संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४९२

कृतयुगसन्तानः - अध्यायः ४९२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि चमत्कारपुरे पक्षौ निपेततुः ।
गरुडस्य पतिव्रतानिन्दया तद् वदामि ते ॥१॥
पुनस्तस्याः प्रसादेन संलग्नौ च वदामि ते ।
पुराऽऽसीद् ब्राह्मणो मित्रं गरुडस्य भृगूद्वहः ॥२॥
तस्य कन्या माधवीति नाम्नाऽभूद् गुणमण्डिता ।
अथ तस्या वरार्थाय प्रोवाच गरुडं द्विजः ॥३॥
मम कन्यासुयोग्यं च वैष्णवं सात्त्वतं शुभम् ।
सदृशं वरमन्वीक्ष येन तस्मै ददाम्यहम् ॥४॥
गरुडस्तु तदा प्राह समस्तक्षितिमण्डले ।
मम पृष्ठे सुता त्वां च कृत्वा संभ्रमयाम्यहम् ॥५॥
ततस्तस्याः कुमार्या वै सदृशं च गुणान्वितम् ।
स्वयं दृष्ट्वा वरं तस्मै देहि भवामि साधनम् ॥६॥
एवमुक्तोऽथ विप्रः स तत्क्षणात् कन्यया सह ।
आरूढो गारुडं पृष्ठं ययौ द्रष्टुं वरं शुभम् ॥७॥
यं यं विप्रं कुमारं सा कन्या पश्यति वै हृदा ।
तदा न तस्याश्चित्ते स वर्तते स्म कथंचन ॥८॥
कुलवान् यो विरूपः स रूपाढ्यो न कुलोत्तमः ।
रूपकुलान्वितः कश्चिद् गुणहीनो विलोकितः ॥९॥
गुणयुक्तो न धनवान् सधनो न गुणादिमान् ।
सर्वोक्त्युक्तोऽपि कश्चिद् दृष्टो व्यंगो विचित्तकः ॥१०॥
अव्यंगश्चोक्तगुणवान् दृष्टो व्यवायमार्गगः ।
एवं काले गते दीर्घे भ्रमतां भूतलेऽन्वहम् ॥११॥
तेषामासीन्मनोवाञ्च्छा द्रष्टुं नारायणं प्रभुम् ।
ययुः श्वेतं द्वीपधाम ययुश्च बदरीवनम् ॥१२।
क्षीराब्धिं तु ययुः पश्चाद् वैकुण्ठं ते ययुर्मुदा ।
बलिगृहं ययुश्चापि ययुः कुंकुमवापिकाम् ॥१३॥
भृगुक्षेत्रं ययुर्वृन्दावनं श्रीरंगपर्वतम् ।
महेन्द्रं गन्धमादं च मेरुं स्वर्गं ययुस्तथा ॥१४॥
सत्यलोकं ययुस्तैस्तु दृष्टो वै नारदो मुनिः ।
सान्त्वपूर्वं स च पृष्टो विष्णुं ब्रह्मसनातनम् ॥१५॥
क्व देवः पुण्डरीकाक्षः साम्प्रतं वर्तते मुने! ।
विष्णोः स्थानानि सर्वाणि वीक्षितानि समन्ततः ॥१६॥
अस्माभिः संप्रहृष्टाभिर्न दृष्टस्तत्र केशवः ।
नारदः प्राह सर्वत्र वर्तते भगवान् सदा ॥१७॥
अशुद्धैश्च भवद्भिस्तु न दृष्टस्तत्र केशवः ।
यन्मनो वासनाहीनं निर्गुणं दिव्यतां गतम् ॥१८॥
तैरेव दृश्यते विष्णुः सकामैर्नहि वीक्ष्यते ।
ततो मानसशुद्ध्यर्थं संवासं कुरुत क्षितौ ॥१९॥
चमत्कारपुरे दिव्ये हाटकेश्वरतीर्थके ।
तत्रैव श्रीकृष्णनारायणो वः सम्मिलिष्यति ॥२०॥
तत्प्राप्त्यर्थं चमत्कारनगरं यात मा चिरम् ।
महासरोवरे तत्र चातुर्मास्ये जनार्दनः ॥२१॥
नागनद्यां जलशायी वर्तते स्म नरायणः ।
अथाऽऽयातास्त्रयस्तत्र जलशायिसरोवरे ॥२२॥
ब्राह्मणं च सुतां क्षेत्रेऽवतारयित्वा शोभने ।
गरुडः प्राह तपसा प्राप्स्यते भगवान् स्वयम् ॥२३॥
कुरुतां तपसा शुद्धिं जपेन पूजया व्रतात् ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ॥२४॥
इत्येवं सततं जापाच्छुद्धिः स्याद् वासनाक्षये ।
इत्युक्त्वा गरुडस्तत्र ययौ नारायणान्तिकम् ॥२५॥
 'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।
जपन्नास्ते जलमध्ये निराहारस्तथा च तौ ॥२६॥
पुत्री पिता निराहारो तेपाते तप उत्तमम् ।
गरुडो बहुवर्षान्ते ददर्श पादसेविकाम् ॥२७॥
पादसंवाहनासक्तां लक्ष्मीं त्वां तन्मुखेक्षणाम् ।
अपरां च तथा वृद्धां लक्ष्मीपार्श्वे निवेशिताम् ॥२८॥
ध्यानस्थां च कृशांगीं च शाण्डिलीं ब्रह्मचारिणीम् ।
अन्यां सुयौवनां तस्याः पार्श्वे ददर्श पक्षिराट् ॥२९॥
अनेकजन्मपापानां हारिणीं नर्मदां सतीम् ।
अपरं पुरुषं वृद्धं शान्तं कृशं च तापसम् ॥३०॥
ददर्श गरुडस्तत्र मार्कण्डेयं महामुनिम् ।
ताश्च तं च प्रणमँस्तैः सत्कृतो गरुडः शनैः ॥३१॥
ददर्श विष्णुमुन्निद्रं स्मेरास्यं भक्तवत्सलम् ।
पृच्छन्तं कुत आयातः कुशलं प्राह पक्षिराट् ॥३२॥
ममास्ति दयितं मित्रं ब्राह्मणो भृगुवंशजः ।
तस्यास्ति माधवी नाम कन्या वै ब्रह्मचारिणी ॥३३॥
न तस्याः सदृशः कान्तः प्राप्तस्त्रैलोक्यमण्डले ।
तस्यास्तु पुण्डरीकाक्षः पतिः सर्वगुणैर्युतः ॥३४॥
सदृशः पुण्डरीकाक्ष्या मम चित्ते व्यवस्थितः ।
तस्मात् पाणिग्रहं तस्याः स्वीकुरुष्व नरायण ॥३५॥
श्रुत्वा नारायणः प्राह लक्ष्म्यंशा साऽस्ति कन्यका ।
शृणु वैकुण्ठजं पूर्वाख्यानं वदामि तेऽनघ ॥३६॥
एकदा सा महालक्ष्मीर्गर्वं कृतवती सती ।
न मया सदृशी त्वन्या नारायणोऽपि नैव च ॥३७॥
मया कृत्वा समृद्ध्या च सृष्टिः सर्वा सुशोभते ।
मां विना च भवेद्रूक्षं तस्माच्छ्रेष्ठाऽस्मि सर्वथा ॥३८॥
अद्य मया न गन्तव्यं नारायणस्य सन्निधौ ।
आवश्यके स्वयं नारायणश्चात्र मम गृहे ॥३९॥
आगमिष्यति पश्यामि स्नेहमीक्षामि कीदृशम् ।
इति मत्वा न च लक्ष्मीर्ययौ नारायणगृहम् ॥४०॥
जयं च पार्षदं नारायणो ज्ञात्वा ह्युवाच ह ।
लक्ष्मीर्गर्वयुता त्वद्य विद्यते मानिनी यथा ॥४१॥
यद्यागच्छेन्मम द्वारे देयः प्रवेश एव न ।
अथ नारायणं ज्ञात्वा दिव्यदृष्ट्या पराङ्मुखम् ॥४२॥
चिरकाले गते लक्ष्मिर्मानं हित्वा समाययौ ।
जयस्तु पार्षदः प्राह मातर्नाऽऽज्ञाऽस्ति वै हरेः ॥४३॥
हरेर्दासस्तव दासः सदाऽस्मि किन्तु शार्ङ्गिणः ।
आज्ञा पाल्या मया त्वत्र तस्य द्वारे प्रतिष्ठता ॥४४॥
यस्य द्वारे नियुक्तोऽस्मि तदाज्ञा मुख्यतो मता ।
यथष्टं कुरु मातस्त्वं निरोधः स्वामिना कृतः ॥४५॥
इत्युक्त्वा पतितस्तस्याः पादयोः प्रणयान्वितः ।
निवारिता सा द्वाराच्च तेन दौवारिकेण वै ॥४६॥
तदाऽऽत्मनस्तिरस्कारं मत्वा सती च मानिनी ।
स्मृत्वा हरेः पादपद्मं देहं त्यक्तुं समुद्यता ॥४७॥
तदा रुष्टा त्रिलोक्यां वै गृहलक्ष्मीः स्थले स्थले ।
ज्ञात्वा ब्रह्मा महेशश्च विष्णुर्धर्मश्च भास्करः ॥४८॥
चन्द्रः कामः कुबेरश्च वह्निर्विघ्नेश्वरोऽनिलः ।
ऋषयो मुनयश्चापि मनवश्च महेश्वरः ॥४९॥
समाययू रुदन्तस्ते पद्माया पुरतस्तदा ।
तुष्टुवुश्च महालक्ष्मीं सतीं दीनां हरीश्वरीम् ॥५०॥
क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे ।
शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥५१॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।
त्वया विना जगत् सर्वं मृततुल्यं च निष्फलम् ॥५२।
सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी ।
रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥५३॥
कैलासे पार्वती त्वं तु क्षीरोदे सिन्धुकन्यका ।
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥५४॥
वैकुण्ठे तु महालक्ष्मीः सर्वानने सरस्वती ।
गंगा त्वं तुलसी त्वं च प्रभा त्वं त्वं च पार्वती ॥५५॥
सावित्री माणिकी त्वं च पद्मा त्वं पद्मिनी सती ।
मञ्जुला त्वं भार्गवी च कम्भरा मनसा सती ॥५६॥
वृन्दा हंसा च राधा च मूलप्रकृतिरीश्वरी ।
कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने ॥५७॥
विरजा चम्पकवने शतशृंगे तु सुन्दरी ।
पद्मावती पद्मवने मालती मालतीवने ॥५८॥
कुन्ददन्ती कुन्दवने सुशीला केतकीवने ।
कदम्बमाला दुर्गा त्वं कदम्बानां तु कानने ॥५९॥
राजलक्ष्मी राजसौधे गृहलक्ष्मीर्गृहे गृहे ।
प्रसीद जगतां मातर्मा मृतिं गच्छ पद्मजे ॥६०॥
इति देवस्तुतिं श्रुत्वा त्यक्त्वा तु रोदनं सती ।
उवाच सुप्रसन्नास्ताँस्तेऽपि शुश्रुवुरादरात् ॥६१॥
त्यजामि देहं न क्रोधान्न वैराग्येण साम्प्रतम् ।
किन्तु न्विदं समालोच्य यदस्ति मरणोत्तरम् ॥६२॥
यस्मिन् सदीशे महति सर्वसाम्ये च निर्गुणे ।
सर्वात्मनि सदानन्दे समता तृणशैलयोः ॥६३॥
भ्रूभंगलीलया लक्ष्मीलक्षं स्रष्टुमलं तु यः ।
भृत्ये स्त्रियां यत्समता किं कार्यं तस्य सेवया ॥६४॥
तत्पत्नीनां प्रधानाऽहं निरस्ता द्वारिणाऽधुना ।
तद्भृत्यभृत्यभृत्येन परिपूर्णेन नेप्सिता ॥६५॥
त्यक्ष्यामि जीवनमहमसौभाग्या च स्वामिनि ।
वह्नौ तु कामनां कृत्वा यथा भद्रं भवेत्तथा ॥६६॥
या स्त्री भर्तुरसौभाग्या साऽसौभाग्या हि सर्वतः ।
शयने भोजने तस्या न सुखं जीवनं वृथा ॥६७॥
यस्या नास्ति प्रियप्रेम तस्या जन्म निरर्थकम् ।
तत्किं पुत्रे धने रूपे सम्पत्तौ यौवनेऽथवा ॥६८॥
यद्भक्तिर्नास्ति कान्ते च सर्वप्रियतमे परे ।
सा शुचिर्धर्महीना च सर्वकर्मविवर्जिता ॥६९॥
पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव सः ।
सर्वस्माच्च परः स्वामी न गुरुः स्वामिनः परः ॥७०॥
पिता माता सुतो भ्राता क्लिष्टा दातुमिदं धनम् ।
सर्वस्वदाता स्वामी वै मूढानां योषितां सुराः ॥७१॥
काचिदेव तु जानाति महासाध्वी पतिं प्रभुम् ।
अतिसद्वंशजाता हि सुशीला कुलपालिका ॥७२॥
व्रतं चाराधनं दानं सत्यं पुण्यं तपश्चिरम् ।
पतिभक्तिविहीनाया भस्मीभूतं निरर्थकम् ॥७३॥
अतः किञ्चिन्न वक्ष्यामि निष्ठुरं पतिमीश्वरम् ।
भृत्याऽपराधैर्देवस्य प्राणाँस्त्यक्ष्यामि निश्चितम् ॥७४॥
पतिदोषे महासाध्वी पतिं चाऽनिष्ठुरं वदेत् ।
यदि सोढुमशक्ता च प्राणाँस्त्यजति धर्मतः ॥७५॥
पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः ।
पतिसेवा परो धर्मः पतिसेवा सुरार्चनम् ॥७६॥
पतिसेवा परं सत्यं दानतीर्थाऽनुकीर्तनम् ।
सर्वदेवमयः स्वामी सर्वदेवमयः शुचिः ॥७७॥
सर्वपुण्यस्वरूपश्च पतिरूपी जनार्दनः ।
या सती भर्तुरुच्छिष्टं भुंक्ते पादोदकं सदा ॥७८॥
तस्या दर्शमुपस्पर्शं नित्यं वाञ्च्छन्ति देवताः ।
ततः सर्वाणि तीर्थानि पुनन्ति पापिनो ह्यघात् ॥७९॥
इत्युक्त्वा सा महासाध्वी रुरोद वै मुहुर्मुहुः ।
उवाच ब्रह्मा भीतश्च भक्तिनम्रात्मकन्धरः ॥८०॥
भविष्यति न भद्रं च जयस्य द्वाररक्षितुः ।
विजयोऽपि सहयोगी तवाऽपराधकर्मणि ॥८१॥
त्वया न शप्तौ तौ मूढौ प्रियाऽपराधभीतया ।
भविष्यतो राक्षसौ तौ सनकादिविनिन्दया ॥८२॥
सापराधं तु धर्मिष्ठः क्षमया न शपेद् यदि ।
सर्वनाशो भवेत्तस्य निश्चितं मा चिरं सति! ॥८३॥
यदि शप्तुं न शक्तश्च न दण्डं कर्तुमीश्वरः ।
सापराधेऽपि पुरुषे धर्मो दण्डं करोति हि ॥८४॥
सर्वं क्षमस्व हे मातर्गच्छ गच्छ प्रियान्तकम् ।
मां च त्वत्स्वामिनो भक्तं नियोज्यं सृष्टिकर्मणि ॥८५॥
इत्युक्त्वा तां पुरस्कृत्य सार्धं देवैर्मुनीन्द्रकैः ।
शीघ्रं जगाम संस्तोतुं नारायणान्तिकं ह्यतः ॥८६॥
भगवन् देवदेवानां तथाऽन्येषां सुखावह ।
भोगसम्पत्प्रदातस्त्वं गृहाण कमलां सतीम् ॥८७॥
यया सर्वे वयं स्मृद्धा यां विना प्रस्तरा यथा ।
किम्वधिकं हि स्तोतव्यं गृहाण लोकहेतवे ॥८८॥
ब्रह्मणः स्तवनं श्रुत्वा दृष्ट्वा लक्ष्मीं पुरःस्थिताम् ।
रुदतीं नम्रवदनां प्रोवाच कमलोद्भवम् ॥८९॥
सर्वं जानामि सर्वज्ञः सर्वात्मा सर्वपालकः ।
सर्वशास्ता सर्वकर्मफलदाताऽस्मि पद्मज ॥९०॥
भक्ते कलत्रे बन्धौ च सर्वत्र समता मम ।
विशेषतोऽतिमद्भक्तः कलत्रात्पर एव सः ॥ ९१॥
मद्भक्तौ तव पुत्रौ च द्वारपालौ दुरन्तकौ ।
क्षम मामपराधं च तयोश्च भक्तिपूर्णयोः ॥ ९२ ॥
मद्भक्तिपूर्णो बलवान् दैत्येभ्यो न बिभेति च ।
रक्षितो मम चक्रेण भक्तिमाध्वीकदुर्मदः ॥ ९३॥
किन्तु मया तव स्रष्टावागन्तव्यं तव स्तवात् ।
मया सह प्रबलयोर्मम प्रदासयोरपि ॥ ९४॥
जीवानां गुणगानार्थं जयस्य विजयस्य च ।
प्रजन्माऽऽवश्यकं तस्मान्निमित्तं हि मया कृतम् ॥ ९५॥
अथ कालान्तरे सनकादिरोषाद् भविष्यति ।
शृणु त्वन्यत् पृथिव्यामानर्तदेशेऽब्धिसन्निधौ ॥ ९६॥
चमत्कारपुरे विप्रो नाम्ना शाण्डिल्यसंज्ञकः ।
ममाशः स तपस्तेपे पुत्र्यर्थं भार्यया युतः ॥ ९७॥
सहस्रवत्सरान्तेऽहमभवं सन्निधौ स्थितः ।
प्रसन्नवदनस्तं च वरदानाय प्राह च ॥ ९८॥
तस्य भार्या सुतां वव्रे लक्ष्मीतुल्यां गुणान्विताम् ।
तथास्त्विति मया प्रोक्तं ततोऽहमगमं लयम् ॥ ९९॥
शाण्डिल्यः स सुताप्राप्तिं प्रतीक्षते प्रियायुतः ।
निमित्तं त्वेतदेवाऽत्र लक्ष्मीद्वारा मया कृतम् ॥१००॥
सेयं लक्ष्मीमानयुक्ता छायारूपा प्रयातु ताम् ।
पातिव्रत्ये मनाक् दोषं लक्ष्म्यां नेच्छामि सर्वदा ॥१०१॥
सदोषं च शरीरं वै लक्ष्म्याः छायास्वरूपकम् ।
यातु शाण्डिल्यभार्यायां पुत्र्यर्थं वरदानकम् ॥१०२॥
इत्युक्ताश्च सुराः सर्वे लक्ष्मीराश्चर्यमाप्नुयुः ।
नारायणस्य हार्दं वै नैव जानन्ति केचन ॥१०३॥
अथ शान्ताश्च तच्छ्रुत्वा लक्ष्मीस्तुष्टा बभूव ह ।
पत्याज्ञया ययौ शीघ्रं छायारूपेण माधवी ॥१०४॥
सेयं शाण्डिल्यपुत्री च माधवीति प्रवर्तते ।
लक्ष्मीं दिव्येन रूपेण जग्राह तत्र श्रीहरिः ॥१०५॥
माधवी च ब्रह्मचर्यपरा स्वसदृशं पतिम् ।
मामेवेच्छति लक्ष्मीशं नान्यं पतिं समिच्छति ॥१०६॥
गरुड त्वं कथां चेमां नैव जानासि मायया ।
आनय त्वं तां समीपे माधवीं मे पतिव्रताम् ॥१०७॥
लक्ष्म्यंशां मानदेहां च ऋषेः पुत्रीं मम प्रियाम् ।
यां च दृष्ट्वा स्वयं पश्चात् प्रकरोमि यथोचितम् ॥१०८॥
एवमुक्तो गरुडस्तामानयामास सन्निधौ ।
विप्रस्तूवाच नत्वा तं भगवन्तं सनातनम् ॥१०९॥
गृहाण कन्यां भगवँस्त्वामेवेच्छति सा सदा ।
भगवाँस्त्वं समायाहीत्युवाच तां सुशृण्वताम् ॥११०॥
लक्ष्मीवन्न्यविशत्पार्श्वे कन्या प्रसन्नमानसा ।
शय्यैकान्ते समाविष्टा दक्षिणे मुरविद्विषः ॥१११॥
अथ कोपपरीतांगी महिषीधर्ममाश्रिता ।
लक्ष्मीरुवाच तां कन्यां सपत्नीति विचिन्त्य च ॥११२॥
यस्मान्मे पुरतः पापे कान्तस्य मम हर्षिता ।
शय्यायां त्वं समाविष्टा लज्जां त्यक्त्वा सुदूरतः ॥११३॥
तस्माद् वृद्धमुखी नूनं विकृता त्वं भविष्यसि ।
श्रूत्वा शोकं तदा कन्या तत्पिताऽपि प्रचक्रतुः ॥११४॥
स्वयं विष्णुर्हरिः प्राह मैवं लक्ष्मीर्भविष्यसि ।
ज्ञाने वृद्धा वृद्धमुखी मता मे ज्ञानवर्धिनी ॥११५॥
ब्रह्मज्ञानपरा मधुविद्या सा माधवी तथा ।
शण्डिल्यविद्याऽधिष्ठात्री ज्ञानवृद्धा भविष्यति ॥११६॥
इत्युक्ता शाण्डिली भूत्वा माधवी सा हरिप्रिया ।
क्षीरोदे वर्तते नित्यं लक्ष्मीरूपा सुभागिनी ॥११७॥
ब्रह्मचर्यपरा नारायणसेवापरायणा ।
शाण्डिल्यश्च सुतां दत्वा कृतकृत्यो बभूव ह ॥११८॥
गरुडः श्रीहरिं तत्र पप्रच्छ संशयान्वितः ।
नारीणां ब्रह्मचर्यं वै संशयास्पदमेव तु ॥११९॥
विशेषाद् यौवनावस्थाप्राप्तायां श्रद्दधामि न ।
अवश्यं यौवनस्थेन तिर्यग्योनिगतेन च ॥१२०॥
विकारः खलु कर्तव्यो नाऽविकाराय यौवनम् ।
एवं तस्य वचः श्रुत्वा शाण्डिली ब्रह्मचारिणी ॥१२१॥
मौनव्रतधरा किञ्चिन्नोवाच वैष्णवी सती ।
साध्व्या नार्या निन्दया च पक्षिनाथस्य तत्क्षणात् ॥१२२॥
उभौ पक्षौ गतौ नाशं रुण्ढाकारोऽथ सोऽभवत् ।
अशक्तश्च तथा गन्तुं पदमात्रमपि क्वचित् ॥१२३॥
हरिः प्राह गरुड! त्वत्पक्षौ नष्टौ हि निन्दया ।
दूषितं ब्रह्मचर्यं यत् शाण्डिल्यां संशयेन वै ॥१२४॥
तस्मात् त्वं शाण्डिलीं नत्वा प्रसादय सुखी भव ।
गरुडस्तां प्रतुष्टाव ननाम च पुनः पुनः ॥१२५॥
तुष्टा सती शाण्डिली च द्विजं पस्पर्श पाणिना ।
ततोऽस्य पक्ष सञ्जातौ तत्क्षणादेव योजितौ ॥१२६॥
गरुडः श्रीकृष्णनारायणं लक्ष्मीं च शाण्डिलीम् ।
तत्रत्योश्च प्रणिपत्य शाण्डिल्यं ब्राह्मणं तथा ॥१२७॥
पृष्ठे कृत्वा ययौ क्षेत्रं चमत्कारपुरं शुभम् ।
विन्यस्य तं ब्राह्मणं च गरुडः प्रययौ दिवम् ॥१२८॥
इति ते कथितं लक्ष्मि! पातिव्रत्यपरायणम् ।
लक्ष्म्यास्ते पूर्ववृत्तान्तं पापतापप्रणाशनम् ॥१२९॥
य इदं शृणुयाद् यद्वा वाचयेच्छ्रावयेत्तथा ।
भुक्तिं मुक्तिं लभेद्धाम्नि दास्यभक्तिं सुदुर्लभाम् ॥१३०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चमत्कारपुरीयविप्रकन्याया माधव्या भगवतो भार्यात्वं, लक्ष्म्या अवताररूपायास्तस्याः शाण्डिलीत्वं नारीणां ब्रह्मचर्यव्रते शंकितस्य गरुडस्य पक्षयोः पतनं, शाण्डिलीप्रसादेन पक्षसहितत्वं, लक्ष्म्याः अवतरणार्थं भगवत्कृताऽवमाननम्, एवमादिनिरूपणनामा द्विनवत्यधिकचतुश्शततमोऽध्यायः ॥४९२॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP