संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - प्रस्तावना

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


धन्वन्तरीयमदनादिहलायुधादीन्विश्वप्रकाश्यमरकोषसशेषराजौ ।
आलोक्य लोकविदितांश्च विचिन्त्य शब्दान्द्रव्याभिधानगणसंग्रह एष सृष्टः ॥१
आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकं ।
आचक्ष्महे लक्षणलक्ष्मधारकं नामोच्चयं सर्वरुजापसारकं ॥२
निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः ।
सोऽधीत्य यत्सकलं एनं अवैति सर्वं तस्मादयं जयति सर्वनिघण्टुराजः ॥३
नानाविधौषधिरसाह्वयवीर्यपाकप्रस्तावनिस्तरणपण्डितचेतनोऽपि ।
मुह्यत्यवश्यं अनवेक्ष्य निघण्टुं एनं तस्मादयं विरचितो भिषजां हिताय ॥४
निघण्टुना विना वैद्यो विद्वान्व्याकरणं विना ।
अनभ्यासेन धानुष्कस्त्रयो हास्यस्य भाजनं ॥५
नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिकनाम्नि नैव गणना द्रव्योच्चयव्याहृतौ ।
तस्मादत्र तु यावतास्त्युपकृतिस्तावन्मया गृह्यते पाथोदैः परिपीयते किं अखिलं तद्वारि वारां निधेः ॥६
आभीरगोपालपुलिन्दतापसाः पान्थास्तथान्येऽपि च वन्यपारगाः ।
परीक्ष्य तेभ्यो विविधोषधाभिधारसादिलक्ष्माणि ततः प्रयोजयेत् ॥७
नानाभिधेयं अथ यत्र शिवासमङ्गाश्यामादिनाम निगमेषु निवेशितं यत् ।
प्रस्ताववीर्यरसयोगवशादमुष्य बुद्ध्या विमृश्य भिषजां च धृतिर्विधेया ॥८
नामानि क्वचिदिह रूढितः स्वभावात्देश्योक्त्या क्वचन च लाञ्छनोपमाभ्यां ।
वीर्येण क्वचिदितराह्वयादिदेशात्द्रव्याणां ध्रुवं इति सप्तधोदितानि ॥९
अत्रौषधीनिवहनामगुणाभिधानप्रस्तावतस्तदुपयुक्ततयेतराणि ।
क्षेत्रावनीधरनदीनरतिर्यगादीन्व्याख्यागुणैरतिसविस्तरं ईरितानि ॥१०
एकः कोऽपि सचेतसां यदि मुदे कल्पेत जल्पे गुणस्तत्रान्येऽपि विनार्थनां बहुमतिं सन्तः स्वयं तन्वते ।
अप्यार्द्रीकृतशैलसानुगशिलां आपीय चान्द्रीं सुधां अम्भोधिः कुमुदैर्दृशश्च जगतां नन्दन्ति केनार्दिताः ॥११
अप्रसिद्धाभिधं चात्र यदौषधं उदीरितं ।
तस्याभिधाविवेकः स्यादेकार्थादिनिरूपणे ॥१२
रम्भाश्यामादिनाम्ना ये स्वर्गस्त्रीतरुणीति च ।
अर्था नानार्थतन्त्रोक्तास्त्यक्तास्तेऽस्मिन्नपार्थकाः ॥१३
व्यक्तिः कृतात्र कर्णाटमहाराष्ट्रीयभाषया ।
आन्ध्रलाटादिभाषास्तु ज्ञातव्यास्तद्द्वयाश्रयाः ॥१४
एतत्त्रिनेत्रगुणनीयगुणानुविद्धवर्णाढ्यवृत्तसितमौक्तिकवर्गसारं ।
कण्ठे सतां सकलनिवृतिधामनामचिन्तामणिप्रकरदाम करोतु केलिं ॥१५
अत्रानूपादिरस्मादवनिरथ गुडूचीशताह्वादिको द्वौ तत्प्रान्ते पर्पटादिस्तदुपरि पठितौ पिप्पलीमूलकादिः ।
शाल्मल्यादिः प्रभद्रादिकं अनु करवीरादिराम्रादिरन्यस्तस्याग्रे चन्दनादिस्तदनु निगदितः कोमलः काञ्चनादिः ॥१६
पानीयः क्षीरशाल्यादिकं अनु कथितो मासमानुष्यकादिः सिंहादिः स्याद्गदादिस्तदनु भवति सत्त्वाधिको मिश्रकोऽन्यः ।
एकार्थादिस्तदेतैस्त्रिकरपरिचितैः प्रातिभोन्मेषसर्गं वर्गैरासाद्य वैद्यो निजमतहृदये निस्तरां निश्चिनोतु ॥१७
काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनोपार्जितश्रीसौभाग्ययशःप्रतापपदवी धाम्ना प्रतिष्ठापिता ।
सेयं श्रीनरसिंहनामविदुषो स्वर्वैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥१८
अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात् ।
वृथा विस्तरभीत्या च नोक्तो गुणगणो मया ॥१९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP