संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः २५

तिष्यसन्तानः - अध्यायः २५

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः कृष्णनरायणः ।
पुनः स्वरूपयोगं स्वं सुभक्ताय त्वुपादिशत् ॥१॥
स्वरूपं श्रीकृष्णनारायणं मानवविग्रहम् ।
आश्रित्य वर्तते यस्तु तस्य मोक्षोऽस्ति सर्वथा ॥२॥
परेऽक्षरे राजमानो राजाधिराज ईशपः ।
अवताराऽवतारी यः सोऽहं श्रीकृष्ण एव हि ॥३॥
अनन्तवासुदेवानां वासुदेवोत्तमोऽस्म्यहम् ।
अनन्तश्रीकृष्णनारायणनारायणोत्तमः ॥४॥
अनन्तानां भगवतां भगवानुत्तमोत्तमः ।
अनन्तानां पुरुषाणामस्म्यहं पुरुषोत्तमः ॥५॥
अनन्तानामक्षराणामक्षरोत्तमशासकः ।
अनन्तानां च मुक्तानां मुक्ताऽधिपाऽधिपोऽस्म्यहम् ॥६॥
असंख्यानां पार्षदानां पार्षदेशेश्वरोऽस्म्यहम् ।
असंख्यानां च शक्तीनां महाशक्तीश्वरोऽस्म्यहम् ॥७॥
दिव्यमुक्तानिकानां च महामुक्तानिकेश्वरः ।
समस्तसाधुसाध्वीनां श्रेष्ठसाधूत्तमोऽस्म्यहम् ॥८॥
असंख्यानां विभवानां महाविभूत्तमोऽस्म्यहम् ।
अनन्तांऽशांऽशरूपाणामंशी चास्मि परः पुमान् ॥९॥
अनन्ताऽऽवेशकर्ताऽहं महावेशेश्वरोऽस्म्यहम् ।
असंख्याधिकलानां च कलेश्वरोऽस्म्यहं प्रभुः ॥१०॥
विभूतीनामसंख्यानां महाविभूतिपोऽस्म्यहम् ।
माणिक्याललिताराधारमादीनां परः पतिः ॥११॥
सतां पतिश्चाऽक्षरेशश्चाऽक्षरातीत आत्मपः ।
आत्मेशः सर्वसृष्टीनां पालकानां नियामकः ॥१२॥
सच्चिदानन्दरूपोऽस्मि सदा दिव्योऽतिसुन्दरः ।
दिव्यमूर्तिश्चैकतत्त्वात्मकोऽसंख्यसुखान्वितः ॥१३॥
मोदप्रमोदानन्दानामाश्रयोऽस्मि महानहम् ।
उत्सवानां समस्तानां प्रकाशकोऽस्मि पावनः ॥१४॥
समस्तानाममृतानां सागरोऽस्मि सुधाभृतः ।
मिष्टातिमिष्टमिष्टानां रसानामस्मि शेवधिः ॥१५॥
आकर्षणानां दिव्यानां महाकर्षणमूर्तिमान् ।
आनन्दमूर्छनानां च सदाऽस्म्यानन्दमूर्छनः ॥१६॥
सर्वदिव्यप्रसादानां प्रसन्नतादिवारिधिः ।
सर्वलावण्यसुखवान् सर्वमाधुर्यसंभृतः ॥१७॥
सर्वरम्यप्रसंगानां प्रसञ्जकोऽस्मि माधवः ।
यावन्मनोरथानां च पूरकोऽस्मि तृषाहरः ॥१८॥
सर्वासां चापि तृप्तीनां तृप्तिदाताऽस्मि तर्पणे ।
सन्तोषाणां समस्तानां तुष्टस्तोषप्रदोऽस्मि च ॥१९॥
प्रेम्णां च यावतां प्रेमप्रदोऽस्मि प्रेमभूः प्रभुः ।
स्नेहानां स्निग्धभावनां स्नेहपूर्णो भवाम्यहम् ॥२०॥
आसक्तीनां समस्तानामासक्तिपतिरस्म्यहम् ।
शर्कराणां च मिष्टानां पीयूषमधुदोऽस्म्यहम् ॥२१॥
शीतलानां सुखानां च विशेषः शीतसौख्यदः ।
उष्णानां च महानन्दप्रदानामुष्णसौख्यदः ॥२२॥
शृंगाराणामसंख्यानां शृंगाररसदोऽस्म्यहम् ।
स्वादानां च समस्तानां महास्वादभरोऽस्म्यहम् ॥२३॥
आश्लेषाणां महानन्दभरोऽस्म्यहं प्रमीलने ।
चूम्बनानां समस्तानां सकम्पानन्ददोऽस्म्यहम् ॥२४॥
स्नेहाश्रूणां वाहकोऽस्मि प्रेमरोमोद्गमोऽस्म्यहम् ।
पुलकानां विचित्राणां प्रपुलकोऽपि सर्वथा ॥२५॥
मोहानां च समस्तानां मुग्धतासंभृतोऽस्म्यपि ।
शयनानां सुषुप्तीनां विश्रान्तीनां विरामदः ॥२६॥
आरामाणां महारामो रामोऽस्मि रमतामहम् ।
रमणोऽस्मि सकामानां कामोऽस्मि कामिनामपि ॥२७॥
रतिश्चास्मि रतानां च शान्तिश्च सिद्धयोगिनाम् ।
पुष्टिश्चास्मि प्रपुष्टानां बलिनां बलमुत्तमम् ॥२८॥
आत्मबलं समस्तानामस्म्यहं निर्भयत्वदम् ।
सुरभिः सौरभाणां च पुष्पमस्मि च् पुष्पिणाम् ॥२९॥
फलं चास्मि च फलिनां धातुर्धातुमतामहम् ।
सुवर्णश्चाऽस्मि वर्णानां रूपिणां रूपमस्म्यहम् ॥३०॥
सुकण्ठीनां मिष्टकण्ठः सुस्वराणां स्वरोऽस्म्यहम् ।
गीतीनां मधुरा गीतिर्नृत्यानां चैकतानता ॥३१॥
हावो भावस्तथा चेष्टा चिह्नं चास्मि समस्तगः ।
संयोगोऽस्मि धृतिश्चाऽस्मि वृषोऽस्मि सत्त्ववानपि ॥३२॥
आकांक्षाऽस्मि समस्तानां मर्यादाऽस्मि च देहिनाम् ।
आश्चर्याणां समग्राणामाश्चर्यमस्मि सर्वगम् ॥३३॥
कौतुकानां समस्तानामस्म्यहं कौतुकोत्तमः ।
निर्वृत्तीनां रमणीनां क्रियानिर्वृत्तिरस्म्यहम् ॥३४॥
सर्वविधानां केलीनां केलिचातुर्यवानहम् ।
योगानां च समस्तानां शाश्वतानन्दयोगदः ॥३५॥
रागाणां चापि सर्वेषां राग्यहं रञ्जनार्थकृत् ।
शोभानां यावतीनां च शोभनोऽहं सुभासुरः ॥३६॥
मदानां मादकश्चाऽहं भोग्यानां भोगवर्धनः ।
आभोगानां महाभोगस्वरूपोऽस्मि प्रभोगिषु ॥३७॥
द्रवाणां यावतां चास्मि स्नेहद्रवात्मकः प्रभुः ।
वात्सल्यानां वत्सलता नैसर्गिकी भवाम्यहम् ॥३८॥
चुम्बकानां समस्तानां पिण्डचुम्बकवानहम् ।
आन्तराणां प्रहर्षाणां महाप्रहर्षणोऽस्म्यहम् ॥३९॥
समस्तानां प्रहास्यानां मन्दहास्यं भवाम्यहम् ।
कटाक्षाणां चेङ्गितानां कटाक्षेङ्गितवानहम् ॥४०॥
हार्दानां चान्तराणां च महाहृदयवानहम् ।
प्रकर्षणानां सर्वेषां महाप्रकर्षणोऽस्म्यहम् ॥४१॥
श्रेष्ठानां च वरिष्ठानां श्रेष्ठवरेण्यधर्म्यहम् ।
प्रवराणां वराणां च प्रवरो वरदोऽस्म्यहम् ॥४२॥
व्यापकानामम्बराणां महाव्यापकताऽस्ति मे ।
कल्लोलानां च खेलानां प्रखेलकोऽस्मि तद्गतः ॥४३॥
उल्लासानां विलासानां समुल्लासो विलासकृत् ।
भावनानां च भावानां महाभावनयाऽन्वितः ॥४४॥
निवासानां च वासानां वासनानां वसानकः ।
प्रस्थानाभिमुखानां च प्रभवाम्यवसानकृत् ॥४५॥
पारितोषिकवर्याणामुपदानां च तोषणम् ।
स्वागतानां च मानानां मानदोऽस्मि पिता प्रभुः ॥४६॥
प्रपन्नानां चाश्रयदो महाधारोऽस्मि नाथवत् ।
अनाथानां सुनाथोऽस्मि धवोऽस्मि धविनीगणे ॥४७॥
सौभाग्यानां तु सर्वेषां महासौभाग्यचन्द्रवान् ।
सम्पदां च विपुलानां सम्पत्तिरस्मि शाश्वती ॥४८॥
ऋद्धीनां परमर्द्धिश्च लाभानां चात्मलाभदः ।
प्रसेवानां चांऽगसेवास्वरूपोऽस्मि समर्पणे ॥४९॥
शुश्रूषाणां चानुवृत्तिरस्म्यहं साधुवृत्तिता ।
साधुता च क्षमा दैन्यं त्यागिनामस्मि मत्तता ॥५०॥
शीलधर्मः समस्तेषु वीर्यं वीर्यवतामहम् ।
अस्मि रूपं च योषासु पुंसु श्मश्रुर्भवाम्यहम् ॥५१॥
वध्वा अलक्तकश्चाऽस्मि मन्थरा च पदोः गतिः ।
चाञ्चल्यं नवसंयोगाद् भवामि च निसर्गजम् ॥५२॥
आनुकूल्यं देहिनां चोपकारिणां भवाम्यहम् ।
अनुग्रहो दया कारुण्यं हितं चास्मि साधुषु ॥५३॥
जयो जयिनां मूर्धन्यो विद्या चात्मविदामहम् ।
तर्कः सर्वज्ञकल्पानां कवीनां काव्यमस्म्यहम् ॥५४॥
वल्लभता वल्लभानां कूजनं मन्त्रवेदिनाम् ।
स्तवनं स्तावकानां च भवामि मिषतां मिषः ॥५५॥
लग्नता लग्निनामस्मि ग्रन्थिश्च ग्रथ्नतामपि ।
निसर्गोऽस्मि निसर्गिस्थस्तानस्तानवतामहम् ॥९६॥
निकामदेव जानीहि चेतनानां तु चेतनः ।
अस्म्यहं सर्वसाक्षीति प्रवर्तको निवर्तकः ॥५७॥
सर्वकर्मफलदाता सूक्ष्मः सूक्ष्माऽसुजीविनाम् ।
स्थूलश्चास्मि च स्थूलानां दृश्योऽस्मि नेत्रिणां सदा ॥५८॥
अदृश्योऽस्मि दिव्यनेत्रविहीनानां तु देहिनाम् ।
गोचरोऽस्मि मदर्थानां दूरेऽस्मि द्वेषिणामपि ॥५९॥
जीवनं सर्वसत्त्वानां जडानामस्मि चास्तिता ।
योषितां नाभिपद्मेऽस्मि नराणामस्मि नृत्वके ॥६०॥
देवानां चाऽमृते ह्यस्मि पितॄणां पुण्यसञ्चये ।
ऋषीणां ब्रह्मभावेऽस्मि मानवानां नयेऽस्मि च ॥६१॥
शूराणां योधने चास्मि विदुषां बहुवेदने ।
सतीनां सत्यधर्मेऽस्मि वधूनां पतिदैवते ॥६२॥
पत्नीनां पातिव्रत्येऽस्मि पुत्राणां पितृसेवने ।
धनिनां दानभावेऽस्मि राज्ञां धिष्ण्ये वसाम्यहम् ॥६३॥
अप्सरसां चाननेऽस्मि गान्धर्वाणां तु गायने ।
नर्तकीनां नृत्यकार्ये सभायां च सभापतौ ॥६४॥
कथायां व्यासदेवेऽस्मि मखेऽनलेऽस्मि सर्वथा ।
युद्धे जये स्थितश्चास्मि नीतावस्मि समुद्यमे ॥६५॥
दुग्धे गवादिपशूनामस्मि गुन्द्रे तु शाखिनाम् ।
संस्कारे द्विदलादीनामस्मि भिक्षुकभिक्षिते ॥६६॥
मन्दिराणां मध्यदेशे भवनानां तु गोपुरे ।
ग्रामाणां चत्वरे चास्मि नगराणां नयालये ॥६७॥
अरण्येषु पिप्पलेऽस्मि देहल्यां तु गृहे गृहे ।
तुलस्यां वैष्णवस्थल्यां वैष्णवेऽस्मि वनेऽपि च ॥६८॥
तीर्थेषु सत्सु वर्तेऽहं पृथ्व्यां भक्तालयेऽस्मि च ।
कालेषु ब्राह्मकालेऽस्मि सायं चारार्त्रिकेऽस्मि च ॥६९॥
नक्षत्रेऽस्मि जयन्त्यादौ बिम्बेऽस्मि श्रेष्ठपूजने ।
सर्वमित्रेऽस्मि मनुजे शास्त्रेऽस्मि मत्कथान्विते ॥७०॥
धर्मेऽस्मि ब्रह्मचर्येऽहं श्रद्धायामस्मि दातरि ।
भाग्यवतां पुरश्चाऽस्मि दुर्भाग्यानां तु पृष्ठतः ।
अधश्चास्मि तु पापानामूर्ध्वमस्मि दिवौकसाम् ॥७१॥
आत्मनिवेदिनामस्मि देहेन्द्रियान्तरात्मसु ।
विप्राणां वचने चास्मि मायायां सात्त्विके गुणे ॥७२॥
अन्यायानां भयं चास्मि शिक्षाऽस्मि शास्यवर्गिणाम् ।
वादानां निर्णयश्चास्मि फलव्याप्तोऽस्मि सर्वथा ॥७३॥
सजातीनां प्रवाहेऽस्मि चानुपूर्व्यां तु वाङ्मये ।
विशिष्टं चाऽक्षरं ब्रह्म तत्राऽद्वैतो वसाम्यहम् ॥७४॥
अतो विशिष्टब्रह्माऽद्वैतात्मकोऽहं परेश्वरः ।
निकामदेव मां यस्तु जानीयात् सुस्वरूपिणम् ॥७५॥
श्रीकृष्णं वल्लभं चार्यं स्वामिनं बालकृष्णकम् ।
मुक्तिं गच्छेन्न सन्देहो मद्विज्ञो न प्रणश्यति ॥७६॥
श्रीनिकामदेव उवाच-
कथं विशिष्टब्रह्माद्वैतात्मकस्त्वं विबुध्यसे ।
संक्षेपान्मे कथयस्व सर्वस्वामिन्नरायण ॥७७॥
श्रीकृष्णनारायण उवाच-
विशेषणं स्थूलमाया सर्वकार्यात्मिका तु या ।
विशेषणं सूक्ष्ममाया साम्यावस्था गुणत्रयम् ॥७८॥
ताभ्यामचेतनाभ्यां तु विशिष्टं ब्रह्म चाक्षरम् ।
अन्तःस्थं व्यापकं चास्ति विशिष्टे ते ह्युभेऽक्षरे ॥७९॥
विशेषणं स्थूलात्मानः सर्वकर्मफलाशनाः ।
विशेषणं सूक्ष्मात्मानः कर्मफलादिवर्जिताः ॥८०॥
ताभ्यां वै चेतनाभ्यां तु विशिष्टं ब्रह्म चाऽक्षरम् ।
अन्तःस्थं व्यापकं चास्ति विशिष्टे ते ह्युभेऽक्षरे ।
अक्षरं त्वेकमेवाऽस्ति द्वितीयेन विवर्जितम् ॥८१॥
ब्रह्माभिधं धाम दिव्यं परब्रह्मपरात्मनः ।
प्रकाशाख्यं सच्चिदानन्दात्मतेजोमयं सदा ॥८२॥
तदेकं तु चतुर्धाऽत्र विशेषणैर्विशेषितम् ।
विशिष्टयोर्विशिष्टयोरद्वैतं ब्रह्मधाम तत् ॥८३॥
विशिष्टाद्वैतमुक्तं मे धामाऽक्षराभिधं द्विज ।
जडेषु चेतनेष्वेव सर्वावस्थासु सर्वथा ॥८४॥
राजते चाऽक्षरं ब्रह्म सर्वाश्चर्यसमन्वितम् ।
तत्र विशिष्टाद्वैते वै धाम्न्यक्षरे विराजते ॥८५॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
यः सोऽहं त्वेक एवाऽस्मि तुल्याधिकविवर्जितः ॥८६॥
अद्वैतोऽस्मि न स्वो द्वौ वै परमेशौ कदाचन ।
अतो विशिष्टाऽद्वेताऽद्वैतोऽहं श्रीपरमेश्वरः ॥८७॥
परब्रह्माऽक्षरातीतः सर्वात्माऽक्षरब्रह्मगः ।
विशिष्टं चाऽक्षरं ब्रह्माऽद्वैतं तत्राऽस्मि चैकलः ॥८८॥
मद्विशिष्टं ब्रह्म सर्वजडचेतनगं मतम् ।
एवं चाऽस्मि सदा विप्र व्यापिनो व्यापकोऽप्यहम् ॥८९॥
एतत्ते कथितं तत्त्वं मम स्वरूपवेदने ।
सोऽहं मूर्तोऽस्मि सर्वत्राऽक्षरे मूर्तेऽपि तेजसि ॥९०॥
अक्षरं ब्रह्म मद्युक्तं सर्वत्राऽस्ति द्विजोत्तम ।
सृष्टित्रयं चाऽक्षरेऽस्ति विशेषणतयाऽन्वितम् ॥९१॥
अक्षरे सन्ति मुक्ताश्च धामान्यन्यानि सन्त्यपि ।
तद्धाम च समर्थं मद्योगेन मूर्तिमत् तथा ॥९२॥
सेवायां वर्तते चापि मुक्तेश्वरं हि मन्निभम् ।
मत्सारूप्यं भजमानं सर्वाधारमपि ध्रुवम् ॥९३॥
पुमान्नक्षरपुरुषः सोऽयं ब्रह्मपुमान् स्वयम् ।
तदेव व्यापकं दिव्यं भूमिका तैजसी सदा ॥९४॥
तत्प्राविर्भूतभोग्यादि भोगोपकरणान्यपि ।
भोगाश्च सम्पदः सर्वा विद्यन्ते तत्र सर्वशः ॥९५॥
यदाधारा यत्प्रपोषा यदृद्धिमन्त इत्यपि ।
मुक्ताः सर्वे वसन्त्येव मुक्तानिकाश्च धामनि ॥९६॥
मम मूर्तेः सुयोगेन पूर्णं चाऽखण्डमक्षरम् ।
अव्ययं शाश्वतं धाम तत्र वासो हि मोक्षणम् ॥९७॥
निकामदेव मे योगात् त्वं गतोऽसि तदक्षरम् ।
यत्राऽहं तत्र वै धामाऽक्षरं नित्यं हि विद्यते ॥९८॥
सा भूश्च सम्पदः सर्वा भवन्त्यत्र मयि प्रभौ ।
कुंकुमवापिकाक्षेत्रं धामाऽक्षरं त्विहास्ति वै ॥९९॥
अनादिश्रीकृष्णनारायणःश्रीवल्लभः प्रभुः ।
अक्षरस्थो विराजेऽत्र सर्वेशस्ते सुतापतिः ॥१००॥
मम योगेन मोक्षेऽसि गन्तव्यं ते न विद्यते ।
मम साक्षात्प्रसंगोऽत्राऽक्षरे मोक्षप्रदस्तव ॥१०१॥
सदा त्वं मम मुक्तोऽसि पश्य दिव्यं निजं गृहम् ।
इत्युक्त्वा श्रीकृष्णनारायणस्तं चाऽक्षरं पदम् ॥१०२॥
दर्शयामास सहसा मुक्तं निकामदेवकम् ।
मुक्तानिकां तथा सुरेश्वरीं दिव्यां तु शाश्वतीम् ॥१०३॥
बद्रीप्रियां बालयोगिनीं च पद्मावतीसतीम् ।
माणिकीं हरिपत्नीं स प्रदर्श्याऽभावयत्तिरः ॥१०४॥
बद्रिके त्वं सैव चास्से या तत्र बालयोगिनी ।
माणिक्यवर्णा श्रीकृष्णनारायणस्य वाहिनी ॥१०५॥
पृथ्व्यां सा माणिकी वाहा वडवाऽभवदच्युता ।
ब्रह्मप्रभावती युक्ता या जयाललितात्मिका ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने परब्रह्मस्वरूपयोगनिरूपणं विशिष्टब्रह्माऽद्वैतात्मकपरब्रह्मविवेचनं चेत्यादिनिरूपणनामा पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP