संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - पञ्चमप्रपाठकः| द्वितीया दशतिः छन्द आर्चिकः - पञ्चमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः पञ्चमप्रपाठकः - द्वितीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीया दशतिः Translation - भाषांतर अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।युधेदापित्वमिच्छसे ॥३९९॥यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।सखाय इन्द्रमूतये ॥४००॥आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः ।दृढा चिद्यमयिष्णवः ॥४०१॥आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते ।सोमं सोमपते पिब ॥४०२॥त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।संस्थे जनस्य गोमतः ॥४०३॥गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः ।रिहते ककुभो मिथः ॥४०४॥त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे ।आ वीरं पृतनासहं ॥४०५॥अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।उदेव ग्मन्त उदभिः ॥४०६॥सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।अभि त्वामिन्द्र नोनुमः ॥४०७॥वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।वज्रिञ्चित्रं हवामहे ॥४०८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP