अधिकरणम् ५ - अध्यायः २

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


यथा कन्या स्वयं अभियोगसाध्या न तथा दूत्या । परस्त्रियस्तु सूक्ष्मभावा दूतीसाध्या न तथात्मनेत्याचार्याः ॥१॥

सर्वत्र शक्तिविषये स्वयं साधनं उपपन्नतरकं दुरःउपपादत्वात्तस्य दूतीप्रयोग इति वात्स्यायनः ॥२॥

प्रथमसाहसा अःनियन्त्रणसंभाषाश्च स्वयं प्रतार्याः । तद्विपरीताश्((१३७)) च दूत्येति प्रायोवादः ॥३॥

स्वयं अभियोक्ष्यमाणस्त्वादावेव परिचयं कुर्यात् ॥४॥

तस्याः स्वाभाविकं दर्शनं प्रायत्निकं च ॥५॥

स्वाभाविकं आत्मनो भवनसंनिकर्षे प्रायत्निकं मित्रज्ञातिमहामात्रवैद्यभवन संनिकर्षे विवाहयज्ञोत्सवव्यसनोद्यानगमनादिषु ॥६॥

दर्शने चास्याः सततं साकारं प्रेक्षणं केशसंयमनं नखाच्छुरणं आभरणप्रह्लादनं अधरौष्ठविमर्दनं तास्ताश्च लीला वयस्यैः सह प्रेक्षमाणायास्तत्संबद्धाः परापदेशिन्यश्च कथास्त्यागोपभोगप्रकाशनं सख्युरुत्सङ्गनिषण्णस्य साङभङ्गं जृम्भणं एकभ्रूक्षेपणं मन्दवाक्यता तद्वाक्यश्रवणं तां उद्दिश्य बालेनान्यजनेन वा सहान्योपदिष्टा व्यर्था कथा तस्यां स्वयं मनोरथावेदनं अन्यापदेशेन तां एवोद्दिश्य बालचुम्बनं आलिङ्गनं च जिह्वया चास्य ताम्बूलदानं प्रदेशिन्या हनुदेशघट्टनं तत्तद्यथा योगं यथावकाशं च प्रयोक्तव्यम् ॥७॥

तस्याश्चाङ्कगतस्य बालस्य लालनं बालक्रीडनकानां चास्य दानं ग्रहणं तेन संनिकृष्टत्वात्कथायोजनं तत्संभाषणक्षमेण जनेन च प्रीतिं आसाद्य कार्यं तदनुबन्धं च गमनागमनस्य योजनं संश्रये चास्यास्तां अःपश्यतो नाम कामसूत्रसंकथा ॥८॥

प्रसृते तु परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यात् । तत्प्रतिदिनं प्रतिक्षणं चैकदेशतो गृह्णीयात् । सौगन्धिकं पूगफलानि च ॥९॥

तां आत्मनो दारैः सह विस्रम्भगोष्ठ्यां विविक्तासने च योजयेत् ॥१०॥

नित्यदर्शनार्थं विश्वासनार्थं च ॥५ ।२ ।१२ सुवर्णकारमणिकारवैकटिकनीलीकुसुम्भरञ्जकादिषु च कामार्थिन्यां सहात्मनो वश्यैश्चैषां तत्संपादने स्वयं प्रयतेत ॥११॥

तदनुष्ठाननिरतस्य लोकविदितो दीर्घकालं संदर्शनयोगः ॥१३॥

तस्मिंश्चान्येषां अपि कर्मणां अनुसन्धानम् ॥१४॥

येन कर्मणा द्रव्येण कौशलेन चार्थिनी स्यात्तस्य प्रयोगं उत्पत्तिं आगमं उपायं विज्ञानं चात्मायत्तं दर्शयेत् ॥१५॥

पूर्वप्रवृत्तेषु लोकचरितेषु द्रव्यगुणपरीक्षासु च तया तत्परिजनेन च सह विवादः ॥१६॥

तत्र निर्दिष्टानि पणितानि तेष्वेनां प्राश्निकत्वेन योजयेत् ॥१७॥

तया तु विवदमानोऽत्यःअन्ताद्भूतमिति ब्रूयाद् ॥१८॥

इति परिचयकारणानि((१३८)) ॥१८॥

(प्रकरण)४४

कृतपरिचयां दर्शितेङिताकारां कन्यां इवोपायतोऽभियुञ्जीतेति । प्रायेण तत्र सूक्ष्मा अभियोगाः । कन्यानां अःसंप्रयुक्तत्वात् । इतरासु तानेव स्फुटं उपदध्यात् । संप्रयुक्तत्वात् ॥१९॥

संदर्शिताकारायां निर्भिन्नसद्भावायां समुपभोगव्यतिकरे तदीयान्युपयुञ्जीत ॥२०॥

तत्र महार्हगन्धं उत्तरीयं कुसुमं स्यादङ्गुलीयकं च । तद्धस्ताद्गृहीतताम्बूलया गोष्ठीगमनोद्यतस्य केशहस्तपुष्पयाचनम् ॥२१॥

तत्र महार्हगन्धं स्पृहणीयं स्वनखदशनपदचिह्नितं साकारं दद्यात् ॥२२॥

अधिकैरधिकैश्चाभियोगैः साध्वसविच्छेदनम् ॥२३॥

क्रमेण च विविक्तदेशे गमनं आलिङ्गनं चुम्बनं ताम्बूलस्य ग्राहणं दानान्ते द्रव्याणां परिवर्तनं गुह्यदेशाभिमर्शनं चेत्यभियोगाः ॥२४॥

यत्र चैकाभियुक्ता न तत्रापरां अभियुञ्जीत ॥२५॥

तत्र या वृद्धानुभूतविषया प्रियोपग्रहैश्च तां उपगृह्णीयात् ॥२६॥

श्लोकावत्र भवतः ॥२७॥

वन्यत्र दृष्टसंचारस्तद्भर्ता यत्र नायकः । न तत्र योषितं कां चित्सुप्रापां अपि लङ्घयेत् ॥२७॥

व्शङ्कितां रक्षितां भीतां सःश्वश्रूकां च योषितम् । न तर्कयेत मेधावी जानन्प्रत्ययं आत्मनः((१३९)) ॥२८॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे परिचयकारणान्यभियोगाः द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP