संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ९७

तिष्यसन्तानः - अध्यायः ९७

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि भगवान् भूतभावनः ।
कुंकुमवापिकाक्षेत्रे यदागमत् तदा द्रुतम् ॥१॥
विमाने यानि रूपाणि पत्नीनां द्वैतवन्ति च ।
तानि सर्वाणि तत्रैव तिरोभावयदच्युतः ॥२॥
विमानस्थानि रूपाणि भूस्थेष्वाविविशुस्तदा ।
दासदासीस्वरूपाणि भूस्थेष्वाविविशुस्तथा ॥३॥
लोमशादेः स्वरूपाणि भूस्थेष्वाविविशुस्तदा ।
द्वैतभावे विलीने च निजरूपे हरिः स्वयम् ॥४॥
एकभावं गतस्तत्र विमानं चाऽणुतां गतम् ।
रत्नभूषाम्बरहारा उपदाः स्वर्णशोभनाः ॥५॥
सर्वा यथायथं कृष्णो ददौ योग्येभ्य एव च ।
विप्रेभ्योऽनाथदीनेभ्यः श्रीभ्यो ददुर्यथायथम् ॥६॥
चातुर्मास्यमुवासाऽपि हरिः कुंकुमपत्तने ।
त्रयोविंशं हरेर्जन्मदिनं प्राप्तं शुभप्रदम् ॥७॥
प्रातरेव कृतस्नानोऽष्टम्यामूर्जस्य चाऽसिते ।
कृतशृंगारकः कृष्णोवल्लभोऽयात् स्वसंसदि ॥८॥
तदा वाद्यान्यवाद्यन्त गीतयश्चाभवन् शुभाः ।
नर्तनानि विचित्राणि देवतानां तदाऽभवन् ॥९॥
सर्वोत्कृष्टा सभा पूर्णा सर्वसूष्टिनिवासिभिः ।
जाता सा बद्रिके तत्र लोमशः समुपाययौ ॥१०॥
पुपूज परमात्मानं चिरं जीवेति चाह तम् ।
श्रीमद्गोपालकृष्णाद्याः पुपूजुः परमेश्वरम् ॥११॥
अवतारा ईश्वराश्च मुक्ताः सिद्धाः सुरास्तथा ।
ऋषयः पितरो देवा मानवाश्च नराः स्त्रियः ॥१२॥
पुपूजुः कम्भरालालं चाशीर्वादान् ददुस्तदा ।
आरार्त्रिकं व्यधुः सर्वे महोत्सवमकारयन् ॥१३॥
प्रज्ञापद्मावतीलक्ष्मीराधाद्याश्चक्रुरुत्सवम् ।
अतलादिनिवासाश्च दैत्यदानवराक्षसाः ॥१४॥
नागाः सर्पा भोगिनश्चार्थयामासुर्हरिं प्रति ।
भगवन् पावयाऽस्मान् स्वान् पातालादीनि दर्शनात् ॥१५॥
तथाऽस्त्विति हरिः प्राह भोजयामास तान् हरिः ।
महीमानान् समस्ताँश्च विदायं प्रददावपि ॥१६॥
ययुः सर्वे निजलोकान् कृष्णः पातालवासिभिः ।
सह गन्तुं समियेष सर्वपूर्वानुगैर्युतः ॥१७॥
सर्वस्त्रीदासदास्यादियुतश्च लोमशान्वितः ।
स्वतःप्रकाशप्रभृतिमुनिभिः साधुभिर्युतः ॥१८॥
हेमन्ताद्यैः पार्षदैश्च युतो द्वेधा समस्तकः ।
सर्वरूपोऽभवत् कृष्णो द्वेधा वेषादिभूषितः ॥१९॥
विमानं यदणु त्वासीन्महत्तत् तत्र संव्यधात् ।
सर्वान् संस्थाप्य सर्वाश्च तत्र कुंकुमक्षेत्रके ॥२०॥
सर्वान् सर्वाः सह नीत्वा चैकादश्यां विमानके ।
आरुरोह ससार्थाढ्यो हरिर्गोपालनन्दनः ॥२१॥
सुपर्णवासुकिशंकुकर्णनमुचिभिः सह ।
विमानमैरयत्तूर्णं शृण्वन् हर्षजयध्वनीन् ॥२२॥
अतले तु सुपर्णस्य सौधवर्ये महाप्रभुम् ।
सुपर्णाद्या हरिं तत्र पुपूजुः परमादरात् ॥२३॥
महाराज्ये च सर्वत्र भ्रामयित्वोपदा ददुः ।
मणिरत्नानि बहूनि भोजनान्युत्तमानि च ॥२४॥
यक्षा दैत्या दानवाश्च नामुचेया नरायणम् ।
पुपूजुः परया प्रीत्या मनुं हरेश्च जगृहुः ॥२५॥
विदायं प्रददुश्चापि मार्गशीर्षे ततो हरिः ।
प्रययौ वितलं लोकं विमानेन द्रुतं प्रयुः ॥२६॥
जम्भकश्चापि प्रह्लादः कम्बलश्चेति ते तदा ।
स्वागतं श्रीहरेश्चक्रुर्बहुमानपुरःसरम् ॥२७॥
दैत्या भक्ता भक्तिमन्तो पुपूजुः परमेश्वरम् ।
प्रह्लादो रक्षयामास प्रभुं मासान्तमेव ह ॥२८॥
स्वगृहे निजराज्ये च भ्रामयामास सर्वशः ।
दैत्यानां काटयः कृष्णं निन्युर्निजालयानपि ॥२९॥
सस्त्रीकं सर्वसार्थाढ्यं कृष्णं पुपूजुरादरात् ।
दैत्यस्त्रियो दीनचित्ता लक्ष्म्यादीरार्चयन्मुदा ॥३०॥
ददू रत्नानि बहूनि मणीन् श्रेष्ठाँश्च वै तदा ।
भोजनानि ददुश्चापि विदायं प्रददुस्ततः ॥३१॥
पौषमासे ययौ कृष्णः सुतलं लोकमुत्तमम् ।
विरोचनगृहे तत्रोवास श्रीपतिरीश्वरः ॥२२॥
दैत्याः कृष्णं बहुप्रीत्या पुपूजुश्चोपदादिभिः ।
भोजयामासुरत्यर्थं सिषेविरेऽर्बुदा जनाः ॥३३॥
पुपूज शतसाहस्रो गणो हालाहलाभिधः ।
दानवानामर्बुदानि पुपूजुः श्रीपरमेश्वरम् ॥३४॥
विप्रचितिप्रधानास्ते हरये चोपदा ददुः ।
शंकुकर्णादयश्चापि निन्युर्नारायणं गृहम् ॥३५॥
हयग्रीवादयश्चापि पुपूजुर्माधवीपतिम् ।
शारभाः शाम्बराश्चापि पुपूजू राधिकेश्वरम् ॥३६॥
कालनाभादयो दशसहस्राणि तु भूभृतः ।
पुपूजुः कमलाकान्तं हिरण्यपुरवासिनः ॥३७॥
कालकेया दानवाश्च निन्युर्नारायणं गृहम् ।
पुपूजुश्चापि दानव्यो भोजयामासुरीश्वरम् ॥३८॥
ददौ तेभ्यो हरिर्मन्त्रं 'श्रीहरिः शरणं मम' ।
विदायं गृह्य सं माघे तलातलमुपाययौ ॥३९॥
वैनतेयालये वासं चकार भगवान् स्वयम् ।
वैनतेया हरिं सार्थयुतमानर्चुरादरात् ॥४०॥
गरुत्मता चतुर्दशसहस्राणि तु भूभृताम् ।
हरिं निन्युर्निजराज्येष्वानर्चुर्मणिभूषणैः ॥४१॥
कालनेम्यादयश्चापि दैत्येशा ललितापतिम् ।
निन्युर्निजप्रदेशेष्वानर्चुः सरस्वतीश्वरम् ॥४२॥
कोटिशोऽपि तथा देवराक्षसा निजराष्ट्रके ।
निन्युः श्रीभूपतिं कृष्णं पुपूजुः परमादरात् ॥४३॥
उपदाश्च प्रददुस्ते तेभ्यो ददौ मनुं हरिः ।
नामधुन्यं ददौ चापि विदायं जगृहे ततः ॥४४॥
फाल्गुने श्रीहरिर्नैजविमानेन महातलम् ।
उपाययौ च तत्रापि मुचुकुन्दादिमन्दिरे ॥४५॥
उवास भगवाँस्तस्य सेवां जग्राह भाववित् ।
अनन्ताद्या महासर्पाः कामरूपधराः सुराः ॥४६॥
पुपूजुः परमेशानं सेवयामासुरादरात् ।
उपदाश्च ददुः श्रेष्ठा मणिरत्नात्मिका मुदा ॥४७॥
भोजयामासुरत्यन्तं दिव्यान्नानि बहून्यपि ।
आरार्त्रिकं प्रचक्रुश्च विदायं प्रददुस्ततः ॥४८॥
चैत्रेऽनादिकृष्णनारायणो रसातलं ययौ ।
बलेर्गृहे निवासं स्वं चकार तेन पूजितः ॥४९॥
वामनेनेडितः कृष्णो रसाराज्यानि सर्वशः ।
बभ्राम सर्वदेशेषु भक्तानां मोक्षकांक्षया ॥५०॥
राजाधिराजवद् राजा बलिर्नारायणं हरिम् ।
पुपूज मानयामास भोजयामास मिष्टकम् ॥५१॥
विदायं प्रददौ चापि ततोऽन्ये दैत्यपुंगवाः ।
राक्षसास्तारकाद्याश्च हिरण्याक्षास्तथाऽपरे ॥५२॥
कोट्यर्बुदाधिका नित्युर्नारेश्वरं निजालयान् ।
पूजयामासुरत्यन्तं सर्वस्वदानकैर्हरिम् ॥५३॥
तन्मन्त्रं जगृहुश्चापि विदायं प्रददुस्ततः ।
वैशाखे श्रीकृष्णस्वामी पातालं समुपाययौ ॥५४॥
तत्रत्याः शेषजातीया सर्पा नारायणं गृहे ।
ररक्षुर्बहुमानाद्यै पूजयामासुरुत्सुकाः ॥५५॥
अन्ये सर्वे महासर्पाः सर्वकामस्वरूपिणः ।
नागिन्यश्च महादेव्यो हरिं लक्ष्मीः सिषेविरे ॥१६॥
अनन्तः फुलिकश्चापि वासुकिस्तक्षकस्तथा ।
कर्कोटको महापद्मः शङ्खपालादयोऽपि च ॥५७॥
निन्युर्नारायणं नैजराज्येष्वानर्चुरुत्सुकाः ।
पुपूजुर्मणिरत्नाद्यै सेवयामासुरत्यति । ॥५८॥
भोजयामासुरीशेशं विदायं प्रददुस्ततः ।
हरिर्मन्त्रं ददौ तेभ्यस्ततो विमानमास्थितः ॥५९॥
वाद्यघोषादिभिश्चोत्तेजितः सम्मानितो ह्यति ।
क्षीरसागरमध्ये वै यत्र शेषासनो हरिः ॥६०॥
आययौ तत्र भगवान् महोत्साहभरः प्रभुः ।
ज्येष्ठे मासे हरिं शेषासनो विष्णुः पुपूज ह ॥६१॥
पायसै रससारैश्च भोजयामास वै मुदा ।
लक्ष्मीः समस्तलक्ष्मीनां सेवां चकार भावुकी ॥६२॥
मणिरत्नानि विष्णुर्वै नारायणाय संददौ ।
विदायं प्राप्य भगवान् श्वेतद्वीपमुपाययौ ॥६३॥
आषाढे कमलाकान्तः प्रज्ञानारायणं हरिम् ।
ररक्ष पूजयामास भोजयामास चाऽमृतम् ॥६४॥
सिषेविरेऽति बहुधा कमलाः कमलादिकाः ।
विदायं जगृहे कृष्णो विमानेन ततः परम् ॥६५॥
श्वेतमुक्तेभ्य ईशेशो मनु ददौ निजं परम् ।
प्रेषयामास वै धामाऽक्षरं निजं च तानथ ॥६६॥
विमानेनाऽऽययौ तूर्णं श्रावणे बद्रिकाश्रमम् ।
नरनारायणावावां यूयं बद्र्यस्तथर्षयः ॥६७॥
तन्वाद्यास्तापसा नद्य हिमाद्रिस्तीर्थमण्डलम् ।
अपूपुजाम सर्वेशं बह्वादरसमन्विताः ॥६८॥
पादजलं पपुः सर्वे ददुर्महोपदाः शुभाः ।
हरिस्तत्र मासमात्रमुषित्वा भाद्रमासि वै ॥६९॥
आययौ स्वविमानेन वाराणसीं शुभां पुरीम् ।
तीर्थं कृत्वा धेनुपालं नृपं वीक्ष्य ततः परम् ॥७०॥
प्रयागराजे संस्नात्वा भारद्वाजं प्रणम्य च ।
द्रुतं सौराष्ट्रदेशे स्वमाययौ चाक्षरीं भुवम् ॥७१॥
द्वैतरूपणि सर्वाणि तिरोभावयदच्युतः ।
एकरूपस्ततो भूत्वाऽऽविवेश निजमन्दिरम् ॥७२॥
कुंकुमवापिकाक्षेत्रे विरराम निजालये ।
एवं बद्रीप्रिये सर्वपातालानां पवित्रता ॥७३॥
विधत्ता हरिणा नैजकृपया मोक्षिता जनाः ।
अथोर्जकृष्णपक्षस्याऽष्टमी जन्मजयन्तिका ॥७४॥
हरेस्तिथिर्मंगलाढ्या चतुर्विंशा समागता ।
प्रातः स्नात्वा कृतसर्वशृंगारः कुंकुमेश्वरः ॥७५॥
मण्डपे चाययौ नैजे गजासने सुशोभिते ।
उपाविबेश मुनिभिः पूजितः कृतमङ्गलः ॥७६॥
लोमशस्तिलकं चन्द्रं कृष्णभालेऽक्षतान्वितम् ।
कौंकुमं सुभगं चक्रे पुपूजाऽऽशीःपरायणः ॥७७॥
पिता माता भ्रातरश्च महर्षयः सुरेश्वराः ।
पुपूजुः परमात्मानं मुक्ता मुक्तानिकास्तथा ॥७८॥
ईश्वरा अवताराश्च ह्याशीर्वादपरायणाः ।
पितरो यक्षगन्धर्वाः किंपुमांसश्च किन्नराः ॥७६॥
देवाश्च दानवाः सिद्धाः साध्व्यः सूताश्च चारणाः ।
द्विजा नृपाः श्रेष्ठिनश्च दासाः पुपूजुरच्युतम् ॥८०॥
देव्यः सरांसि सरितस्तीर्थानि देवमातरः ।
लोकपाला दिशांपालाः पुपूजुः परमेश्वरम् ॥८१॥
अतलादिनिवासाश्च भूवासा मानवाः प्रजाः ।
नरा नार्यो हरिकृष्णमर्चयामासुरुत्सवे ॥८२॥
उपदाश्च न्यधुर्दिव्या हररेग्रे सुवर्णजाः ।
मणिरत्नादिरूपाश्च चिरं जीवेति ते जगुः ॥८३॥
आरार्त्रिकं प्रचक्रुश्च प्रसादं जगृहुस्ततः ।
परिहारं सभायाश्चाकरोच्छ्रीलोमशस्ततः ॥८४॥
महीमानान् समस्ताँश्च भोजयामास लोमशः ।
दत्वा दानानि बहूनि विदायं प्रददौ ततः ॥८५॥
सप्तद्वीपनृपाद्याश्च समागन्तुं निजालयान् ।
प्रार्थयामासुरत्यर्थं हरिं सर्वसमन्वितम् ॥८६॥
तथाऽस्त्विति प्राह तांश्च ततोऽन्ये प्रययुर्मुदा ।
निजलोकान्निजदेशान् सप्तद्वीपेतरस्थिताः ॥८७॥
अथ श्रीभगवान् प्राप्ते त्वेकादशीदिने निजान् ।
दासीदासान् प्रमदाश्च सज्जीचकार पूर्ववत् ॥८८॥
विमाने स्वे विधायैव द्वेधारूपाणि तानि वै ।
न्यषादयत् समस्ताँश्च नारीनरात्मकान् हरिः ॥८९॥
वाद्यघोषैर्जयनादैरम्बरे स्वविमानके ।
अनादिश्रीकृष्णनारायणः समारुरोह च ॥९०॥
लोमशाद्याः ऋषयश्च ब्रह्मप्रियादियोषितः ।
आरुरुहुविमानं च सप्तद्वीपान् विलोकितुम् ॥९१॥
नवद्वीपेश्वराश्चापि स्वस्वविमानमास्थिताः ।
स्वागतार्थं ययुस्ते तु पुरतः श्रीहरेस्तदा ॥९२॥
स्वस्वदेशान्नगराणि प्रासादान् समशोभयन् ।
शृंगारितान् रम्यरूपानकारयन्मुदान्विताः ॥९३॥
सेवौपयिकीः सरसाः सामग्रीः प्रत्यपादयन् ।
मण्डपान् सुभगाँश्चापि सभास्थानान्यकारयन् ॥९४॥
गोपुराणि सप्रभाणि दीपतोरणभाञ्जि च ।
अकारयन्नृपास्ते च प्रजाः शोभा अवर्धयन् ॥९५॥
जम्बूद्वीपेऽपि च ये ते खण्डेश्वरा हरिं मुदा ।
संप्रार्थयन् पुरा नैजान् खण्डान् पावयितुं ततः ॥९६॥
हरिस्तथाऽस्त्विति प्राह ते च सर्वे तदाज्ञया ।
पुरैव प्रययुर्नैजान् खण्डान् शृंगारहेतवे ॥९७॥
पृथ्व्यां सर्वत्र चोद्घोषः सुमहान् समजायत् ।
अनादिश्रीकृष्णनारायणश्चायाति सृष्टिपः ॥९८॥
दर्शनीयः स भगवान् पापहा दुःखहा प्रभुः ।
अर्चनीयो वन्दनीयो हरिर्गोपालनन्दनः ॥९९॥
इत्येवं बद्रिके भूमौ प्रतीक्षन्ते समुत्सुकाः ।
अद्य वा श्वः परश्वो वाऽऽगमिष्यति नरायणः ॥१००॥
बालकृष्णोऽथ भगवान् प्रादक्षिण्येन वर्त्मना ।
विमानमैरयत्तूर्णमम्बरे पश्चिमोत्तरम् ॥१०१॥
इति श्रीलक्ष्मीनरायणीयसहितायां चतुर्थे तिष्यसन्ताने त्रयोविंशजन्मोत्सवोत्तरम् अतलादिसप्तपातालेषु तत्तद्राजन्यप्रजादि पावयित्वा क्षीरोदधिं श्वेतद्वीपं बद्रिकाश्रमं पावयित्वा च भगवान् कुंकुमवापीमागत्य चतुर्विंशतितमं स्वजन्मदिनोत्सवं चकारेत्यादिनिरूपणनामा सप्तनवतितमोऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP