्ञपूजाबलवत्योऽभवन् नान्यबलान्विताः ।
स्पर्शजाश्च प्रजास्तत्र विवाहबन्धनास्तथा ॥२६॥
गर्भजाऽपत्यवत्यश्च बालयौवनभावनाः ।
उप्तसस्योत्थकणजैर्जीविकावत्य एव च ॥२७॥
द्वापरे ताः प्रजाः सर्वा व्यापारजीविकापराः ।
भूत्यदासीदासभावा गृहग्रामाऽऽलयास्तथा ॥२८॥
चौर्यशाठ्यतृषातृष्णाकापट्यादियुतास्ततः ।
उप्तानां जायते कणस्मृद्धिश्चार्धा न चाधिका ॥२९॥
न्यूना वा जायते वृष्टिकूपवारिप्रसेचनैः ।
तया जीवन्ति मनुजाश्चौरास्तथाऽपहारकाः ॥३०॥
प्रजासु मानवा ह्यजायन्त लुण्टनकर्मिणः ।
तेषां दण्डप्रदानार्थं राजा दण्डधरोऽर्थितः ॥३१॥
राज्यराष्ट्रप्रजा जाताः सर्वा दण्डवशम्वदाः ।
रागो द्वेषो मृषा मिथ्या कापट्यं च छलं तथा ॥३२॥
असत्यं बहुलं क्लेशः कलहस्तेऽभवँस्ततः ।
द्वापरान्ते दुर्गवासाः प्रजामिथुनसृष्टिजाः ॥३३॥
सुखात्मा दुःखबहुलाः प्रसह्य भोगवाञ्च्छनाः ।
दुर्भिक्षबहुलाश्चापि मखपुण्यादिसिद्धयः ॥३४॥
अकालमरणाश्चापि मिथो विश्वासवर्जिताः ।
स्वल्पायुर्मरणाश्चापि प्रयत्नार्धाऽर्धसत्फलाः ॥३५॥
अतृप्ता वासनावत्यः प्रजाः क्षुधाप्रधानिकाः ।
द्वापरान्तेऽभवँस्तत्र यज्ञा ह्रासं ततो गताः ॥३६॥
बद्रिके कालवेगेन मिथ्याचारो व्यवर्धत ।
इच्छन्ति प्रायशो लोका मद्यं मांसं च मैथुनम् ॥३७॥
धूम्रचूषणमेवापि प्राणचूषणमित्यपि ।
रक्षका भक्षकास्तत्र व्यवर्धन्त गृहे गृहे ॥३८॥
राजा जारोऽभवच्चापि तिष्ये सत्त्वं लयं गतम् ।
त्रेतायां दशसाहस्राधिजीवना हि मानवाः ॥३९॥
द्वापरे ते सहस्राधिजीवनाश्च शनैः शनैः ।
कलौ ते तु शतकाधिजीवना नाधिकस्थिराः ॥४०॥
रोगदुःखबहुलाश्च फलाऽर्धाऽर्धाऽर्धविन्दकाः ।
गृहे चौर्यं गृहे हानिर्गृहे क्लेशो विशेषतः ॥४१॥
दम्पत्योः कलहो नित्यो गृहे हिंसा वचोमयी ।
अवमानं महतां प्रच्छन्नता स्वगृहेऽपि च ॥४२॥
प्रतारणं क्षणे तत्र शीलनाशः क्षणे क्षणे ।
असत्या वाक् सदा तत्र पादक्रमोऽनृतात्मकः ॥४३॥
लेखाः कपटभाराश्च लुञ्चाव्याप्तं जगत्तदा ।
अयत्नलभ्यधनिनस्तिष्ये तु बद्रिके तदा ॥४४॥
अधर्मवंशविस्तारा घर्मवंशविनाशिनः ।
मनसा चात्मना दुष्टा नारीक्रयप्रजीविनः ॥४५॥
एकवर्णा एकपेया एकभोज्याः कलौ युगे ।
एकशय्यासनवाहा एकपात्रादना जनाः ॥४६॥
पत्नीविनिमयीशय्याः सर्वाः सर्वस्य चांगनाः ।
अशुद्धिर्विद्यते नैव स्पर्शे भोज्ये कलौ युगे ॥४७॥
पेये शयने वासे च वस्त्रेऽङ्गे नाऽप्यशुद्धता ।
सर्वस्य भक्ष्यो देवार्थः प्रत्यक्षान्य मृषा तदा ॥४८॥
न संस्काराः सूतकं न स्नानं पूजा न प्रोक्षणम् ।
पूज्यपूजाविलोपश्च शास्तृशासनवर्जिता ॥४९॥
न धर्मनियमः श्रद्धा न दाम्पत्यं स्थिरं कलौ ।
कन्यादानविलोपश्चाऽतिथिवार्ताविलोपनम् ॥५०॥
साधुगुरुषु नास्तिक्यं सुराऽर्हा न दिवा निशि ।
न देवदर्शनं शान्तिर्न निद्रा निशिथे सुखा ॥५१॥
नाऽऽन्तरे कस्यचित्तोषः उद्वेगबहुला जनाः ।
अर्थोपार्जनरक्तानां नाऽऽर्थाऽऽगमेऽपि पूर्णता ॥५२॥
न वेषैर्नरनारीणां जातिपरिचयोऽपि वै ।
विक्रीतक्रीतभोज्याऽन्नादना आपणजीविकाः ॥५३॥
आपणे भोजनादाश्च पर्वसु पानतत्पराः ।
सर्वे चत्वररसिका इन्द्रजालावलोकनाः ॥५४॥
बहुव्ययाः क्लेशपरा नग्नरुचयो मानवाः ।
सर्वेषु कलिकालेषु पर्यायेणाऽऽगतेषु वै ॥५५॥
कन्यकाः सर्वभोगिन्यो भविष्यन्ति कलौ शनैः ।
बालगर्भो मातृनाम्ना न्याय चालम्बयिष्यति ॥५६॥
पञ्चसहस्रवर्षान्ते तीर्थलोपः समूलतः ।
वितस्तिजलवाहिन्या महानद्यो युगे कलौ ॥५७॥
अष्टोत्तरा सगर्भा स्याच्चत्वारिंशे मृतिं लभेत् ।
स्वयंवरा लाजशून्या नग्नदेहास्तदा स्त्रियः ॥५८॥
सर्वपुंपार्श्वशायिन्यो रजोऽशुद्ध्यप्रपालिकाः ।
रुग्णाः स्वार्थपरा डाकिन्यश्च नार्यो युगे कलौ ॥५९॥
गृहे रात्रिनिगमो न सर्वत्र नरयोषितोः ।
पितुर्नाम कलौ नास्ति जातिनाम न विद्यते ॥६०॥
माताऽपि बालभावस्य ततो माता न विद्यते ।
कुटुम्बसमुदायश्च नश्यत्येव कलौ द्रुतम् ॥६१॥
यत्र रक्तं मनो यस्य यस्या वा तावदेव तौ ।
कामनाधर्मभागो वै दाम्पत्यं नैव विद्यते ॥६२॥
अनावृतसुगुप्तांगा अन्याङ्गानां तु का कथा ।
एकलाया विहारश्च परदेशेष्वपि स्त्रियाः ॥६३॥
एकलायाः परक्षेत्रे निवासोऽति तदा स्त्रियाः ।
पुंसां पराधीनता च स्त्रीवर्गाग्रे कलौ युगे ॥६४॥
स्त्रीशासनं निम्नवर्णशासनं च कलौ कलौ ।
अविद्याऽध्ययनं तिष्ये भूतवादप्रधानता ॥६५॥
प्रप्यक्षरचना लोकाः परोक्षवर्जनाः कलौ ।
अनायाससुखार्थाश्च स्वात्मश्रेयोविवर्जिताः ॥६६॥
हिंसाप्रधाना जनताश्छलधर्माग्रबोधनाः ।
वान्ताशनास्तदा श्रेष्ठाः कनिष्ठा नितरां तथा ॥६७॥
तिष्ये माया तथाऽसूया वधश्चापि तपस्विनाम् ।
तामसाश्च नरा नार्यो भवन्ति क्षुद्भयान्विताः ॥६८॥
देशानां चापि राष्ट्राणां विपर्ययाः पुनः पुनः ।
प्रामाण्यं न श्रुतेस्तत्र प्रामाण्यं बलिनस्तदा ॥६९॥
अभिचारैर्दुराचारैर्दुष्कर्मिभिर्दुरागमैः ।
लुञ्चादानां तदा राज्यैः प्रजानां मर्दनं कलौ ॥७०॥
सम्बन्धो नरनारीणां यथेष्टः शयनादिषु ।
राजानः श्वपचास्तत्र बाधयन्ति सुधर्मिणः ॥७१॥
भ्रूणहत्या वीरहत्या स्त्रीहत्या च प्रजास्वति ।
नीचास्तत्र सदाचारा उत्कृष्टा नीचिनो मताः ॥७२॥
राजवृत्तिगताश्चौराश्चौराचाराः प्रजेश्वराः ।
एकपत्नीव्रतं नास्ति वर्धन्ते चाभिसारिकाः ॥७३॥
आसनस्था वीक्ष्य पूज्यान् नोत्तिष्ठन्ति कलौ सतः ।
ताडयन्ति सुतास्तिष्ये पितॄन् पितामहादिकान् ॥७४॥
उच्चासनस्था नीचास्तु प्रधानाग्र्याः कलौ युगे ।
नीचानां गोपुरे श्रेष्ठाः सदा तिष्ठन्ति सेवकाः ॥७५॥
सेवन्ते नीचवर्णाश्च स्तुवन्ति नीचयोनिजान् ।
पुरुषादल्प्यं बहुस्त्रीत्वं तिष्ये भवन्ति चोत्तरे ॥७६॥
श्वापदानां बहुलत्वं गवादीनां परिक्षयः ।
साधूनां विनिवृत्तिश्च तिष्ये तिष्ये भवन्ति वै ॥७७॥
चित्रवर्षी तदा मेघः सर्वे वणिक्क्रियाछलाः ।
कुशीलचर्यापरमाः क्रूरवाक्याः कलौ कलौ ॥७८॥
निन्दकाः पतिता लोका मण्डलानि पुरे पुरे ।
भवन्त्यल्पजला 'पृथ्वी चाल्पफलाऽविनाफला ॥७९॥
दशसाहस्रवर्षाणां विगमे देवमूर्तयः ।
प्रलयं यान्ति सर्वत्र मन्दिराणि न सन्त्यपि ॥८०॥
पञ्चदशसहस्राणां वर्षाणां विगमे कलौ ।
प्रजाः षोडशवर्षान्ता प्रयान्ति वृद्धताम् मृतिम् ॥८१॥
चतुर्वर्षा युवती च जरठा द्वादशाब्दिका ।
षण्मासे बालसूत्यश्च दशाब्दे तु रजःक्षयाः ॥८२॥
गर्तालया वितस्तिमात्रका ह्रस्वा जनास्तदा ।
भावो मुष्टिद्वयोत्सेधास्तिष्यप्रान्ते भवन्ति हि ॥८३॥
चौराश्चौरस्वहर्तारो हर्तुहर्ता तथाऽपरः ।
कीटमूषकनकुला धर्षयन्ति कलौ तदा ॥८४॥
स्त्रीबालगोवधं कृत्वा हत्वा मिथो निजानपि ।
मानवाँस्ते वृथाक्लेशान् साधयन्ति कलौ जनाः ॥८५॥
तदा दानं तारकं वै चार्धकलौ स्थितं ह्यपि ।
नाशं याति समस्तं च दानवार्ताऽपि नास्ति हि ॥८६॥
तदा दानादिहीनेऽपि नारायणपरायणाः ।
बद्रिके शरणं प्राप्ता हरेस्तरन्ति तिष्यजाः ॥८७॥
उत्सीदन्ति कलौ यज्ञा व्रतानि नियमा यमाः ।
पाखण्डकर्मठा लोकाः प्रजायन्ते कलौ युगे ॥८८॥
दुःखप्रभूतमल्पायुः स्वल्पधैर्यं सरोगता ।
अधर्मसंभृता लोकाः सदा हत्यापरायणाः ॥८९॥
सत्ये वत्सरशतकस्त्रेतायां वत्सरात् स वै ।
द्वापरे माससाध्यः स धर्मः कलौ दिनेन वै ॥९०॥
दिनधर्मफलं कृष्णनारायणैककीर्तनात् ।
तिष्ये प्रजायते बद्रि नारायणः प्रमोक्षदः ॥९१॥
प्रजास्तिष्ये यदा सर्वाः परस्परभयार्दिताः ।
व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान्निजालयान ॥९२॥
निर्मर्यादाः प्रतिहता हित्वा जनपदानपि ।
सरित्सागरकूपाँस्ताः सेवन्ते पर्वतानपि ॥९३॥
मधुमांसैर्मूलफलैर्वर्तयन्ति सुदुःखिताः ।
जराव्याधिक्षुधाविष्टा भवन्त्यन्यपथिस्थिताः ॥९४॥
देवचित्राणि नग्नानि स्त्र्यंकस्थनरवन्ति वा ।
नरांकस्थस्त्रीमयानि कलौ गृहे गृहे तदा ॥९५॥
देव्यः सूक्ष्माम्बराधाना मिथुनारूढदर्शनाः ।
चित्रिता देवमाश्लिष्टा दृश्यन्ते चत्वरे गृहे ॥९६॥
अमर्यादाऽऽलिङ्गनस्थाश्चित्र्यन्ते युगलान्यपि ।
कलौ नृत्यानि नाट्यानि कन्यानां च पुरे पुरे ॥९७॥
कन्यकानां युवतीनां राशक्रियाश्च चत्वरे ।
वधूनां लाजशून्यत्वं विवाहे च गृहेऽपि च ॥९८॥
कामे दोषा न दृश्यन्ते कामो गुणो महाँस्तदा ।
रजोगुणक्रिया सर्वा धर्माख्यां लभते कलौ ॥९९॥
असत्यं सत्यवत्तत्र प्रतारणं तु धर्मवत् ।
कन्या कुमारवत् तिष्ये नारी नरसमा कलौ ॥१००॥
मानुषकश्चैकविधो व्यवहारो न वै पृथक् ।
भ्राता तु भगिनीं हन्यात् स्वसा हन्यात् स्वसोदरम् ॥१०१॥
भार्या हन्यात्पतिं पुत्रं तौ भार्यां वा परस्परम् ।
अन्यायोपार्जननेत्राः प्रजास्तिष्ये स्थले स्थले ॥१०२॥
सर्वा राक्षसधर्मा वा दैत्यधर्माः प्रजास्तदा ।
तथा पिशाचधर्मा वा तथा दानवधर्मिकाः ॥१०३॥
तथा वा लुण्टकधर्माश्चौरधर्मा गृहे गृहे ।
निष्कामित्वं कलौ नास्ति मिथो वैरं गृहे गृहे ॥१०४॥
भवन्ति भ्रष्टकरणा मानवा मूषका इव ।
बद्रिके तिष्यभावास्ते कथिता भ्रष्टमार्गिणः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने तिष्यमानुषस्वभावानां निरूपणनामा त्र्यधिकशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP