संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १०९

कृतयुगसन्तानः - अध्यायः १०९

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
भगवन् देवदेवेश श्रावितं परमाऽद्भुतम् ।
कथानकं गणेशस्य कार्तिकेयस्य वै तथा ॥१॥
अत्र मे भगवन् काचिज्जिज्ञासा भवतीति ते ।
पृच्छामि देवदेवेश श्रुत्वा शमय तां प्रभो ॥२॥
कार्तिकेयस्तु पितरौ त्यक्त्वाऽगाद्दूरमेव यत् ।
तद्योग्यं न भवेल्लोके शास्त्रेऽपि संभवेन्नहि ॥३॥
मातुः पितुर्गुरोः सेवा कार्येति मोक्षदा शुभा ।
सेवां त्यक्त्वा गतो दूरे दुरितं तत्कृतं भवेत् ॥४॥
दुरितस्य तु पापस्य प्रायश्चित्तं तथा क्षयः ।
फलं स्यादिति कस्मात्तत्कार्तिकेये बभूव न ॥५॥
मातुःसेवा मुक्तिकरो माता बहुविधा मता ।
स्तनदात्री गर्भधात्री भक्ष्यदात्री गुरुप्रिया ॥६॥
अभीष्टदेवपत्नी च पितुः पत्नी च कन्यकाः ।
सगर्भा भगिनी चापि पुत्रपत्नी प्रियाप्रसूः ॥७॥
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ।
मातुः पितुश्च भगिनी मातुलानी तथैव च ॥८॥
जनानां वेदविहिता मातरः षोडश स्मृताः ।
ता वै पूज्या नमस्कार्याः सेव्याः स्तुत्याः सुपुत्रकैः ॥९॥
तासां त्वाशीर्वचोऽप्यत्र पुत्रं रक्षति किल्बिषात् ।
तासां सेवा कृता येन स याति ब्रह्म शाश्वतम् ॥१०॥
तासां तु सेवया पुत्रो भाग्यवान् भवति ध्रुवम् ।
तासां हृदयदुःखेन भाग्यं दह्यति वै शुभम् ॥११॥
पुण्यं नश्यति सल्लक्ष्मीस्तं त्यक्त्वाऽन्यत्र याति च ।
तत्कथं कार्तिकेयेन त्यक्ता मा जगदीश्वरी ॥१२॥
सेना पतिव्रता पत्नी कथं त्यक्ता प्रिया निजा ।
पतिव्रतायास्त्यजने नरकं प्राप्नुयान्नरः ॥१३॥
श्रीनारायण उवाच-
शृणु लक्ष्मि मया सर्वं पुरैव विहितं तथा ।
मयाऽजशंभुपित्रर्षिदेवाश्र्यण्डं विनिर्मितम् ॥१४॥
आद्ये सत्ययुगे सर्वे ब्राह्मणा ब्रह्मतेजसः ।
परमात्मसमा ह्यासन् सकल्पस्मृद्धयोऽभवन् ॥१५॥
त्रेतायां न्यूनसामर्थ्या ह्यभवन्कालभेदतः ।
द्वापरे तु विशेषेण सामर्थ्यहीनतां गताः ॥१६॥
सामर्थ्यं तु तपोमूलं तपोहानौ विनश्यति ।
प्रजायां तपसो हासात्सामर्थ्यहीनताऽभवत् ॥१७॥
यथा यथा च सामर्थ्यं हीयते तु तथा तथा ।
अधर्मवंशसामर्थ्यं वर्धते तु शनैः शनैः ॥१८॥
अधर्मेण प्रजास्तत्राऽसत्यलोभमदान्विताः ।
परस्परं दुःखदात्र्योऽभवन्कालस्य वेगतः ॥१९॥
दृष्ट्वैवं ब्रह्मणा तावन्नारायणपरेश्वरः ।
स्मृतस्तत्र प्रजारक्षोपायार्थं श्रीहरिस्तदा ॥२०॥
ब्रह्मधामस्थितः साक्षाल्लोकरक्षणहेतवे ।
सकल्पं वेधसो ज्ञात्वा द्रागेव चाययौ हरिः ॥२१॥
ब्रह्मा प्राह तदा देवं नत्वा स्तुत्वा पुनः पुनः ।
महाराज कृपासिन्धो ह्यधमोद्धारकारक ॥२॥
युगभेदात्प्रजाः सम्यङ् न वर्तन्ते तपःप्रियाः ।
तपोऽभावान्न वै पुण्यं सामर्थ्यं सुखदं भवेत् ॥२३॥
तदभावाच्च दुःखाढ्या मानवा दैववर्जिताः ।
कथं मया रक्षणीयाः प्रभो! भक्ता मुमुक्षवः ॥२४॥
शुष्केण साकं सरसं दह्यत्यपि निरागसम् ।
तद्रक्षणाय भगवन् कमुपायं करोमि वै ॥२५॥
भक्तानां तपसो योगाद् भजनात्परमेश्वर ।
सर्वे जीवाः प्रसुखिनो भवन्त्येव हि निश्चितम् ॥२६॥
कालयोगाच्च भक्ता वै तपःसाधनवर्जिताः ।
भवन्ति चेत्तदा जीवा रक्ष्यन्ते केन कर्मणा ॥२७॥
तस्मात्प्रजानां सौख्यार्थमुपायं परिकल्पय ।
युगेषु येन सर्वेषु भक्ताः स्युः सुखिनः सदा ॥२८॥
इति वेधःकृतां जीवरक्षागर्भितराधनाम् ।
श्रुत्वा नारायणः श्रीमान् परंब्रह्म स्वयं हरिः ॥२९॥
ब्रह्माणं प्राह देवेश! मा चिन्ता वह पद्मज ।
तव ब्रह्मांडजीवानां मुमुक्षूणां तु रक्षणम् ॥३०॥
अहमेव करिष्येऽत्र नान्यस्तादृग्भवेदतः ।
मयैव तत्समाचिन्त्य यावद्ब्रह्माण्डसंस्थितिः ॥३१॥
तावत्तु रक्षणं कार्यं मम भक्ता यतः प्रियाः ।
यद्यन्यं रक्षकं तत्र योजयामि तदा तु सः ॥३२॥
कालवेगेन गलितो दुःखं प्रत्युत चाप्नुयात् ।
तस्मादहं स्वयं साक्षात्परब्रह्म परात्परः ॥३३॥
अक्षरं ब्रह्म नीत्वैव साकं प्रजावनाय वै ।
निवसाम्यत्र लोके तछ्रेयः स्याज्जगतां परम् ॥३४॥
धर्मदेवान्मम जन्म मूर्त्यां संकल्पमात्रतः ।
स्वीकृत्यात्र भविष्यामि नरनारायणात्मकः ॥३५॥
यावज्जीवं ब्रह्मचारी ब्रह्मतपसि संस्थितः ।
तपसैव प्रजा रक्षन् करिष्येऽवनमादरात् ॥३६॥
नारायणः परंब्रह्माऽक्षरं ब्रह्म नरः स्मृतः ।
उभौ ब्रह्मव्रताढ्यौ वै तपसि कृतमानसौ ॥३७॥
वर्तिष्यामह इत्येतत्साधनं रक्षणं परम् ।
ब्रहाचर्यव्रतं मेऽस्ति प्रियं प्रियतमं सदा ॥३८॥
तद्व्रतं सर्वदा ब्रह्मलोके संपालयामि वै ।
तत्रैव दिव्ये बदरिकाश्रमे पालयामि च ॥३९॥
ईश्वराणां रक्षणार्थं सदा तपसि संस्थितः ।
अत्राऽप्यागत्य हिमवच्छिखरे योगमास्थितः ॥४०॥
सर्वेन्द्रियप्रतिरोधात्मके तपसि संस्थितः ।
तपःपुण्यप्रदानेन रक्षिष्यामि जनान्मम ॥४१॥
चिन्तां मा कुरु पद्मस्थ तपसा रक्ष्यते जगत् ।
भवन्ति विविधान्येव तपांसि रक्षणाय वै ॥४२॥
घ्राणेनाऽन्यन्न घ्रातव्यमित्येतत्तप उच्यते ।
ततोऽपि च त्वचा चान्यन्न स्प्रष्टव्यं विशिष्यते ॥४५॥
ततोऽपि चक्षुषा चान्यन्न द्रष्टव्यं विशिष्यते ।
ततोऽप्यन्यन्न श्रोतव्यं श्रोत्रेणेति विशिष्यते ॥४४॥
ततो रसनया चान्यन्न रस्यं वै विशिष्यते ।
ततो वाचा न वक्तव्यं तपो वै श्रेष्ठमुच्यते ॥४५॥
ऊर्ध्वहस्तश्चैकपादो निराहारस्तपःस्थितः ।
मौनादप्यधिकः प्रोक्तस्तापसः कष्टमास्थितः ॥४६॥
ततोऽपि निर्जलः श्रेष्ठस्ततोऽप्यकल्पितक्रियः ।
श्रेष्ठस्ततोऽपि सर्वस्मान्निष्कामश्चोर्ध्ववीर्यवान् ॥४७॥
ऊर्ध्वरेता ब्रह्मचारी रत्यभावाद्विशिष्यते ।
सर्वेन्द्रियेभ्यो लिंगस्य निरोधो बलवत्तपः ॥४८॥
रसनाया निरोधश्च मनोनिरोध इत्यपि ।
धातोर्निरोधस्त्वग्रोधो रोधाश्चत्वार ईरिताः ॥४९॥
ब्रह्मचर्ये निरोधास्ते चत्वारः संभवन्ति वै ।
तस्मात्कष्टतरो रोधो नाऽन्योऽस्ति बलवान् खलु ॥५०॥
येन ब्रह्मव्रतं सांगोपांगं संपालितं तु सः ।
मूर्तिमान् वै परब्रह्म हरिर्नास्त्यत्र संशयः ॥५१॥
ब्रह्मचर्यव्रतस्थस्याऽन्यत्कर्तव्यं न शिष्यते ।
कान्ताकनकसूत्रेण वेष्टितं सकलं जगत् ॥५२॥
तासु तेषु विरक्तो यो द्विभुजः परमेश्वरः ।
ब्रह्मचर्यबलात् सोऽत्र तारयत्यखिलं जगत् ॥५३॥
अहमन्ने निवसामि शुद्धसत्त्वमयः प्रभुः ।
जाठरेऽहं निवसामि परातृप्तिप्रदः प्रभुः ॥९४॥
धातुष्वहं निवसामि रजोवीर्यात्मकः प्रभुः ।
तस्याऽवनं कृतं येन मम तेनाऽवनं कृतम् ॥५५॥
कामभोगस्य संकल्पः कर्तव्यो नैव सर्वथा ।
कामभोगाय वार्तायाः श्रवणं कार्यमेव न ॥५६॥
कामभोगस्य वचनं नोच्चार्यं सर्वथा यतः ।
कामभोगस्य संस्पर्शो विधेयो नैव सर्वथा ॥५७॥
कामभोगकृते कामिदर्शनं कार्यमेव न ।
कामभोगकृते गुप्तसंकेतः कार्य एव न ॥५८॥
कामभोगाऽध्यवसायो नैव कार्यः कथंचन ।
रजोवीर्यप्रपातश्च नैव कार्यः कदाचन ॥५९॥
इत्येवं ब्रह्मचर्यं वै सर्वेषां दुष्करं मतम् ।
मिथुनीभूतजीवानां दुष्करं चाऽतपस्विनाम् ॥६०॥
तादृशं ब्रह्मचर्यं तु नरनारायणमृते ।
नाऽन्यत्राऽस्तीति तद्रूपं धृत्वा धास्ये परं तपः ॥६१॥
तद्व्रतेन प्रजां सर्वां रक्षिष्यामि तनुं मम ।
पापादुद्धारयिष्ये तां सुखयिष्ये समन्ततः ॥६२॥

इतिश्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने स्वप्रजारक्षणाय ब्रह्मचर्यतपःकरणाय नारायणेन ब्रह्मणे नरनारायणावतारावश्यकतेतिकथितमिति-
प्रदर्शननामा नवाधिकशततमोध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP