अधिकरणम् ५ - अध्यायः ३

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


अभियुञ्जानो योषितः प्रवृत्तिं परीक्षेत । तया भावः परीक्षितो भवति । अभियोगांश्च प्रतिगृह्णीयात् ॥१॥

मन्त्रं अःव्र्ण्वानां दूत्यैनां साधयेत् ॥२॥

अःप्रतिगृह्याभियोगं पुनरपि संसृज्यमानां द्विधाभूतमानसां विद्यात् । तां क्रमेण साधयेत् ॥३॥

अःप्रतिगृह्याभियोगं सःविशेषं अलंकृता च पुनर्दृशेत तथैव तं अभिगच्छेच्च विविक्ते बलाद्ग्रहणीयां विद्यात् ॥४॥

बहूनपि विषहतेऽअभियोगान्न चिरेणापि प्रयच्छत्यात्मानं सा शुष्कप्रतिग्राहिणी परिचयविघटनसाध्या ॥५॥

मनुष्यजातेश्चित्ताःनित्यत्वात् ॥६॥

अभियुक्तापि परिहरति न च संसृज्यते । न च प्रत्याचष्टे । तस्मिन्नात्मनि च गौरवाभिमानात् । सातिपरिचयात्कृच्छ्रसाध्या । मर्मज्ञया दूत्या तां साधयेत् ॥७॥

सा चेदभियुज्यमाना पारुष्येण प्रत्यादिशत्युपेक्ष्या ॥८॥

परुषयित्वापि तु प्रीतियोजिनीं साधयेत् ॥९॥

कारणात्संस्पर्शनं सहते नावबुध्यते नाम द्विधाभूतमनसा सातत्येन क्षान्त्या वा साध्या ॥१०॥

समीपे शयानायाः सुप्तो नाम करं उपरि विन्यसेत् । सापि सुप्तेवोपेक्षते । जाग्रती त्वपनुदेद्भूयोऽभियोगाकाङ्क्षिणी ॥११॥

एतेन पादस्योपरि पादन्यासो व्याख्यातः((१४०)) ॥१२॥

तस्मिन्प्रसृते भूयः सुप्तसंश्लेषणं उपक्रमेत् ॥१३॥

तदःसहमानां उत्थितां द्वितीयेऽहनि प्रकृतिवर्तिनीं अभियोगार्थिनीं विद्यात् । अःदृश्यमानां तु दूतीसाध्याम् ॥१४॥

चिरं अःदृष्टापि प्रकृतिस्थैव संसृज्यते कृतलक्षणां तां दर्शिताकारां उपक्रमेत् ॥१५॥

अःनभियुक्ताप्याकारयति । विविक्ते चात्मानं दर्शयति । सःवेपथुगद्गदं वदति । स्विन्नकरचरनाङ्गुलिः स्विन्नमुखी च भवति । शिरःपीडने संवाहने चोर्वोरात्मानं नायके नियोजयति ॥१६॥

आतुरासंवाहिका चैकेन हस्तेन संवाहयन्ती द्वितीयेन बाहुना स्पर्शं आवेदयति श्लेषयति च । विस्मितभावा ॥१७॥

निद्रान्धा वा परिस्पृश्योरुभ्यां बाहुभ्यां अपि तिष्ठति । अलिकैकदेशं ऊर्वोरुपरि पातयति । ऊरुमूलसंवाहने नियुक्ता न प्रतिलोमयति । तत्रैव हस्तं एकं अःविचलं न्यस्यति । अङ्गसंदंशेन च पीडितं चिरादपनयति ॥१८॥

प्रतिगृह्यैवं नायकाभियोगान्पुनर्द्वितीयेऽहनि संवाहनायोपगच्छति ॥१९॥

नात्यर्थं संसृज्यते । न च परिहरति ॥२०॥

विविक्ते भावं दर्शयति निष्कारणं चाःगूढं अन्यत्र प्रछन्नप्रदेशात् ॥२१॥

संनिकृष्टपरिचारकोपभोग्या सा चेदाकारितापि तथैव स्यात्सा मर्मज्ञया दूत्या साध्या ॥२२॥

व्यावर्तमाना तु तर्कणीया ॥२३॥

इति भावपरीक्षा((१४१)) ॥२३॥

भवन्ति चात्र श्लोकाः ॥२४॥

वादौ परिचयं कुर्यात्ततश्च परिभाषणम् । परिभाषणसंमिश्रं मिथश्चाकारवेदनम् ॥२४॥

व्प्रत्युत्तरेण पश्येच्चेदाकारस्य परिग्रहम् । ततोऽभियुञ्जीत नरः स्त्रियं विगतसाध्वसः ॥२५॥

वाकारेणात्मनो भावं या नारी प्राक्प्रयोजयेत् । क्षिप्रं एवाभियोज्या सा प्रथमे त्वेव दर्शने ॥२६॥

व्श्लक्ष्णं आकारिता या तु दर्शयेत्स्फुटं उत्तरम् । सापि तत्क्षणसिद्धेति विज्ञेया रतिलालसा ॥२७॥

व्धीरायां अःप्रगल्भायां परीक्षिण्यां च योषिति । एष सूक्ष्मो विधिः प्रोक्ताः सिद्धा एव स्फुटं स्त्रियः ॥२८॥

इति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे भावपरीक्षा तृइतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP