संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - पञ्चमप्रपाठकः| नवमी दशतिः छन्द आर्चिकः - पञ्चमप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः नवमी दशतिः दशमी दशतिः पञ्चमप्रपाठकः - नवमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद नवमी दशतिः Translation - भाषांतर उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।उग्रं शर्म महि श्रवः ॥४६७॥स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।इन्द्राय पातवे सुतः ॥४६८॥वृषा पवस्व धारया मरुत्वते च मत्सरः ।विश्वा दधान ओजसा ॥४६९॥यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।देवावीरघशंसहा ॥४७०॥तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।हरिरेति कनिक्रदत् ॥४७१॥इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।अर्कस्य योनिमासदं ॥४७२॥असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।श्येनो न योनिमासदत् ॥४७३॥पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।मरुद्भ्यो वायवे मदः ॥४७४॥परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।मदेषु सर्वधा असि ॥४७५॥परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।स्वानैर्याति कविक्रतुः ॥४७६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP