संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३२

कृतयुगसन्तानः - अध्यायः ३२

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच
सर्वव्यापिन्नन्तरात्मन्नात्मात्मन्नक्षराधिप !
स्वामिन्नारायणाऽर्थ्यस्त्वं सर्वं पूरयसि प्रभो ! ॥१॥
गावस्तु पशवः प्रोक्ताः कथं वै तारयेज्जनान् ।
समर्थस्तारयेदन्यान् नाऽसमर्थः कथञ्चन ॥२॥
श्रीनारायण उवाच—
पाशो बन्धनमित्युक्तं बन्धो मायात्मको मतः ।
यत्र माया भवेत् तत्र सर्वे वै पशुसंज्ञितम् ॥३॥
शरीरं तु समानं वै भोजनाऽऽपानसंश्रितम् ।
कामलोभात्मकस्वार्थव्याप्तं पशुमनुष्ययोः ॥४॥
मनुं वै भगवन्मन्त्रं दिव्यं संयाति यो जनः॥
स वै मनुष्य इत्युक्तोऽन्यथा तु पशुसत्तमः ॥५॥
गावस्तु मम गोलोके सर्वथा मत्स्वरूपिकाः॥
कृष्ण कृष्ण जपन्त्यो वै मोदन्ते ब्रह्मतन्मयाः ॥६॥
सुरम्यस्तु सदा मन्त्रं नारायण इति ध्रुवम्॥
रटन्त्यश्चाऽटनं स्वर्गे कुर्वन्ति मम मोक्षदाः ॥७॥
वैकुण्ठेऽपि च ता गावो मुक्तान्योऽपि वसन्ति वै ।
मम नाम भजन्त्यश्च सर्वानन्दपरिप्लुताः ॥८॥
न ता बोध्या हि पशवः पशवस्त्वज्ञमानवाः॥
वृन्दावने कृष्ण कृष्ण स्मरन्त्यन्वहमादरात् ॥९॥
देव्यः स्वर्गादिषु यास्ताः कृष्णार्थं स्तन्यदा मताः॥
समीहापूर्णतार्थं वै गावो भूत्वा वसन्ति ताः ॥१०॥
सर्वज्ञाः सर्वभाषाज्ञा मोक्षदाः सर्वदा मताः॥
भगवन्मुखपिण्डास्ता अमृताऽऽधानमातरः ॥११॥
रोम्णि रोम्णि मताः पूज्या ममांगसंभवा यतः॥
अहं तासु वसाम्येव धर्मो वृषात्मकस्तथा ॥१२॥
गोषु वसाम्यहं गोपो गावो ब्राह्मी तनुर्मम॥
ललाटे तु गवां ब्रह्मधाम तत्र वसाम्यहम् ॥१३॥
शृंगे मे ध्वजदण्डौ स्तो, मध्ये सिंहासनं मम॥
नेत्रे द्वे मम गोलोकवैकुण्ठौ धामनी मते ॥१४॥
नासा मेऽव्याकृतं धाम, मुखं मायात्मकं मम॥
दन्ताः षोडशतत्त्वानि, जिह्वा बुद्धिर्महद्धि तत् ॥१५॥
रांभणं प्रणवस्तासाम् , ओष्ठौ रजस्तमो मते॥
श्वेतद्वीपविशाले तु कर्णौ, सास्ना हिरण्मयम् ॥१६॥
तासां सदाशिवः कण्ठः, पादा वेदचतुष्टयम्॥
स्तनाः पुमर्थचत्वारो, नाभिर्वैराजनालकम् ॥१७॥
उदरं तासां वैराजो, महाविष्णुरुरो मतः ।
जठरं ब्रह्मतेजोऽग्निः, पृष्ठः सत्यं तु वेधसः ॥१८॥
मूत्रं गंगाजलं दिव्यं शकृल्लक्ष्मीः स्वयं मता ।
आर्तवं तु जलं सारस्वतं, कुक्षिः समुद्रकाः ॥१९॥
योनिरण्डकटच्छिद्रं पुच्छमूलं जनादयः ।
पुच्छं स्वर्गस्तथा गुच्छो रोम्णां देवादिमण्डलम् ॥२०॥
शिवविष्णू नितम्बौ स्तो, ब्रह्मा ओध उदाहृतः॥
गर्भस्तु पार्वती देवी, रोमाणि देवयोनयः ॥२१॥
अस्थीनि पितरस्तासां, खुराः पातालजातयः ।
इत्येवं तु मया पिण्डः संकल्प्यैव तदा कृतः ॥२२॥
गावो विभूतयो मे स्युरमृतानि वसन्ति यत्॥
तदमृतकृतग्रासात् सर्वे तृप्यन्ति मन्मुखाः ॥२३॥
गावश्चाहमहं गावो मातरो जगतां मताः॥
पोषणात्तारणाद् ब्रह्मगामनात्पुष्टिमुक्तिदाः ॥२४॥
पूजनात् पुण्यदाः प्रोक्ता वृद्धिदास्तु तृणार्पणात्॥
दानान्मोक्षं गमयति स्वर्गं ददाति सेवनात् ॥२५॥
दानाद् दहन्ति पापानि यान्त्यमृतं जलार्पकाः ।
दंशानां वारणाद् यावद् दारिद्र्यं घ्नन्ति सर्वशः ॥२६॥
तासां प्रदक्षिणा प्रोक्ता पृथिव्यास्तु प्रदक्षिणा॥
पञ्चगव्यं सदा तासां स्वर्ग्यं भवति देहिनाम् ॥२७॥
तासां पुच्छजलं दुष्टान् पवित्रयति पापिनः॥
तासां खुररजस्तीर्थं प्रक्षालयति मायिनः ॥२८॥
उभयतोमुखीं दत्वा सर्वयज्ञफलं लभेत् ।
वत्सप्रसवकालीना मता ह्युभयतोमुखी ॥२९॥
प्रेतानां रक्षसां भूतजन्मनामगतिंजुषाम्॥
गतिर्भवति गोदानात् पापनाशनपूर्विका ॥३०॥
प्रेतस्य पापयुक्तस्य यमवाटगतस्य च॥
वैतरणीप्रतरणं गोदानाद्भवति ध्रुवम् ॥३१॥
स्वर्गे मर्त्ये च पाताले ऐश्वरेऽपि सहायदाः॥
पूज्या वन्द्या च दातव्या भोजनीयाः सदा जनैः ॥३२॥
सेव्या भाल्या रक्षणीया नम्याः स्पृश्याश्च ताः सदा॥
सदा महापापी निजान्प्राणान् गवां मध्ये जहाति चेत् ॥३३॥
स वै दिव्यगतिं याति दूरं यान्ति यमानुगाः॥
गवां शुश्रुषकस्त्वत्र परे ताभिस्तु रक्ष्यते ॥३४॥
गवां प्रसादमाप्तोऽत्र सर्वप्रसादवान् भवेत् ।
अन्यन्नैव कृतं किञ्चित् गवां तु सेवनं कृतम् ॥३५॥
तत्फलं ब्रह्मलोकादि तदर्थं शाश्वतं भवेत्॥
गवां प्रसादनं चैव ब्रह्मप्रसादनं तथा ॥३६॥
द्वयं तुल्यं मतं चात्र परत्र हरिणा स्वयम् ।
गवां नार्याश्च कन्यायाः स्वसुर्मातस्तथाऽत्र यः ॥३७॥
प्रपन्नाया अधीनाया दुःखकृद् दुःखभाग् भवेत्॥
वत्सं वत्सां वृषं गां च यो वै पालयते गृही ॥३८॥
तेन वै पालिता पृथ्वी पृथ्वीपालफलं लभेत्॥
न द्रव्यं धनमित्याहुर्गोधनं धनमुच्यते ॥३९॥
अत्र रसान् वितरति, परलोके सहायकृत्॥
भक्षयन्ति तृणान् भूमौ निवसन्ति सदाऽप्यधः ॥४०॥
सहन्ते शीततापादि चार्पयन्ति रसान् बहून् ।
पोषयन्ति कुटुम्ब स्वं तर्पयन्त्यमरान् पितॄन् ॥४१॥
तारयन्ति त्वधःपातात् गावो देव्यो हरेः स्मृताः॥
ब्राह्मणास्तारकाः प्रोक्ता वेदमन्त्रजपादिभिः ॥४२॥
परं पापपराभूतास्तरन्ति तेऽपि गोबलात् ।
गावश्च ब्राह्मणाश्चैव ह्येकं तत्त्वं द्विधा कृतम् ॥४३॥
मन्त्रा ह्येकत्र निहिता हविरन्यत्र चार्पितम्॥
मन्त्रेण हविषा यज्ञो यज्ञाद् वृष्टिर्भवत्यथ ॥४४॥
वृष्टेरन्नं जलं चैव ततो धातुस्ततः प्रजाः॥
प्रजया प्राप्यते स्वर्गे स्वर्गात् सौख्यं समुत्सवः ॥४५॥
उत्सवादुत्सवं यान्ति सेव्या गावस्ततोऽन्वहम्॥
किंबहुना समुक्तेन गावो ब्रह्मपदं हि मे ॥४६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धेनुमाहात्म्यकथननामा
द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : March 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP