संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - ऱोगादिवर्ग

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपघाताः ।
रुङ्मान्द्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः ॥२०.१
राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः ।
उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥२०.२
पाण्डुरोगस्तु पाण्डुः स्यात्विसर्पः सचिवामयः ।
शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥२०.३
क्षुतं तु क्षवथुः क्षुच्च प्रतिश्यायस्तु पीनसः ।
नेत्रामयो नेत्ररोगो मुखरोगो मुखामयः ॥२०.४
दुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका ।
कुष्ठं तु पुण्डरीकः स्यात्श्वित्रं तु चर्मचित्रकं ॥२०.५
किलाससिध्मे च शिखी श्वासः पामा विचर्चिका ।
कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥२०.६
संचारी शुण्डिकास्फोटे पामपामे विचर्चिका ।
पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥२०.७
पिटका पिटिका प्रोक्ता मसूराभा मसूरिका ।
विस्फोटः स्फोटकः स्फोटः केशघ्नस्त्विन्द्रलुप्तकः ॥२०.८
गलशुण्डी तु शुण्डा स्याद्गलगण्डो गलस्तनः ।
दन्तार्बुदो दन्तमूलं दन्तशोथो द्विजव्रणः ॥२०.९
गुल्मस्तु जाठरग्रन्थिः पृष्ठग्रन्थौ गडुर्भवेत् ।
पक्तिशूलं तु शूलं स्यात्पाकजं परिणामजं ॥२०.१०
लूता चर्मव्रणो वृक्कं नाडी नाडीव्रणो भवेत् ।
श्लीपदं पादवल्मीकं पादस्फोटो विपादिका ॥२०.११
विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनं ।
अर्शांसि गुदकीलाः स्युर्दुर्नामानि गुदाङ्कुराः ॥२०.१२
मलवेगस्त्वतीसारो ग्रहणीरुक्प्रवाहिका ।
वमथुर्वान्तिरुद्गारश्छर्दिर्विच्छर्दिका वमिः ॥२०.१३
हृद्रोगो हृद्गदो हृद्रुगुत्प्राणः श्वास उच्यते ।
ज्वरस्तु स ज्वरातङ्को रोगश्रेष्ठो महागदः ॥२०.१४
द्वंद्वजा द्वंद्वदोषोत्थाः शीताद्या विषमज्वराः ।
अतीत्यागन्तवस्ते द्व्यैकाहिकत्र्याहिकादयः ॥२०.१५
रक्तपित्तं पित्तरक्तं पित्तास्रं पित्तशोणितं ।
इत्येवं रक्तवातादिद्वंद्वदोषं उदाहरेत् ॥२०.१६
तृष्णोदन्या पिपासा तृण्मदातङ्को मदात्ययः ।
पानात्ययो मदव्याधिर्मदस्तूद्रिक्तचित्तता ॥२०.१७
मूर्छा तु मोहो मूढिश्च स्वरसादः स्वरक्षयः ।
अश्रद्धानभिलाषः स्यादरुचिश्चाप्यरोचकः ॥२०.१८
मूत्रदोषस्तु विज्ञेयः प्रमेहो मेह इत्यपि ।
कृच्छ्रं तु मूत्रकृच्छ्रं स्यात्मूत्ररोधोऽश्मरी च सा ॥२०.१९
वातव्याधिश्चलातङ्को वातरोगोऽनिलामयः ।
कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥२०.२०
जृम्भा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा ।
आलस्यं मन्दता मान्द्यं कार्यप्रद्वेष इत्यपि ॥२०.२१
तुन्दः स्थविष्ठ इत्युक्तो जठरघ्नो जलोदरः ।
आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥२०.२२
जालगर्दभकः प्रोक्तो जालरासभकामयः ।
जालखरगदो ज्ञेयः स गर्दभगदस्तथा ॥२०.२३
विद्रधिः स्याद्विदरणं हृद्ग्रन्थिर्हृद्व्रणश्च सः ।
व्रणो भगप्रदेशे यः स भगंदरनामकः ॥२०.२४
शिरःशूलादयो ज्ञेयास्तत्तदङ्गाभिधानकाः ।
इत्थं अन्येऽपि बोद्धव्या भिषग्भिर्देहतो गदाः ॥२०.२५
संतापः संज्वरस्तापः शोष उष्मा च कथ्यते ।
यश्चापि कोष्ठसंतापः सोऽन्तर्दाह इति स्मृतः ॥२०.२६
स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु ।
पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥२०.२७
तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा ।
प्रलयस्त्विन्द्रियस्वापश्चेष्टानाशः प्रलीनता ॥२०.२८
उन्मादो मतिविभ्रान्तिरुन्मनायितं इत्यपि ।
आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ॥२०.२९
अपस्मारोऽङ्गविकृतिर्लोलाङ्गो भूतविक्रिया ।
स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवं ॥२०.३०
वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः ।
श्लैष्मिकः श्लेष्मसम्भूतः समूहः सांनिपातिकः ॥२०.३१
व्याधितो विकृतो ग्लास्नुर्ग्लानो मन्दस्तथातुरः ।
अभ्यान्तोऽभ्यमितो रुग्नश्चामयाव्यपटुश्च सः ॥२०.३२
तद्विशेषास्तु विज्ञेयास्तन्मत्वर्थीययोगतः ।
यथा ज्वरितकण्डूलवातकक्षयदद्रुणाः ॥२०.३३
उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः ।
विश्वासी ऋजुरास्तिकः सुचरितो दाता दयालुः शुचिर्यः स्यात्कामं अवञ्चकः स विकृतो मुच्येत मृत्योरपि ॥२०.३४
उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया ।
निग्रहो वेदनानिष्ठा क्रिया चोपक्रमः समाः ॥२०.३५
भैषज्यं भेषजं जैत्रमगदो जायुरौषधं ।
आयुर्योगो गदारातिरमृतं च तदुच्यते ॥२०.३६
तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः ।
रसश्चूर्णं कषायश्चावलेहः कल्क इत्यपि ॥२०.३७
रसो दृषदि संभिन्नो दिव्यद्रव्यसमन्वितः ।
चूर्णं तु वस्तुभिः क्षुण्णैः कषायः क्वथितैस्तु तैः ॥२०.३८
तैः पक्वैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥२०.३९
पाचनः शोधनीयश्च क्लेदनश्च शमस्तथा ।
दीपनस्तर्पणः शोष इति सप्तविधाः स्मृताः ॥२०.४०
पाचनोऽर्धावशेषश्च शोधनो द्वादशांशकः ।
क्लेदनश्चतुरंशस्तु शमश्चाष्टांशको मतः ॥२०.४१
दीपनस्तु षडंशश्च तर्पणः पञ्चमांशकः ।
शोषणः षोडशांशश्च क्वाथभेदा इतीरिताः ॥२०.४२
ज्ञेयं रसादिकथनादनन्तरं किलानुपानं कथयन्ति सूरयः ।
विलम्ब्य च क्रामणं एतदीरितं रात्रौ पुनः पाचनं एतदूचिरे ॥२०.४३
आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् ॥२०.४४
किल पाटवं आरोग्यं अगदं स्यादनामयं ।
कल्पस्तु पटुरुल्लाघो निरातङ्को निरामयः ॥२०.४५
अगदो नीरुजो निरुगनातङ्कश्च कथ्यते ॥२०.४६
वैद्यः श्रेष्ठोऽगदंकारो रोगहारी भिषग्विधिः ।
रोगज्ञो जीवनो विद्वानायुर्वेदी चिकित्सकः ॥२०.४७
विप्रो वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविदास्तिकमतिर्दक्षः सुधीर्धार्मिकः ।
स्वाचारः समदृग्दयालुरखलो यः सिद्धमन्त्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥२०.४८
अधीरः कर्कशो लुब्धः सरोगो न्यूनशिक्षितः ।
पञ्च वैद्या न युज्यन्ते धन्वन्तरिसमा अपि ॥२०.४९
पुमर्थाश्चत्वारः खलु करणसौख्यैकसुभगास्तदेतद्भैषज्यानवरतनिषेवैकवशगं ।
तदप्येकायत्तं फलदं अगदंकारकृपया ततो लोके लोके न परं उपकर्तैवममुतः ॥२०.५०
राजानो विजिगीषया निजभुजप्रक्रान्तं ओजोदयात्शौर्यं संगररङ्गसद्मनि यथा संबिभ्रते संगताः ।
यस्मिन्नौषधयस्तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रोऽसौ भिषगुच्यते स्वयमिति श्रुत्यापि सत्यापितं ॥२०.५१
यथावदुत्खाय शुचिप्रदेशजा द्विजेन कालादिकतत्त्ववेदिना ।
यथायथं चौषधयो गुणोत्तराः प्रत्याहरन्ते यमगोचरानपि ॥२०.५२
येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ।
येनेन्द्रो येन वरुणः खनते येन केशवः ।
तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषध ॥२०.५३
विप्रः पठन्निमं मन्त्रं प्रयतात्मा महौषधीं ।
खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥२०.५४
वीर्यं प्रकाश्य निजमोषधयः किलोचुरन्योन्यं उर्व्यपि दिवो भुवमाव्रजन्त्यः ।
जीवं मुमूर्षं अपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥२०.५५
प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः ।
यस्मै द्विजो दिशति भेषजमाशु राजन्तं पालयाम इति च श्रुतिराह साक्षात् ॥२०.५६
आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजं अवृजिनं स्वाश्रयं कामयन्ते ।
तास्वेवान्यः प्रसरति मदाद्यस्तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्येनं एताः ॥२०.५७
द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषग्रहबालवैद्यं ।
विद्याद्रसायनवरं दृढदेहहेतुं आयुःश्रुतेर्द्विचतुरङ्गं इहाह शम्भुः ॥२०.५८
अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा ।
बालो रसायनं वृष्यमिति कैश्चिदुदाहृतं ॥२०.५९
अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः ।
अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥२०.६०
प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरो धीमान्कोविदो लब्धवर्णः ।
दोषज्ञः सन्दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित् ॥२०.६१
वैज्ञानिकः कृतमुखः संख्यावान्मतिमान्कृती ।
कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः ॥२०.६२
निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः ।
अभिज्ञो निपुणो विद्वान्कृतकर्मा विचक्षणः ॥२०.६३
विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः ।
सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान्विबुधो विदन् ॥२०.६४
मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः ।
धीर्बुद्धिः प्रतिपत्प्रेक्षा प्रतिपत्तिश्च चेतना ॥२०.६५
संविज्ज्ञप्तिश्चोपलब्धिश्चिन्मेधा मननं मनः ।
भानं बोधश्च हृल्लेखः संख्या च प्रतिभा च सा ॥२०.६६
आदानं रोगहेतुः स्यान्निदानं रोगलक्षणं ।
चिकित्सा तत्प्रतीकारः आरोग्यं रुङ्निवर्तनं ॥२०.६७
मण्डः पेया विलेपी च यवागूः पथ्यभेदकाः ।
भक्तैर्विना द्रवो मण्डः पेया भक्तसमन्विता ।
विलेपी बहुभक्ता स्याद्यवागूर्विरलद्रवा ॥२०.६८
विदलं माषमुद्गादि पक्वं सूपाभिधानकं ॥२०.६९
पादाहारं पथ्यमाहुश्च वैद्या विद्यादर्धाहारं आहारसंज्ञं ।
पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषप्रसूत्यै ॥२०.७०
अन्नं जीवनमाहारः कूरं कशिपुरोदनं ।
अन्धो भिस्सादनं भोज्यं अन्नाद्यं अशनं तथा ॥२०.७१
भोज्यं पेयं तथा चोष्यं लेह्यं खाद्यं च चर्वणं ।
निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतं ॥२०.७२
व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतं ।
उपदंशो विदंशः स्यात्संधानो रोचकश्च सः ॥२०.७३
जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः ।
बल्भनं अशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥२०.७४
जक्षणं भक्षणं लेहः स्वादनं रसनस्वदौ ।
चर्वणं पानपीती च धयनं चूषणं भिदाः ॥२०.७५
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।
सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥२०.७६
मधुरं लौल्यं इत्याहुरिक्ष्वादौ च स लक्ष्यते ॥२०.७७
लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥२०.७८
तिक्तश्च पिचुमन्दादौ व्यक्तमास्वाद्यते रसः ॥२०.७९
कषायस्तुवरः प्रोक्तः स तु पूगीफलादिषु ॥२०.८०
अम्लस्तु चिञ्चाजम्बीरमातुलुङ्गफलादिषु ॥२०.८१
कटुस्तु तीक्ष्णसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥२०.८२
मधुरश्च रसश्चिनोति केशान्वपुषः स्थैर्यबलौजोवीर्यदायी ।
अतिसेवनतः प्रमेहशैत्यं जडतामान्द्यमुखान्करोति दोषान् ॥२०.८३
लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारकश्च ।
अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥२०.८४
तिक्तो जन्तून्हन्ति कुष्ठं ज्वरार्तिं कासं दाहं दीपनो रोचनश्च ।
मर्त्यैर्गाढं प्रत्यहं सेवितश्चेत्तीव्रं दत्ते राजयक्ष्माणमेषः ॥२०.८५
कषायनामा निरुणद्धि शोफं वर्णं तनोर्दीपनपाचनश्च ।
सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रं ॥२०.८६
अम्लाभिधः प्रीतिकरो रुचिप्रदः प्रपाचनोऽग्नेः पटुतां च यच्छति ।
भ्रान्तिं च कुष्ठं कफपाण्डुतां च कार्ष्ण्यं च कासं कुरुतेऽतिसेवितः ॥२०.८७
कटुः कफं कण्ठजदोषशोफमन्दानलश्वित्रगदान्निहन्ति ।
एषोऽपि दत्ते बहुसेवितश्चेत्क्षयावहो वीर्यबलक्षयं च ॥२०.८८
कटुः कषायश्च कफापहारिणौ माधुर्यतिक्तावपि पित्तनाशनौ ।
पट्वम्लसंज्ञौ च रसौ मरुद्धरौ इत्थं द्विशोऽमी सकलामयापहाः ॥२०.८९
अन्योन्यं मधुराम्लौ लवणाम्लौ कटुतिक्तकौ च रसौ ।
कटुलवणौ च स्यातां मिश्ररसौ तिक्तलवणौ च ॥२०.९०
लवणमधुरौ विरुद्धावथ कटुमधुरौ च तिक्तमधुरौ च ।
साधारणः कषायः सर्वत्र समानतां धत्ते ॥२०.९१
संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावत्स्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः ।
अम्लस्तिक्तरुचिं ददाति कटुको यात्यन्ततस्तिक्ततां इत्येषां स्वविपाकतोऽपि कथिता षण्णां रसानां स्थितिः ॥२०.९२
मधुरोऽम्लः कटुस्तिक्तः पटुस्तुवर इत्यमी ।
क्रमादन्योन्यसंकीर्णा नानात्वं यान्ति षड्रसाः ॥२०.९३
आद्याद्यो मधुरादिश्चेदेकैकेनोत्तरेण युक् ।
द्विकभेदाः पञ्चदश पर्यायैः पञ्चभिस्तथा ॥२०.९४
आद्यः सानन्तरः प्राग्वदुत्तरेण श्रुतो यदा ।
चतुर्भिरपि पर्यायैराद्ये प्रोक्ता भिदा दश ॥२०.९५
एवं द्वितीये षड्भेदास्तृतीये च त्रयः स्मृताः ।
चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥२०.९६
आद्यौ सानन्तरौ त्रिः षडेकैकाग्रिमयोगतः ।
त्यक्ते द्वितीये चत्वारः स्वाग्रिमैकैकसंयुते ॥२०.९७
आद्ये त्यक्ते तु पञ्च स्युः स्वाग्रिमैकैकसंयुते ।
चतुष्कभेदा इत्येते क्रमात्पञ्चदशेरिताः ॥२०.९८
ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः ।
एकः सर्वसमासेन व्यासे षडिति सप्त ते ॥२०.९९
एवं त्रिषष्टिराख्याता रसभेदाः समासतः ।
तारतम्येष्वसंख्यातांस्तान्वेत्ति यदि शंकरः ॥२०.१००
बृंहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् ।
वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥२०.१०१
आप्यायनं तर्पणं च प्रीणनं तोषणं च तत् ।
निःष्यन्दनं अभिष्यन्दि नेत्रद्रावं सरं च तत् ॥२०.१०२
इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनुक्ताहारपथ्यप्रयोगं ।
इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान्प्रवदतु स च विद्वानामयप्रत्ययांस्तान् ॥२०.१०३
येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः ।
तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्तिं नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥२०.१०४

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP