पंचम पटल - प्रतीकोपासनाकथनम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


प्रतीकोपासना कार्या दृष्टादृष्टाफ़लप्रदा ।
पुनाति दर्शनादत्र नात्र कार्या विचारणा ॥२८॥

गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फ़ारितलोचनद्वयम् ।
यदा नभ: पश्यदि स्वप्रतीकं नभोsङ्गणे तत्क्षणमेव पश्यति ॥२९॥

प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोsङ्गणे ।
आयुवृद्धिर्भवेत्तस्य न मृत्यु: स्यात्कदाचन ॥३०॥

यदा पश्यति सम्पूर्ण स्वप्रतीकं नभोsङ्गणे ।
तदा जयं सभायां च युद्धे निर्जित्य सञ्चरेत् ॥३१॥
( तदा जयमवाप्नोति वायुं निर्जित्य सञ्चरेत् )

य: करोति सदाभ्यासं चात्मानं विन्दते परम् ।
पूर्णानन्देकपुरुषं स्वप्रतीकप्रसादत: ॥३२॥

यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे ।
पापाक्षये पुण्यवृद्धौ प्रतीकोपासनं चरेत् ॥३३॥

निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम् ।
तदा मुक्तिमवाप्नोति योगी नियतमानस: ॥३४॥

अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने ।
नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम् ॥३५॥

निरुध्य मारुतं योगी यदैव कुरुते भृशम् ।
तदा तत्क्षणमात्मानं ज्योतीरूपं स पश्यति ॥३६॥

तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम् ।
सर्वपापविनिर्मुक्त: स याति परमां गतिम् ॥३७॥

निरन्तरकृताभ्यासाद्योगी विगतकल्मव: ।
सर्वदेहादि विस्मृत्य तदभिन्न: स्वयं गत: ॥३८॥

य: करोति सदाभ्यासं गुप्ताचारेण मानव: ।
स वै ब्रह्मविलीन: स्यात्पापकर्मरतो यदि ॥३९॥

गोपनीय: प्रयत्नेन सद्य: प्रत्ययकारक: ।
निर्वाणदायको लोके योगोsय़ं मम वल्लभ: ।
नाद: संजायते तस्य क्रमेणाभ्यासतश्च य: ॥४०॥

मत्तभृङ्गवेणुवीणासदृश: प्रथमो ध्वनि: ।
एवमभ्यासत: पश्चात् संसारध्वान्तनाशनम् ।
घण्टानादसम: पश्चात् ध्वनिर्मेघरवोपम: ॥४१॥

ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भर: ।
तदा संजायते तस्य लयस्य मम वल्लभे ॥४२॥

तत्र नादे यदा चित्तं रमते योगिनो भृशम् ।
विस्मृत्य सकलं बाह्यं नादेन सह शाम्याति ॥४३॥

एतदभ्यासयोगेन जित्वा सम्यक् गुणान् बहून् ।
सर्वारम्भपरित्यागी चिदाकाशे विलीयते ॥४४॥

नासनं सिद्धसदृशं न कुम्भसदृशं बलम् ।
न खेचरीसमा मुद्रा न नादसदृशो लय: ॥४५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP