पंचम पटल - विशुद्धचक्रविवरणम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


कण्ठस्थानस्थितं पद्मं विशुद्धं नाम पञ्चमम् ।
सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम् ।
छगलाण्डोsस्ति सिद्धोsत्र शाकिनी चाधिदेवता ॥११६॥

ध्यानं करोति यो नित्यं स योगीश्वरपण्डित: ।
किन्त्वस्य योगिनोsन्यत्र विशुद्धाख्ये सरोरुहे ।
चतुर्वेदा विभासन्ते सरहस्या निधेरिव ॥११७॥

इह स्थाने स्थितो योगी यदा क्रोधवशो भवेत् ।
तदा समस्तं त्रैलोक्यं कम्पते नात्र संशय: ॥११८॥

इह स्थाने मनो यस्य दैवात् याति लयं यदा ।
तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम् ॥११९॥

तस्य न क्षतिमायाति स्वशरीरस्य शक्तित: ।
संवत्सरसहस्रेsपि वज्रातिकठिनस्य वै ॥१२०॥

यदा त्यजति तद्ध्यानं योगीन्द्रोsवनिमण्डले ।
तदा वर्षसहस्राणि मन्यते तत्क्षणं कृतो ॥१२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP